________________
३८
सूत्रार्थमुक्तावल्याम्
[द्वितीया चारप्रतिपादकोऽयं ग्रन्थविशेषश्च भावाचारः । आचाल्यतेऽनेनातिनिबिडं कर्मादीत्याचालः तदुभयव्यतिरिक्तद्रव्याचालस्तु वायुः, भावाचालश्च ज्ञानादिपञ्चविधः। आगालनं समप्रदेशावस्थानमित्यागालः, उभयव्यतिरिक्तद्रव्यागालोऽत्रोदकादेर्निम्नप्रदेशावस्थानम् । ज्ञानादिकस्तु भावागालो रागादिरहितात्मन्यवस्थानात् । आगत्य तस्मिन् कुर्वन्तीत्याकरः, उभयव्यतिरिक्तद्रव्याकरो रजताकरादिः, ज्ञानादिरेव 5 भावाकरः, अत्र निर्जरादिरत्नानां लाभात् । आश्वसन्त्यस्मिन्नित्याश्वासः, उभयव्यतिरिक्तश्च यानपात्रद्वीपादिः, ज्ञानादिरेव भावाश्वासः । आदृश्यतेऽस्मिन्नित्यादर्शः, उभयव्यतिरिक्तद्रव्यादर्शश्च दर्पणादिः, ज्ञानादिश्च भावादर्शः । अज्यते व्यक्तीक्रियतेऽस्मिन्नित्यङ्गम् , शिरोबाह्वादिकमुभयव्यतिरिक्तद्रव्याङ्गं भावाङ्गं ज्ञानादि । आचीर्णमासेवितमिदन्तु पोढा निक्षेप्यम् , उभयव्यतिरिक्तद्रव्याचीर्ण सिंहादेस्तृणादिपरिहारेण पिशितभक्षणम् , क्षेत्राचीर्णं बाह्रीकेषु सक्तवः कोङ्कणेषु पेया, कालाचीर्णं सरसश्चन्दनप10 कादिः, ज्ञानादिकमेव भावाचीर्णम् । आ जायन्तेऽस्यामित्याजातिः, उभयव्यतिरिक्तद्रव्याजातिर्मनुष्यादिजातिः, भावाजातिश्च ज्ञानादिनिदानभूतोऽयं ग्रन्थः । आमुच्यन्तेऽस्मिन्नित्यामोक्षणम् , उभयव्यतिरिक्तद्रव्यात्मकञ्च निगडादेर्मोक्षणम् , भावामोक्षस्तु कर्माष्टकोद्वेष्टनमशेषम् , एतत्साधकश्चायमेवाचार इति । तदेवं भावाचारस्य किश्चिद्विशेषेणैकार्थप्रतिपादकत्वाच्छक्रपुरन्दरादिशब्दवत्पर्यायत्वं विज्ञेयम् । आचा
रोऽयं कदा भगवता विनिर्मित इत्यस्य निर्णयाय प्रवर्तनाविशेषो वाच्यः, स च तीर्थकराणां निखि16 लानां तीर्थप्रवर्तनादौ आचारार्थः प्रथमतया अभवत् भवति भविष्यति च, तत इतरेऽङ्गार्थाः, गणधरैरप्यनयैवाऽऽनुपूर्व्या स सूत्रतया प्रथ्यते । अत्र मोक्षोपायभूतचरणकरणप्रतिपादनेन प्रवचनसारभूतत्वादितराङ्गाध्ययनयोग्यतापादकत्वाच्च द्वादशाङ्गेष्वस्य प्रथमाङ्गत्वमित्यपरो विशेषो बोध्यः । तथाऽयमाचारो गणित्वकारणानां प्रधानं गणिस्थानम् , अध्ययनादस्य क्षान्त्यादिरूपाणां चरणकरणात्मकानां वा श्रमणधर्माणां परिज्ञानादिति गणित्वं विशेषः । अस्याध्ययनतः पदतश्च परिमाणं क्रमेण 20 नवब्रह्मचर्याभिधानाध्ययनात्मकत्वमष्टादशसहस्रपदात्मकत्वम् , पदपरिमाणेन च चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाबहुत्वं निशीथाख्यपश्चमचूलिकाप्रक्षेपाबहुतरत्वमनन्तगमपर्यायात्मकतया बहुतमत्वश्च बोध्यम् । उपक्रमान्तर्गतसमवतारश्चानेत्थम्-पश्चचूलिकाओं नवसु ब्रह्मचर्याध्ययनेषु तेषां पिण्डितार्थः शस्त्रपरिज्ञायां तदर्थः षट्खपि कायेषु षड्जीवनिकायार्थः पञ्चस्वपि व्रतेषु तानि च सर्वद्रव्येषु पर्यायाणाश्चानन्तभागे समवतारः, प्रथमव्रतस्य षड्जीवनिकायाश्रितत्वाद्वितीयचरमव्रतयोः सर्वद्रव्या28 श्रितत्वात् शेषमहावतानाश्च तदेकदेशाश्रितत्वान्महाव्रतानां सर्वद्रव्येष्ववतारः, सर्वस्याः संयमस्थान
श्रेणेः ज्ञानदर्शनचारित्रपर्यायैः परिपूर्णत्वेन सर्वाकाशानन्तगुणप्रमाणत्वेन बतानाश्च चारित्रमात्रोपयोगित्वात् पर्यायानन्तभागवृत्तित्वमवसेयम् । कस्य कः सार इति चेदित्थम्-अङ्गानामाचारस्तस्यानुयोगार्थस्तस्य यथास्वं विनियोगस्तस्य चरणं तस्य च निर्वाणं तस्यापि चाव्याबाधस्थितिः सार इति ॥ २॥ अस्याचारग्रन्थस्य प्रविभागमाह
अस्य द्वौ श्रुतस्कन्धावाचारतदग्रभेदात् ॥३॥ अस्येति, आचारश्रुतस्येत्यर्थः, श्रूयते तदिति श्रुतं प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, तत्प्र