________________
३९.
मुक्ता]
आचारलक्षणा। तिपादकग्रन्थोऽपि श्रुतम्, श्रुतग्रन्थसिद्धान्तप्रवचनाज्ञोपदेशागमादीनि श्रुतैकार्थिकनामानि, स्कन्दति शुष्यति क्षीयते पुष्यते च पुद्गलसंयोगवियोगाभ्यामिति स्कन्धोऽणुसमुदायः, श्रुतरूपौ स्कन्धौ श्रुतस्कन्धौ, तथाचाचाररूप एकः श्रुतस्कन्धः आचाराग्ररूपोऽपरः श्रुतस्कन्ध इति भावः । श्रुतस्य चतुर्धा निक्षेपः, तत्र नामस्थापने प्रसिद्धे, आगमतो द्रव्यश्रुतं श्रुतोपयोगेऽवर्तमानः श्रुतपदाभिधेयाऽऽचारादिशिक्षावान् । नोआगमतो ज्ञशरीरभव्यशरीरे स्फुटे, उभयव्यतिरिक्तश्च द्रव्यश्रुतं पत्रकपुस्तकादिलिखि-5 तम् , अस्य भावश्रुतसाधनत्वाद्र्व्यत्वमागमकारणभूतात्माद्यभावान्नोआगमत्वं बोध्यम् । भावश्रुतमपि आगमतो नोआगमतश्च द्विभेदम् , श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमतो भावश्रुतं श्रुतोपयोगसद्भावात् । नोआगमतस्तल्लौकिकलोकोत्तरभेदेन द्विविधम् , मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धिविकल्पितं भारतादिकं लौकिकम् । लोकप्रधानैरर्हद्भिः प्रणीतं द्वादशाङ्गं लोकोत्तरम्, अनेनैव च भावश्रुतेनात्राधिकारः । स्कन्धनिक्षेपोऽपि यावद्भव्यशरीरं स्फुट एव, उभयव्यतिरिक्तद्रव्यस्कन्धस्तु सचित्ताचित्तमिश्रभेदेन 10 त्रिविधः, तत्राद्यस्तुरगगजकिन्नरकिम्पुरुषादिरूपोऽनेकविधः, तुरगादीनां विशिष्टैकपरिणामपरिणतत्वास्कन्धता भाव्या । द्विप्रदेशादिस्कन्धा अचित्तद्रव्यस्कन्धाः। मिश्रश्च हस्त्यश्वरथपदातिसन्नाहखगकुन्तादिसमुदायात्मकसेनाया अग्रमध्यपश्चिमस्कन्धरूपोऽनेकविधः, एषु हत्यादीनां सचित्तत्वात् खड्गादीनामचित्तत्वात् मिश्रता । यद्वा कृत्स्नाकृत्स्नानेकद्रव्यस्कन्धभेदादुभयव्यतिरिक्तद्रव्यस्कन्धस्त्रिविधः, हयस्कन्धगजस्कन्धादयः कृत्स्नस्कन्धाः, तदन्यबृहत्तरस्कन्धाभावात् , जीवतदधिष्ठितशरीरावयवलक्षण-15 समुदायोऽत्र कृत्स्नस्कन्धत्वेन विवक्षितः। न च हयादिस्कन्धो न कृत्स्नस्कन्धरूपस्तदपेक्षया गजस्कन्धस्य बृहत्तरत्वादिति वाच्यम्, शरीरानुगतजीवस्यासंख्येयप्रदेशात्मकत्वेन समुदायस्यैव चात्र हयादिस्कन्धत्वेन विवक्षणात् सर्वत्र जीवस्यासंख्येयप्रदेशात्मकतया तुल्यत्वात् , यदि जीवप्रदेशपुद्गलसमुदायानां सामत्येन वृद्धिर्भवेद्गजादिस्कन्धस्य तदा भवेद्वद्धिः, तदेव नास्तीति । द्विप्रदेशिकाद्यावदनन्तप्रदेशिकस्कन्धं सर्वे स्कन्धा अकृत्स्नस्कन्धाः, सर्वान्तिमानन्तप्रदेशात्मकस्कन्धं विहाय सर्वेषामकृत्स्न- 20 त्वात् । यस्य कस्यचित्स्कन्धस्य नखदन्तकेशादिरूपो देशो जीवप्रदेशैर्विरहितस्तस्यैव च यो देशः पृष्ठोदरचरणादिलक्षणो जीवप्रदेशैर्व्याप्तो देशयोस्तयोर्विशिष्टैकपरिणामपरिणतयोदेहरूपो यस्समुदायः सोऽनेकद्रव्यस्कन्धः, सचेतनाचेतनानेकद्रव्यात्मकत्वात् , जीवप्रदेशाव्याप्तदेशस्याप्यत्र विवक्षणात् कृत्स्नस्कन्धापेक्षया वैलक्षण्यम् । स्कन्धपदार्थाभिज्ञस्तत्र चोपयुक्तो भावस्कन्ध आगममाश्रित्य । नोआगममाश्रित्य तु प्रस्तुताचाराङ्गस्य नवानामध्ययनानां चूलिकानाश्च समुदायस्य परस्परसम्बद्धतया यो विशिष्टैकपरिणा- 25 मस्तेन निष्पन्नः श्रुतस्कन्धो भावस्कन्ध इति ॥ ३ ॥
अथाद्यश्रुतस्कन्धाध्ययनान्याह- शस्त्रपरिज्ञालोकविजयशीतोष्णीयसम्यक्त्वलोकसारधूतमहापरिज्ञाविमोक्षोपधानश्रुतभेदाब्रह्मचर्यश्रुतस्कन्धस्याद्यस्य नवाध्ययनानि ॥ ४॥
शस्त्रपरिक्षेति, शस्यन्ते हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं खङ्गादि, तस्य जीवशंसनहेतोः 30 परिज्ञा, ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा जीपास्तित्वतद्धिंसादिपरिहारप्रतिपादनपरा ।