SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ मुक्ता] अनुयोगलक्षणा। फलान्तरमाह - अनधिगतस्य पदस्य व्याख्यानम् ॥ ५० ॥ अनधिगतस्येति, सूत्रे समुच्चारित एव केषाश्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकाराः परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थ पदेन पदस्य व्याख्या भवति, तल्लक्षणञ्च 'संहिता च पदश्चैव पदार्थः पदविग्रहः। 5 चालना च प्रसिद्धिश्च षड्विधं विद्धि लक्षणम् ॥' इति, तत्रास्खलितपदोच्चारणं संहिता, यथा 'करोमि भयान्त ! सामायिक मित्यादि । पदन्तु करोमीत्येकं पदं भयान्त ! इति द्वितीयं सामायिकमिति तृतीयमित्यादि । पदार्थस्तु करोमीत्यभ्युपगमो भयान्त इति गुर्वामंत्रणं समस्यायः सामायिकमित्यादिकः । पदविग्रहः समासः, स चानेकपदानामेकत्वापादनविषयो यथा भयस्यान्तो भयान्त इत्यादि, सूत्रस्यार्थस्य वाऽनुपपत्त्युद्भावनं चालना, तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः, एवं षड्विधं व्याख्याया 10 लक्षणम् , तत्र सपदच्छेदसूत्रवर्णने सूत्रानुगमः, सूत्रालापकानां नामस्थापनादिनिक्षेपे कृते सूत्रालापकनिक्षेपः, पदार्थपदविग्रहादिषु सर्वेषु कृतेषु सूत्रस्पर्शिकनियुक्तिः कृतार्था भवति । नैगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषय इति वस्तुतस्ते सूत्रस्पर्शिकनियुक्त्यन्त विनः । तदेवंविधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते ॥ ५० ॥ अथ नयद्वारमाहनैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता मूलनयाः॥५१॥ .. नैगमेति, महासत्तासामान्यविशेषादिज्ञानैरनेकों वस्तूनि परिच्छिनत्ति स नैगमः, क्रोडीकृतसामान्यविषयः सङ्ग्रहः, सर्वद्रव्यविषये सामान्याभावाय यो यतते स व्यवहारः, नासौ सामान्यमिच्छति लोकव्यवहारानङ्गत्वात् , तत्प्रधानत्वात्तस्य, वर्तमानकालभाविवस्तुग्रहणशील ऋजुसूत्रः, अयमतीतानागतवस्तुतिरस्कारप्रवणः, लिङ्गवचनभेदेनैकशब्दवाच्यानामपि भेदाभ्युपगन्ता शब्दः, लिङ्गा- 20 धभेदे तु बहूनामपि शब्दानामेकमेव वाच्यमसौ मन्यते, प्रवृत्तिनिमित्तभेदेन भिन्नाभिधेयाभ्युपगन्ता समभिरूढा, यथेन्द्रशक्रादिपदवाच्यानाम्, शब्दप्रतिपाद्यक्रियां कुर्वद्वस्तुविषय एवम्भूतनयः, यदा योषिन्मस्तकाद्यारूढतया जलाहरणक्रियावान् भवति तदैवासौ घटो नान्यदेति । तदेवं मूलभूताः सप्त नयाः, एषां विस्तृतविचार उत्तरोत्तरभेदप्रभेदा अन्यत्रावलोकनीयाः। नयानां प्रयोजनञ्चोपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य सामायिकाद्यध्ययनादेर्विचारणम् । तथा 25 नयैः कचित्कश्चित् सूत्रविषयः समस्ताध्ययनविषयश्च विचार्यते, न तु प्रतिसूत्रं नयविचारनियमः, येन 'न नया समोयरंति इहमित्यादिना विरोधो भवेत् ॥५१॥ ननु किं नयैर्विचार्यमाणमध्ययनं सर्वैरेव नयैर्विचार्य किंवा कियद्भिरेव, नाया, तेषामसंख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात् , यावन्तो हि वचनमार्गास्तावन्त एव नयाः । न द्वितीयः संख्यातीतत्वान्नयानां कतिभिर्विचार्यमाणे एभिरपि कथं न विचार्यमिति पर्यनुयोगप्रसङ्गात् । न च तेषाम-30 16
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy