SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मुक्ता] आचारलक्षणा। परिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः । कालज्ञ इति, सर्वाः प्रत्युपेक्षणादयः क्रियाः कर्तव्ये काले परस्पराबाधया करोति कर्तव्यावसरं वेत्ति विधत्ते चैवंविधः परमार्थदर्शी कालज्ञो भिक्षुर्धर्मोपकरणमपि करणत्रयैः क्रयविक्रयादिनाऽगृहानश्शुद्ध मुद्गमादिदोषरहितमाहारादि गृहीयात् , शरीरपोषणार्थमभ्यवहरेत् , तथा कालज्ञ:-मिक्षार्थमुपसर्पणाद्यवसरवेदी काले । समुपस्थितप्रश्नानामुत्तरदानकुशलः, यथा गोचरप्रदेशादौ पृष्टो भिक्षादोषान् सुखेनैवाचष्टे, एवं केनचित् किमिति भवतां सर्वजनाचीर्ण स्नान न सम्मतमिति ग्रीष्ममध्याह्नतीव्रतरतरणिकरसंसर्गाद्गलस्वेदबि. न्दुकः साधुः पृष्टो यतीनां सर्वेषां प्रायः कामाङ्गत्वाजलनानं प्रतिषिद्धमित्याद्युत्तरं ददाति, तदेवं कालज्ञोऽकल्प्यं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहृत्य निर्दुष्टमाहारं यावता गृहीतेन गृही पुनरारम्भे न प्रवर्तेत यावन्मात्रे चात्मनो विवक्षितकार्यनिष्पत्तिस्तावन्मात्रमेव गृह्णीयात् , न तु 10 यावल्लाभं तावत् , लाभालाभयोश्च मदशोको न कुर्यात्, संयमोपकरणातिरिक्तञ्च वस्त्रपात्रादिकं न गृहीयात् , संयमोपकरणान्यपि न मूर्च्छया धारयेत् , अपि तु संयमोपकारितया बिभृयात्तादृशस्यापरिग्रहरूपत्वात् , परिग्रहश्च दूरतः परिहर्त्तव्यस्तत्परिहरणश्च न विना निदानोच्छेदेन, निदानन्तु शब्दा. दिपञ्चगुणानुगामिनः कामाः, तत्र प्रमादवता न भाव्यमिति ॥ २५ ॥ ____ संयमदेहयात्रार्थलोकमनुसरन् कामादिविपाकवेत्ता ज्ञातसंसारस्वभावो ज्ञानाद्यपवर्गककारणं 15 सम्यग्जानानो भावतो ग्रहणयोग्यसम्यग्दर्शनज्ञानचारित्राण्यादाय सर्व सावधं कर्म न मयाऽनुष्ठेयमित्येवं कृतप्रतिज्ञोऽष्टादशपापकर्मसमारम्भात् करणत्रयैर्निवृत्तः कर्मक्षयप्रत्यूहस्य प्राणिनां शारीरमानसदुःखोत्पादनस्य मूलभूतमात्मीयताग्रहं परित्यजेदित्याह . निर्ममत्वः प्राणिपीडारम्भे न यतेत ॥ २६ ॥ निर्ममत्व इति, ममेदमिति मतिरहितः, परिग्रहफलज्ञो हि परिग्रहं दूरीकरोति, ममेदमि-20 त्यध्यवसायस्तु द्रव्यतो भावतश्च परिग्रहनिबन्धनः, येन त्वेतत्परिग्रहाध्यवसायमलिनं ज्ञानमपनीतं स एव वस्तुतो बाह्याभ्यन्तरपरिग्रहपरित्यागी, तस्य च जिनकल्पिकस्येव नगरादिसम्बन्धिपृथ्वीसम्बन्धेऽपि निष्परिग्रह तैव, चित्तस्य परिग्रहकालुष्याभावात् , अत एवासौ विदितसप्तभयः संयमानुष्ठानपरायणः । कदाचिन्मोहनीयोदयाद्यदि संयमेऽरतिरसंयमे विषयेषु वा रतिराविर्भवेत्तदा न विमनीभूतो विषयेषु रज्यति, न वाऽमनोज्ञान् द्वेष्टि, एष एव परिग्रहान्मुक्तो भवौघं तरति, तस्माद्विषयशरीररूपबलादौ न 25 ममत्वं विदध्यात् । ममत्वं हि कर्मक्षयविघ्नभूतायाः प्राणिपीडाया मूलम् , तदाविष्टश्च पृथिवीकायादि- . समारम्भं करोति, एकत्र च समारम्भे प्रवृत्तस्यापरकायसमारम्भोऽष्टादशप्रकारपापकर्माणि वाऽवश्यं वर्त्तन्त एव, यथा कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भेणापरकायसमारम्भो भवति, प्रतिज्ञालोपाचानृतः, व्यापाद्यमानप्राणिना स्वात्मनो व्यापादकायाप्रदानात्तीर्थकरेणाननुज्ञातत्वाच्चादत्तादानम्, साषद्योपादानाच्च परिग्रहः, तस्माच्च मैथुनरात्रिभोजने प्रसज्येते, तस्मात् परिग्रहात् साक्षात् 30 परम्परया वा भयं सम्पनीपद्यत इति विचिन्त्य तत्राप्रहं परिहृत्य संयमानुष्ठाने सम्यक् प्रयतेतेति भावः ॥ २६ ॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy