SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ नैव जानाति उतान्येनापि केनचित्कारणेनेत्यत्राह परोपदेशाद्वेति, स्वस्मादन्यः परः तीर्थकृत् तद्व्यतिरिक्तातिशयज्ञानी वा तस्योपदेशाज्जीवान् पृथिव्यादीन् प्रतिविशिष्टदिगागमनं शरीराधिष्ठासारं कथचिद्भिन्नमात्मानं भवान्तरसंक्रान्तिमन्तमसर्वगं भोक्तारममूर्त्तम विनाशिनं शरीरमात्रव्यापिनश्च जानातीति भावः। ईदृक्षज्ञानसंज्ञावन्तोऽल्पा एवेति सूचयितुं कश्चिदित्येकवचनान्तपदमुपात्तम् ॥ ७ ॥ ईदृशसंज्ञावत्त्वे जीवस्य किमायातमित्यत्राह स एव विवेकी ॥८॥ स एवेति, यो ह्यसाधारणाहम्प्रत्ययतोऽविच्छिन्ननारकतिर्यगादिसन्तानपातिनं द्रव्यार्थतो नित्यं पर्यायार्थतया चानित्यमात्मानं जानाति स्वभावात् परोपदेशाद्वा स एव वस्तुतो विवेकी, विवेकः आत्मतबहुत्वतत्कर्मतक्रियापरिज्ञानं तद्वानित्यर्थः, एवशब्देनानात्मैकविभुकालयदृच्छादिवादिव्यावृत्तिः, सर्वथा जडनित्यविभ्वनित्यात्मनो भवान्तरसंक्रान्याधसम्भवात् , तथा च य एवात्मानात्मविवेकज्ञः स 10 एव परमार्थतः प्राणिगणान् जानाति य एव च दिगागमनादिपरिज्ञानेनात्मवेत्ता प्राणिगणज्ञश्च स एव कर्मज्ञः, मिथ्यात्वादिभिर्हि जीवाः प्रथमं गत्यादियोग्यानि कर्माण्यादाय पश्चाद्विरूपासु तासु तासु योनिषु सञ्चरन्ति, एवमात्मनः प्राणिसंघातस्य कर्मणश्च य एव परमार्थतो वेत्ता स एव तत्तत्कर्मनिमित्तक्रिया जानाति, क्रियायाः कर्मबन्धहेतुत्वादिति भावः ॥ ८॥ ____ अथ कालत्रयसंस्पर्शिना मतिज्ञानेनापि तद्भव एवात्मसद्भावं प्रदर्शयन् परिज्ञातव्यक्रियाभेदान् 15 दर्शयति कालकरणयोगक्रियाः परिज्ञातव्याः ॥९॥ कालेति, अतीतानागतवर्तमानलक्षणकालेत्यर्थः, करणेति, कृतकारितानुमोदनरूपकरणेत्यर्थः, योगेति, मनोवाकायरूपयोगेत्यर्थः, एतन्निमित्तकाः क्रियाविशेषा अवश्यं परिज्ञातव्याः, यो हि प्राणी आत्मानं क्रियाश्च न जानाति सोऽविज्ञातात्मक्रियात्वेन जीवोपमईनादिक्रियासु प्रवृत्तोऽष्टविधकर्म- 20 बन्धकस्तदुदयप्रभावेण नानादिग्विदिक्षु सञ्चरन्नानाविधयोनी: सन्धावति, विरूपरूपांश्च स्पर्शाननुभवतीति भावः । अत्र क्रियाः सप्तविंशतिभेदाः, यथा भूतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिमिर्नव विकल्पाः, अकार्षमहमचीकरमहम् , कुर्वन्तमहमनुजिज्ञासिषमिति भूतकालापेक्षया करणैः त्रयो विकल्पाः करोमि कारयामि कुर्वन्तमनुजानामीति वर्चमानकालापेक्षया करणैस्रयः, करिष्यामि कारयिष्यामि कुर्वन्तमनुशास्यामीति भविष्यत्कालापेक्षया च करणैषयः, एत एव प्रत्येकं मनोवाक्-25 कायैश्चिन्त्यमानाः सप्तविंशतिविकल्पा भवन्ति, एतावत्य एव क्रिया लोके कर्मोपादानभूता:, नान्याः, एतावत्य एव च परिशेयाः । एवं यौवनावस्थायामिन्द्रियवशीभूतो विषयमदोन्मत्तमानसस्तत्तदकार्यानुष्ठानपरायणोऽस्य देहादेरानुकूल्यमकार्षमकार्यादौ वा प्रवर्त्तमानमन्यं प्रवृत्तिमचीकरं कुर्वन्तं वाऽनुज्ञातवान् सोऽहमित्याद्यनुभवेन त्रिकालस्पर्शिदेहादिव्यतिरिक्तात्मनो भूतवर्तमानभविष्यत्कालपरिणतिरूपस्यैकस्यास्तित्वमवगम्बते, क्रियापरिणामेनात्मनः कथञ्चित् परिणामित्वस्वीकारात्, ईशा-30 त्मास्तित्वावगमो नैकान्तक्षणिकनित्यत्वधादिनां सम्भवति, प्रमाणैरेवमेव तदवगतेरेकान्तक्षणिकादिरूप आत्मा खपुष्पसदृश एवेति ते नात्मवादिनो न कर्मवादिनो न वा क्रियावादिन इति भावः ॥ ९॥ .
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy