________________
१
मुक्ता]
आचारलक्षणा। मोहविचिकित्साक्रोधमानमायालोभशोकलोकधौंघसंज्ञाभेदेन षोडशधा भवति, प्रकृते च ज्ञानसंज्ञया विचारः। केषाश्चिन्न सा संज्ञेत्यत्र हेतुमाह प्रज्ञापकेति, प्रज्ञापिका भावरूपाश्च या दिशस्ताभ्य आगमनस्य स्वयमवेदनादित्यर्थः, प्रज्ञापको व्याख्याता तदाश्रयेण या दिक् सा प्रज्ञापकदिक् प्रज्ञापको यस्या दिशोऽभिमुखस्तिष्ठति सा पूर्वा, शेषास्त्वानेय्यादिका दिशो नियमात्तस्यैव प्रज्ञापकस्य प्रदक्षिणातोऽनुगन्तव्याः, ताश्च दिग्विदिक्तदन्तरालरूपा ऊर्ध्वाधोरूपाश्चेत्यष्टादशविधाः । सम्मूर्छनकर्मभूम्यकर्मभूम्यन्तरद्वीपजा । मनुष्या द्वित्रिचतुःपञ्चेन्द्रियास्तिर्यश्चः पृथिव्यप्तेजोवायुकायिका अग्रमूलस्कन्धपर्वबीजास्तथा देवनारका इत्यष्टादशभावैर्भवनात्तथाविधा जीवा भावदिशः, आभिरत्र प्रज्ञापकभावदिग्भिरधिकारः । तथाचाहममुष्या दिशः पूर्वस्या दक्षिणायाः पश्चिमाया उत्तराया वा समागतोऽस्मि पूर्वस्मिन् जन्मन्यहं किं देव आसं मनुष्यो वा तिर्यङ् वा नारको वा, मृत्वा चास्माजन्मान्तरे किं देवो वा मनुष्यो वा तिर्यङ् वा नारको वा भविष्यामीत्यादिप्रज्ञापकभावदिगागमनादिपरिज्ञानं केषाश्चिन्न जायते ज्ञानावरणीयकर्म- 10 प्रभावात्, यथा कोऽपि मदिरातिपानमदघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानो रथ्यामार्गनिपतितः केनचिद्गृहमानीतो मदात्यये कुतोऽहमागत इति न जानाति तथायमपीति भावार्थः ॥ ५॥
___ ननु विशिष्टसंज्ञानिषेधस्तदोपपत्स्यते सामान्यसंज्ञावद्धर्मी प्रमाणपथमारूढो यदा भवेत् , तत्रैव मानं न पश्यामः, न हि स प्रत्यक्षगम्यः, स्वभावतो विप्रकृष्टत्वेनातीन्द्रियत्वात् , अत एव तदव्यभिचारिकार्यादिहेतुसम्बन्धग्रहणासम्भवान्नानुमानगम्यः, नाप्युपमानगम्यः, तस्यातीन्द्रियत्वेन सामा-1b न्यग्रहणासम्भवात् , न वाऽऽगमवेद्यः, तेन सह पदशक्तिग्रहासम्भवात् , नाप्यर्थापत्त्या, तमन्तरेण सकलार्थोपपत्तेः, एवञ्चानुपलब्धिविषयत्वात्तदभाव एव सिद्ध्यतीत्याशङ्कायामाह
अस्त्यात्माऽसाधारणाहम्प्रत्ययात् ॥६॥ ___अस्तीति, तथा चात्मनि प्रमाणं नास्तीति न, किन्तु प्रत्यक्षेणाहम्प्रत्ययेन स विषयीक्रियत इति भावः । न ह्ययमहम्प्रत्ययो लिङ्गजश्शब्दजो वा, तदनुसन्धानमन्तरेणापि जायमानत्वात् , एव- 20 श्वात्मा प्रत्यक्षविषयः, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात् , विषयव्यवस्था हि स्वसंवेदननिष्ठा, घट. पटादीनामपि रूपादिगुणप्रत्यक्षादेवाध्यक्षविषयत्वमिति तत्सिद्धिरनुमानादपि । ननु शरीरादिविषय एवाहम्प्रत्ययो भवत्वित्याशङ्कायामुक्तमसाधारणेति, यदि ह्यहम्प्रत्ययः पृथिव्यादौ भवेत् तमुहं पृथिवी अहमाप इत्याद्याकारः प्रत्ययो भवेत् , न चैवम् , न च सामान्यतो मा भूत्, विशेषतस्तु गौरोऽहं कृष्णोऽहमिति भवत्येवेति वाच्यम्, अहङ्कारस्य प्रतिसन्धातृविषयत्वात् , शरीरस्य च भेदेनाप्रतिस-25 न्धातृत्वात् , भवति हि प्रतिसन्धानं योऽहं सुखसाधनं स्रक्चन्दनादिकमुपलभ्य तदुपादित्सुः प्रयतमानस्तदुपात्तवान् सोऽहं सुखी, योऽहं दुःखसाधनमहिकण्टकादिकमुपलभ्यापि न परिहृतवान् सोऽहं दुःखीत्यादिरूपम् । विरुद्ध्यते चैतदनेकाश्रितत्वे, चैत्रमैत्रसुखादिषु तददर्शनात्, शरीराणाश्च प्रत्यहं परिणतिभेदेन भिन्नत्वात् । न च यथाऽहं गौरः स्थूलो हख आसं सोऽहमिदानीं श्यामः कृशो दीर्घ इति शरीरगुणा अपि प्रतिसन्धीयन्त एवेति वाच्यम् , तस्य भ्रान्तत्वात् । प्रकृतमपि प्रतिसन्धानं 30 प्रान्तमिति चेन्न, स्मर्तुरभ्रान्तः, अन्येन दृष्टस्यान्येन स्मरणासम्भवात् , अन्यथाऽतिप्रसङ्गात् ।