SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४८ सूत्रार्यमुक्तावल्याम् [द्वितीया भेदात् पोढा भवन्ति । प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्रीकृतलोकश्रेण्यसंख्येयभागवल्काशप्रदेशरोशितुल्यप्रमाणाः बादरतेजःकायपर्याप्तकराशेरसंख्येयगुणाश्च । अपर्याप्तकास्तेऽसंख्येयलोकप्रदेशप्रमाणाः, एतेऽपि बादरतेजःकायजीवराशेरसंख्येयगुणाः । साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, परन्तु । साधारणबादरपर्याप्तकेभ्यो बादरापर्याप्तका असंख्येयगुणाः तेभ्यः सूक्ष्मा अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि सूक्ष्मपर्याप्तका असंख्येयगुणाः, योनिश्च वनस्पतीनां संवृता, सा च सचित्ताचित्तमिश्रभेदेन त्रिधा, शीतोष्णमिश्रलक्षणभेदत्रयवती च, एवं प्रत्येकतरूणां योनिभेदानां दशलक्षाः साधारणानाश्च चतुर्दशलक्षा इति । लक्षणं तेजस्कायस्य, यथाहि रात्रौ खद्योतकादेर्दैहपरिणामो जीवप्रयोगनिवृत्तशक्तिराविश्वकास्ति एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिर्जीवप्रयोगविशेषाविर्भावितेत्यनुमी10 यते यथा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते जीवाधिष्ठितशरीरानुपात्येव भवति एषैवोपमा आग्नेयजन्तूनाम्, न हि मृता ज्वरिणः कचिदप्युपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता भाव्या, एवं छेद्यत्वादिहेतुभ्योऽपि । वायोर्लक्षणञ्च, सचेतनो वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वाद्गवाश्वादिवदिति, तिर्यगेव गमननियमाभावादनियमितेति विशेषणोपादानाच्च न परमाणुषु व्यभिचारः, तेषां नियमितगतिमत्त्वात् , जीवपुद्गलयोरनुश्रेणिगतिश्रवणात् , एष वायू रूपरसगन्धस्पर्शात्मकोऽपि 15 सूक्ष्मपरिमाणात् परमाणोरिव चक्षुरविषयोऽपि न तस्याभावोऽचेतनत्वं वा, अन्यथा चक्षुरविषयश रीराणां स्वशक्तिमहिम्ना तथाविधरूपकारिणां देवादीनामप्यभावोऽचेतनत्वश्च स्यात् , न चैतदिष्टमिति । वनस्पतिलक्षणमपि-यथा हि मनुष्यशरीरं जातं बालकुमारादिपरिणामविशेषवत् प्रस्फुटचेतनाकमुपलभ्यते तथेदमपि वनस्पतिशरीरम् , यतो जातः केतकतरुर्बालको युवा वृद्धश्च संवृत्त इति जात्यादि धर्मत्वमनुभूयते, समानेऽप्युत्पत्त्यादिधर्मकत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमित्यभ्यु20 पगमो न युज्यते, तथा यथा मनुष्यादिशरीरं ज्ञानवत्तथा वनस्पतिशरीरमपि, धात्रीपुन्नागादीनां हि स्वापविबोधसद्भावः अधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृड्जलधरनिनादश्रवणशिशिरवायुसंस्पर्शनादकरोदयः कामिनीचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, एवं सुरभिसुरागण्डूषसेकादकुलस्य, स्पष्टप्ररोहिकादीनाश्च हस्तसंस्पर्शात् सङ्कोचिकादिकाः क्रियाविशेषा दृश्यन्ते, न ह्येते ज्ञानमन्तरेण घटन्त इति । तत्र सूक्ष्माश्चक्षुरग्राह्या जीवाः केवलमरक्तद्विष्टभगवदाज्ञारूपागमादेव प्रत्येतव्याः । 25 अनन्तकायानां जीवानामाहारप्राणापानग्रहणमेकमेव भवति, एकस्मिन् ह्याहारितवति उच्छृसिते निःश्वसिते वा सर्वेऽप्यागृहीताहारोच्छासनिःश्वासा भवन्ति बहुभिर्वाऽऽहारादिग्रहणे कृते तदेकस्यापि भवति एवंलक्षणास्साधारणजीवा भवन्ति, परिमाणं तेजस्कायस्य क्षेत्रपल्योपमासंख्येयभागमात्रवृत्तिप्रदेशराशिपरिमाणा ये बादरपर्याप्तानलजीवास्ते बादरपृथिवीकायपर्याप्तकेभ्योऽसंख्येयगुणहीनाः, बादरापर्याप्त सूक्ष्मपर्याप्तसूक्ष्मापर्याप्तानलजीवाः पृथिवीवद्भाव्याः किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराम्य30 पर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः, सूक्ष्म पृथिवीकायापर्याप्तकेभ्यः सूक्ष्मानेयपर्याप्तका विशेषहीना इति । बादरपर्याप्तका वायवस्संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयश्च प्रत्येकमसंख्येयलोकाकाशप्रदेशपरिमाणाः,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy