SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] आचरिलक्षणा । ४९ तथापि बादरा कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असंख्येयगुणाः, बादराकायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असंख्येयगुणाः सूक्ष्मापकायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माका पर्याप्तकेभ्यः सूक्ष्मवायुकायपर्याप्तका विशेषाधिका इति । वनस्पतिकायपरिमाणश्च यथा कश्चित्सर्वधान्यानि प्रस्थकुडवादिना मित्वाऽन्यत्र प्रक्षिपेत्तथा यदि कश्चित्साधारणजीवराशिं लोककुडवेन मित्वाऽन्यत्र निक्षिपेत्तत एवं मीयमाना अनन्तलोका भवन्ति । पर्याप्तबादरनिगोदाश्च संवर्त्ति - 5 तचतुरस्रीकृतसकललोकप्रतरासंख्येयभागवर्त्तिप्रदेशराशिपरिमाणाः, प्रत्येकशरीरबादरवनस्पति पर्याप्तक वेभ्योऽसंख्येयगुणाश्च । अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाच प्रत्येकमसंख्येयलोकाकाशप्रदेशपरिमाणाः क्रमशो बहुतरास्तेभ्योऽनन्तगुणाः साधारणजीवा इति । तेजस उपभोगः - दहनप्रतापनोद्द्योतकरणौदनादिरन्धनस्वेदनाद्यनेकप्रयोजनेषु मनुष्याणां बादरतेज:काय उपयुज्यते, एतन्निमित्तं गृहिणस्सततमारम्भप्रवृत्ता जीवान् व्यापादयन्ति । व्यजनभस्त्राध्मा - 10 ताभिधारणोत्सिञ्चनफूत्करणादिभिर्वायुकाय उपयुज्यते तदर्थञ्च मनुष्यास्तदारम्भप्रवृत्तास्तान् हिंसन्ति । पत्रफलाद्याहारव्यजन|द्युपकरणखद्वा दिशयनयानशिबिका दिभिर्वनस्पतिकायस्योपभोगः, एतत्प्रयोजनाय सुखैषिणः प्रत्येकसाधारण वनस्पतिजीवान् बहून् विहिंसन्ति धूल्युदकाग्निवायुवनस्पतित्रसादयस्तेज - स्कायस्य समासतो द्रव्यशस्त्रम्, स्वकायरूपं विभागशस्त्रमनिकाय एवाभिकायस्य, यथा तार्णाग्निः पार्णाग्नेः । परकायरूपन्तूदकादि, उभयरूपमपि तुषकारीषादिव्यतिमिश्रोऽग्निरप रामेः । भावशस्त्रं दुष्प्र - 15 णिहितमनोवाक्कायलक्षणा संयम इति । वायुकायस्य व्यजनसूर्य चामरादयः परका यशस्त्रम्, प्रतिपक्षवातः स्वकायशस्त्रम् । दुष्प्रणिहितमनोवाक्कायलक्षणं भावशस्त्रम् । वनस्पतेः कुद्दालवासीपरश्वादयः समासतो द्रव्यशस्त्रम्, लगुडादि स्वकायशस्त्रम्, पाषाणवह्नयादि परकायशस्त्रं दात्रकुठारादिरूपमुभयशस्त्रश्च विभागतो द्रव्यशस्त्रं विज्ञेयम्, दुष्प्रणिहितमनोवाक्कायरूपासंयमो भावशस्त्रमिति ॥ १५ ॥ अथ सुखाभिलाषिणो जीवानां दुःखमुदीरयन्ति तन्मूले च दुःखगहने संसारसागरे परिभ्र - 20 मन्तीत्येवं विदिततद्दृष्टविपाको निखिलजीव विमर्दनादत्यन्तं निवर्त्तेतेत्याह प्राप्य प्रव्रज्यामवबुध्य जीवान् समारम्भान्निवर्त्तेत ॥ १६ ॥ प्राप्येति, सर्वज्ञोपदिष्टमार्गानुसारेण प्रव्रज्यां परित्यक्ताखिल सावद्यारम्भकलापः सन् तेजस्कायादिप्राणिदुःखं तत्समारम्भं वा न करिष्यामीत्येवं संयमक्रियामवाप्येत्यर्थः, न केवलं क्रियामात्रेण मोक्षावाप्तिरपि तु विशिष्टमोक्ष कारणभूतज्ञानादपीत्याशयेनोक्तमवबुध्य जीवानिति, यथावत् जीवगणान् 25 ज्ञात्वेत्यर्थः, पूर्वोदितहेतुभिरम्भस्कायादिजीवान् विज्ञायेति भावः, अथवा यथाऽसद्वेद्यकर्मोदयात् स्वस्य प्राप्तं स्वानुभवेनातिकटु दुःखं सद्वेद्यकर्मोदयात् सुखकरं सुखं वेत्ति तथा एतेऽपि जीवाः सुखाभिलाषिणो दुःखोद्वेजिनश्चेति सुखदुःखाभ्यां जीवानवबुध्येत्यर्थः, यस्य हि स्वात्मन्येवंविधं ज्ञानं समस्ति स एव हि परत्रापि नानाविधोपक्रमजनितं स्वपरसमुत्थं योगाश्रयं सुखं दुःखं वाऽनुमिति यस्त्वेवं स्वात्मानमेव न जानाति स कथं परत्र जानीयात्, यश्च परत्र जानाति स स्वात्मानमपि यथा - 30 बदवैति, परस्पराव्यभिचारादिति भावः । ज्ञपरिज्ञया विज्ञाते जीवगणे यद्विधेयं तदाह- समारम्भान्नि सू० मु० ७
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy