________________
५६ सूत्रार्थमुक्तावल्याम्
[द्वितीया नावबुध्यते कर्मविपाकं संसारासारतां नावगच्छति हिताहिते न गणयति, अतो मूढस्तत्रैवोच्चनीचगोत्रा'दिके विपर्यासमनुभवन् सत्त्वोपमर्दिकाः क्रिया विदधत् जन्मजरामरणप्रवाहपतितो दुरन्तदुःखभाग्भवतीति भावः ॥ २३ ॥ - अथ भोगासक्तिर्न कार्येत्याह
भोगा दुःखाय तन्न तीरपारयायी सज्जेत ॥ २४ ॥ भोगा इति, भोगाः कामादयस्तत्साधनभूता वनिताहिरण्यपशुब्रीह्यादयश्च, ते दुःखाय भवन्ति, तत्प्राप्तावप्राप्तौ च दुःखमेव, शब्दादिविषयविपाकज्ञानशून्या हि विषयाननुशोचन्ति कथमस्यामप्यवस्थायां वयं न भोगान भुंक्ष्महे कीदृशी वा दशास्माकं यतः प्राप्ता अपि विषया नोपभोगायेति, ... यथा ब्रह्मदत्तादयः, न चैवं सर्वेषामध्यवसायः, सनत्कुमारादिना व्यभिचारात्, किन्त्वनवगततत्त्वा10 नामेव, विवेकिनस्तु तान् दुःखसाधनभूतानेव मन्यन्ते, रूयादयोऽपि दुःखात्मका एव, तदासक्तस्य कर्मोपचयो रोगाद्युत्पत्तिस्ततो मरणं ततोऽपि नरकभवस्तस्मादपि निर्गत्य निषेककललार्बुदपेशीव्यूहगर्भप्रसवादयो महान्तः क्लेशाः आविर्भवन्ति, तथा प्रियजीवितार्थमुपार्जनक्लेशमविगणय्य रक्षणपरिश्रममनालोच्य तरलताश्चानवधार्य धनसंचयं कुर्वते, तदप्यन्तरायोदयान्न तेषामुपभोगाय भवति, दायादा विलुम्पन्ति चौरा अपहरन्ति राजानो वाऽवच्छिन्दन्ति गृहदाहेन वा दह्यते, एभिश्च महादुःखमनु15 भवन्ति, तथा यैरेवार्थाद्युपायै गोपभोगो भवति कर्मपरिणतिवैचित्र्यात् कदाचित्तैरेव तन्न भवति, तथा स्वीकृतभ्रूविक्षेपादिविभ्रमैर्मुग्धाः क्रूरकर्मानुष्ठातारो नरककटुविपाकफलमप्यवगणय्य वशीभूताः स्वयमपि विनष्टाः स्त्रिय उपभोगायतना एताभिर्विना शरीरस्थितिरेव न भवतीत्याद्युपदेशप्रदानेन परानपि विनाशयन्ति, तदेवमेतान मोहहेतून विचिन्त्य तीरपारयायी मुनिस्तत्र नाभिषक्तिं कुर्यात् , तीरं मोहनीयक्षयः, पारं शेषघातिक्षया, यद्वा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभावः, तत्प्राप्यभिलाषुको मुनिरि20 त्यर्थः, भोगापेक्षाविधुरः पञ्चमहाव्रतारूढः आत्मस्वरूपनिखिलावारककर्मप्रध्वंससमुज्वलदखिल
वस्तुजालसमुद्भासिज्ञानानन्तसुखसाधनाय संयमानुष्ठानाय जुगुप्सा न कार्या, अलाभादौ न वा खेदमुपेयात् , लाभान्तरायोऽयं मम, अनेन चालाभेन कर्मक्षपणायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति विचिन्तयेत् , न वाऽपर्याप्तमुपलभ्य दातारं निन्देत्, समुपलब्धपरिपूर्णभिक्षादिलाभो नोचावचालापैः
स्तुतिं विदध्यादिति ॥ २४ ॥ 28 अथ परिहतभोगामिलाषो व्रती दीर्घसंयमयात्रार्थ शरीरपरिपोषणाय लोकनिश्रया विहरेत् , निराश्रयस्य देहसाधनलाभासम्भवात् , तदभावे च धर्मस्याप्यसम्भवादतो वृत्तिनियममाह
शस्त्रोपरतः कालज्ञो भिक्षुश्शुद्धमाहारादि गृह्णीयात् ॥ २५॥
शस्त्रोपरत इति, पूर्वोदितनानाशस्त्रकर्मसमारम्भरहित इत्यर्थः, एतेन पाकादि न स्वयं करोति न कारयति न वाऽन्यमादिशतीति सूचितम् , करणत्रयैः समारम्भनिवृत्तत्वात् , अनवगतवस्तु30 याथाध्यैः सुखदुःखप्राप्तिपरिहाराय जीवोपमर्दकैर्द्रव्यादिभेदभिन्नैः शनैः कायिकाधिकरणिकादिरूपाः
ऋषिवाणिज्यादिरूपा वा क्रियाः संरम्भसमारम्भारम्भलक्षणा अनुष्ठीयन्ते । तत्र संरम्भः इष्टानिष्टप्राप्ति