________________
सूत्रार्थमुक्तावल्याम् ।
[प्रथमा निश्चिता निरुक्तिश्च वक्तव्या, तथा चोपोद्घातनियुक्तिः समर्थिता भवति, अस्याश्च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यमानीतं भवति, ततः प्रत्यवयवं सूत्रव्याख्यानरूपायाः सूत्रस्पर्शिकनियुक्तेरवसरः सम्पद्यते, सूत्रश्च सूत्रानुगमे सत्येव भवति सोऽप्यवसरप्राप्त एवेति ॥४७॥
अथ सूत्रस्पर्शिकनियुक्त्यनुगममाह5 अस्खलितामिलिताव्यत्यानेडितप्रतिपूर्णघोषादिशुद्धं सूत्रमुच्चारणीयम् ॥४८॥
अस्खलितेति, सूत्रानुगमे समस्तदोषविप्रमुक्तं लक्षणयुक्तश्च सूत्रमस्खलितादि यथा भवेत्तथोचारणीयम् , तथाहि उपलशकलाद्याकुलभूभागे लालमिव स्खलति यत्तत् स्खलितं न तथाऽस्खलितम् ।
अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तन्मीलितमसदृशधान्यमेलकवत्, अथवा 10 परावर्त्तमानस्य यत्र पदविच्छेदो न प्रतीयते तन्मीलितं न तथाऽमीलितम् । एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकस्थाने समानीय पठतो व्यत्यानेडितम् , अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्यानेडितम् , अस्थानविरतिकं वा, न तथाऽव्यत्यानेडितम् । सूत्रतो बिन्दुमात्रादिभिरनूनम् , अर्थतश्चाध्याहाराकांक्षादिरहितं प्रतिपूर्णम् । उदात्तादिघोषैरविकलं प्रतिपूर्णघोषम् । आदिना कण्ठोष्ठविप्रमुक्तं बालमूकभाषितवद्यदव्यक्तं न भवति तथा गुरु15 प्रदत्तवाचनया प्राप्तं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात्स्वयमेवाधीतमेवं विशेषणयुतं शुद्धं
द्वात्रिंशदोषविरहितमष्टाभिर्गुणैरुपेतमल्पग्रन्थं महाथ लक्षणयुतं सूत्रमुच्चारणीयम्, उक्तश्च 'अल्पग्रन्थं महार्थं द्वात्रिंशदोषविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टभिश्च गुणैरुपेत मिति, दोषाश्च 'अनृतमुपघातजनकं निरर्थकमपार्थकं छलं द्वहिलम् । निःसारमधिकमूनं पुनरुक्तं व्याहतमयुक्तम् । क्रमभिन्नवचन
भिन्नं विभक्तिभिन्नञ्च लिङ्गभिन्नञ्च । अनभिहितमपदमेव च स्वभावहीनं व्यवहितश्च । कालयतिच्छवि20 दोषः समयविरुद्धं वचनमात्रञ्च । अर्थापत्तिदोषो ज्ञेयोऽसमासदोषश्च । उपमारूपकदोषो निर्देशपदार्थ, सन्धिदोषश्च । एते च सूत्रदोषा द्वात्रिंशद्भवन्ति ज्ञातव्या' इति, गुणाश्च 'निर्दोष सारवन्तश्च हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचार मितं मधुरमेव चेति । एतेषां स्वरूपाण्यन्यत्रावलोकनीयानि ॥ ४८॥
अस्य फलमाह
एतेन खपरसमयपदज्ञानं बन्धमोक्षसामायिकनोसामायिकपद25 ज्ञानश्च ॥४९॥
एतेनेति, एवंविधसूत्रोच्चारणेनेत्यर्थः, एतेन हि पदमिदं स्वसमयगतजीवाद्यर्थप्रतिपादकमिदञ्च परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकमिति विज्ञास्यते, तथा परसमयपदं प्राणिनां कुवासनाहेतुत्वेन बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति ज्ञानं जायते, अथवा प्रकृतिस्थित्यनुभावप्रदेशलक्षणबन्धस्य प्रतिपादकमिदं पदमिदश्च कृत्मकर्मक्षयलक्षणमोक्षप्रतिपादकमिदं सामायिकप्रतिपादकमिदन्तु 30 तव्यतिरिक्तानां नारकतिर्यगाधर्थानां प्रतिपादकमिति विज्ञास्यते ॥ १९॥