________________
मुला
5
10
अनुयोगलक्षणा। रेण्या प्रियो वा सर्वत्र सममनस्कत्वात् तस्य सामायिकं भवति । यदि द्रव्यमन आश्रित्य श्रमणः सुमना भवेत् भावेन च पापमना न भवति खजने परजने मानापमानयोश्च समो भवति तदा श्रमणो भवेत् । अत्र च ज्ञानक्रियारूपं सामायिकाद्यध्ययनं नोआगमतो भावसामायिकम् , ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात् , नोशब्दस्य च देशवचनत्वात् , तथा च सामायिकवतः साधोरपि नोआगमतो भावसामायिकत्वम् , सामायिकतद्वतोरभेदोपचारात् ॥ ४४ ॥
अथ सूत्रालापकनिष्पन्नमाहसूत्रालापकानां नामादिभिर्निक्षेपस्सूत्रालापकनिक्षेपः ॥४५॥
सूत्रेति, 'करोमि भदन्त ! सामायिक'मित्यादीनां सूत्रालापकानां नामस्थापनाविभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इत्यर्थ इति निक्षेपद्वारम् ॥ ४५ ॥ अथ तृतीयममुयोगद्वारमनुगममाख्याति--
सूत्रनिर्युक्त्यनुगमभेदोऽनुगमः ॥ ४६ ॥ सूत्रेति, सूत्रव्याख्यानं सूत्रविभजना चेति द्विविधोऽनुगमः, नितरां युक्ताः सूत्रेण सह लोलीभावेन सम्बद्धाः नियुक्ता अर्थाः, तेषां युक्तिः स्फुटरूपतापादनं एकस्य युक्तशब्दस्य लोपानियुक्तिः नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, सद्रूपोऽनुगमो नियुक्त्यनुगम इत्यर्थः ॥ ४६॥
तत्र निर्युक्त्यनुगममाहनिक्षेपोपोद्धातसूत्रस्पर्शिकनियुक्त्यनुगमलक्षणो द्वितीयः॥४७॥
निक्षेपेति, पूर्व नामस्थापनादिभेदेनावश्यकादिपदानां यद्व्याख्यानं कृतं तेन निक्षेपनियुक्त्यनुगमः प्रोक्त एव, उपोद्घातनिर्युक्त्यनुगमश्च व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य नियुक्तिस्तद्रूपोऽनुगमः । तथाहि प्रथमं सामान्याभिधानरूप उद्देशो वक्तव्यः, यथा अध्ययनमिति, तथा विशेषाभिधानरूपो निर्देशः, यथा सामायिकमिति, ततः कुतः सामायिक निर्गतमित्येवंरूपो निर्गमो 20 वक्तव्यः, तथा तदुत्पत्तिक्षेत्रकालौ, ततः कुतः पुरुषानिर्गतमिति वक्तव्यं तथा केन कारणेन गौतमादयो भगवतः समीपे सामायिकं शृण्वन्तीत्येवं कारणं वाच्यम्, तथा केन प्रत्ययेन भगवतोपदिष्टमिदम्, केन वा प्रत्ययेन गणधरास्तदुपदिष्टं तच्छृण्वन्तीत्येतद्वक्तव्यम्, ततो लक्षणं सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणं श्रुतसामायिकस्य जीवादिपरिज्ञानं चारित्रसामायिकस्य सावधविरतिः देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रमिति, एवं नैगमादयो नया वाच्याः, तेषां च समवतारो 25 यत्र सम्भवति तत्र दर्शनीयः, तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयम्, तथा कि सामायिकं कतिविधं कस्य तत् , क वा केषु द्रव्येषु कथं कियश्चिरं कालं तद्भवति कियन्तस्तस्य युगपत् प्रतिपयमानकाः पूर्वप्रतिपन्ना वा लभ्यन्त इति वक्तव्यम्, ततः सान्तर तथा कियन्तं कालं सामायिकप्रतिपत्तारो निरन्तरं लभ्यन्त इति वाच्यम्, कियतो भवानुत्कृष्टतस्तदवाप्यत इति तथा एकस्मिन्नानाभवेषु वा पुनः पुन: सामायिकस्य कत्याकर्षा इति, तथा कियत्क्षेत्रं ते स्पृशन्तीति, तथा 30
15