________________
५८
सूत्रार्थमुकावल्याम्
अयमेव मुक्तिगमनयोग्यः परोपदेशकश्चेत्याह---- अयमेवाज्ञानुवर्त्त्य पदेशकश्च ॥ २७ ॥
अयमेवेति, धनधान्यादिभी रागद्वेषादिभिश्चातिक्रान्तः साधुः कषायतृणपटलदावानलकल्पाया असिधाराकल्पायाश्च भगवदाज्ञाया अनुवर्त्तनशीलः, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञा, 5 सा च द्रव्यार्थातिदेशादनाद्यनिधना जीवानुपरोधिनी हितकारिण्यकुशलदुरवगमा च एतज्ज्ञानवर्त्ती साधुधर्मा जितेन्द्रियकषायो भवति, अत एवोपदेशकः, तीर्थकरावेदितप्राणिदुःखकारणवेदी धर्म - कथालब्धिसम्पन्नः स्वपरसमयविदुद्युक्तविहारी यथावादी तथाकारी देशकालादिक्रमज्ञो ज्ञपरिज्ञयोपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदन स्वीकरोत्युदाहरति च प्रत्याख्यान परिज्ञया च परिहरति परिहारयति च, तथा मानुषस्य यद्दुःखं प्रवेदितं यस्य च दुःखस्य परिज्ञां कुशल उदाहरति तदुःखं 10 कर्मकृतं तत्कर्माष्टप्रकारं तदाश्रवद्वाराणि च ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु सर्वैः प्रकारैर्योग त्रिककरणत्रिकैर्न वर्त्तेतेति सर्वशः परिज्ञाय कथयति, ईदृशं सर्वशः परिज्ञानं केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा, एवंविध उपदेशको न मोक्षमार्गादन्यत्र रमते, अरक्तद्विष्टत्वादेवानुग्रहबुद्ध्या द्रमकचक्रवत्र्त्यादेरेकरूपतया सति ग्रहणसामर्थ्य उपदेशो दीयते, अयमेव चाष्टप्रकारेण कर्मणा बद्धानां जन्तूनां प्रतिमोचकः, पुण्यापुण्यवतोर्धर्मकथा समदृष्टित्वाद्विधिज्ञत्वाच्छ्रोतृविवेचक15 त्वाश्च । एवंविधो धर्मकथाविधिज्ञो बद्धप्रतिमोचकः कर्मापनयनिपुणः सत्पथव्यवस्थितः कुमार्ग निराचिकीर्षुः सर्वसंवरचारित्रोपेतो मुनिः केवलिभिर्विशिष्टमुनिभिर्वा यदनारब्धं तन्नारभते यच्च मोक्षाङ्गमाण तत्करोतीति ॥ २७ ॥
अथ प्रतिनः संयमव्यवस्थितस्य विजितकषाया दिलोकस्य मुमुक्षोरनुकूलप्रतिकूल परीषहसम्भवे विकृतचेतसा सोढव्या इत्याख्याति
[ द्वितीया
20
सुप्तजामद्दोषगुणज्ञः शीतोष्णसहः कर्ममोचकः ॥ २८ ॥
,
सुप्तेति साधुहिं निरन्तरं जागृतः, सज्ज्ञानवस्वान्मोक्षमार्गाविचलत्वादनवरतं हिताहितप्राप्तिपरिहारव्यापृतत्वाश्च, सुप्तश्च द्रव्यतो भावतश्चेति द्विविधः, निद्राप्रमादवान् द्रव्यसुप्तः, मिथ्यात्वाज्ञानमय महानिद्राव्यामोहितो भावसुप्तः, मिध्यादृष्टिस्तु सततं भावसुप्तः, सद्विज्ञानानुष्ठान विकलत्वात्, निद्रया तु भजनीयः, द्रव्यनिद्रोपगतोऽपि वचिद्दितीयपौरुष्यादौ साधुः सततं जागरूक एव भावतः, 25 अपगतमिध्यात्वादिनिद्रयाऽवाप्तसम्यक्त्वः द्विबोधत्वादेव धर्मं प्रतीत्य सुप्तजाम्रदवस्थे उक्ते । द्रव्यनिलस्य तु धर्मः स्याद्वा न वा, भावतो जागरणे निद्रासुप्तस्यापि धर्मः स्यादेव, भावतोऽजाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि द्रव्यभावसुप्तस्य तु न स्यादेव । कथं द्रव्यसुप्तस्य धर्मो न भवतीति चेदुच्यते, द्रव्यसुप्तो हि निद्रया भवति सा च दुरन्ता, स्त्यानद्धित्रिकोदये भवसिद्धिकस्यापि सम्यक्त्वावाप्तेरभावात्, तद्बन्धच मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनि30 वृत्तिवाद र गुणस्थानकाल संख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरप्युदयो दुरन्त एव, बन्धोपरमस्त्व पूर्वकरणकालसंख्येयभागान्ते भवति, क्षयश्च क्षीणकषायद्विचरमसमये, उदयस्तूप क्षमकोप