SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावस्याम् [द्वितीया किञ्च ज्ञानस्य शरीरधर्मत्वे तत् परैरपि प्रत्यक्षेण गृह्येत, ये हिं प्रत्यक्षविषयाश्शरीरगुणास्ते खेनेव परैरपि गृह्यन्ते यथा रूपादयः, ज्ञानन्तु प्रत्यक्षमपि सन्न परप्रत्यक्षग्राह्यं तस्मान्न शरीरगुणः, ततोऽन्यस्य गुणेनैतेन भाव्यं स एवात्मा। किश्चैवं भूतचैतन्यवादी प्रष्टव्यः पञ्चभूतात्मके शरीरे किं सर्वाणि चेतयन्ते किं वैकमिति, आये सर्वेषां समत्वात् परस्परमसम्बन्धापत्तिः। द्वितीये त्वितरेण 5 विनापि लोष्टादिपृथिव्यादेश्चैतन्यं स्यात्, न हि तस्य चैतन्येऽन्यदपेक्षणीयमस्ति, तथा च येयं शरीरगता पृथिवी सा न चेतयते पृथिवीत्वाल्लोष्टवदित्यनुमानम्, एवं जलादावपि, तत् कथं समुदायस्य चैतन्यं भवेत् । तथा व्यतिरेकबुद्धिरपि दृश्यते ममेदं शरीरं कृशमिति षष्ठ्याऽस्मदर्थस्य शरीर. व्यतिरेकात्, शरीरस्य च परविषयेदकारास्पदत्वात् , अभेदावगमस्य च संसर्गदोषवशेन भ्रान्त्याप्युपपत्तेः, पूर्वाभ्यस्तस्मृत्यनुबन्धेन च विना जातस्य हर्षभयशोकसम्प्रतिपत्त्यनुपपत्तेः । जातिस्मराश्च 10 केचिदद्यत्वेऽपि देहान्तररहोवृत्तं वृत्तान्तं सम्बोधयन्त उपलभ्यन्त इत्युपलब्धिसिद्धः शरीरात्मनोर्भेदः। यद्यपि चानेन प्रकारेण शरीरात्मनोविस्पष्टो भेदो न सिद्ध्येत्तथापि तावदभेदोऽपि न विस्पष्टः किन्तु कथञ्चिद्भेदाभेद एवेति । एवं योऽहं रूपमद्राक्षं सोऽहं स्पृशामीति, योऽहमग्रहीषं सोऽहं स्मरामीतीन्द्रियाभावेऽपि प्रत्यभिज्ञानादेको ज्ञाता इन्द्रियादिव्यतिरिक्तः सिद्धः । हेयोपादेयपरिहारोपादान प्रवृत्त्या च परात्मसिद्धिः । एवं भगवत्प्रणीतागमेनैव विशिष्टसंज्ञानिषेधद्वारेणाहमित्यात्मोल्लेखिप्रत्यये15 न चात्मसिद्धिर्भाव्या, नान्यागमेन, तस्थानाप्तप्रणीतत्वेनाप्रामाण्यात् । एवमशीत्युत्तरशतभेदाः क्रिया वादाः चतुरशीतिविकल्पा अक्रियावादाः सप्तषष्टिभेदा अज्ञानिकवादा द्वात्रिंशद्भेदा वैनयिकवावाश्च निराकर्त्तव्या इति ॥ ६ ॥ ननु केषाश्चित्संज्ञा न जायत इत्युक्तं तेन केषाश्चिद्विशिष्टसंज्ञा भवतीत्युक्तं भवति सा च संज्ञा कथं तेषामुत्पत्स्यत इत्यत्राह20 कश्चित्तजानाति खभावात् परोपदेशमा ॥ ७॥ कश्चिदिति, कश्चिदनादिसंसारे परिभ्रमन् विशिष्टक्षयोपशमादिमाम् तत् प्रज्ञापकदिग्विदिगागमनं भावदिगागमनश्च जानाति, तथा च कश्चिद्विशिष्टक्षयोपशमी प्राणी कस्या दिशोऽहमागतोऽस्मि पूर्वस्मिन् जन्मनि कोऽहं देवो वा मनुष्यो वा तिर्यग्वा नारको वाऽभूवम्, जन्मनोऽस्माद्वा प्रेत्य किं देवो वा मनुष्यो वा तिर्यग् वा नारको वा भविष्यामीत्येतदवगच्छतीति भावः। कथम25 वगच्छतीत्यत्राह-स्वभावादिति, स्वस्य योऽयं भावो मतिः स्वभावः, आत्मानन्यभूतेन ज्ञानेनेत्यर्थः, एतेन मतिरात्मस्वभावः, न तु वैशेषिकाणामिव व्यतिरिक्ता समवायेन तत्र समवैतीत्यावेदितम् , युक्तयोऽत्र सम्मतितत्त्वसोपानादौ विलोक्या: । यद्यपि स्वभावभूता मतिरात्मनः सदा सन्निहिता तथापि प्रबलतरज्ञानावरणावृतत्वादनारतं न विशिष्टायबोधः । अत्र मतिश्चतुर्विधा ग्राह्या, अवधिमनःपर्यवकेवलज्ञानजातिस्मरणभेदात्, तत्रावधिज्ञानी मनःपर्यवज्ञानी च संख्येयानसंख्येयान् 30 वा भवान् केवली नियमतोऽनन्तान जातिस्मर्ता नियमतसंख्येयान् जानाति, तदेवं चतुर्विधया निजखमावभूतया मत्या कश्चिदात्मनो विशिष्टदिग्गत्यागती जानाति । ननु कि यो जानाति स स्वभावे
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy