________________
२६
सूत्रार्थमुक्तावल्याम्
[प्रथमा शेषद्रव्याणि तु तदसंख्येयभागे वर्तन्ते, अनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणामसंख्याततम एव भागे वर्त्तन्ते न संख्याततमादिभागेष्विति भागद्वारम् । आनुपूर्वीद्रव्याणि सादिपारिणामिके भाव एव भवन्ति न तु औदयिकादिभावेषु, नाप्यनादिपारिणामिकभावे वा, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात् , विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमात्रमवस्थानात्, एवमेवानानुपूर्व्य5 वक्तव्यकद्रव्याण्यपीति भावद्वारम् । अवक्तव्यकद्रव्याणि द्रव्यार्थतापेक्षयाऽन्येभ्यो निखिलेभ्यः स्तोकानि, अनानुपूर्वीद्रव्याणि विशेषाधिकानि, वस्तुस्थितिस्वभावात् । आनुपूर्वीद्रव्याणि च तेभ्योऽप्यसंख्येयगुणानि, आनुपूर्वीद्रव्येषु त्र्यणुकादिस्कन्धानामेकोत्तरवृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तानामनन्तस्थानावाप्तेः । अनानुपूर्वीद्रव्येषु परमाणुलक्षणस्यैकस्यैव स्थानस्यावक्तव्यकद्रव्येषु व्यणुकलक्षणस्य चैकस्यैव स्थानस्य प्राप्तेः । प्रदेशार्थतया चानानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, परमाणोः स्वव्यतिरिक्तप्रदेशान्तरशून्यत्वात् , तेन 10 पुद्गलास्तिकायस्य सर्वसूक्ष्मभागरूपस्य प्रदेशत्वेऽपि न क्षतिः, तेभ्योऽवक्तव्यकद्रव्याणि विशेषाधिकानि, द्विप्रदेशत्वात् । आनुपूर्वीद्रव्याणि त्ववक्तव्यकद्रव्येभ्योऽनन्तगुणानि, संख्यातप्रदेशिकानामसंख्यातप्रदेशिकानामनन्ताणुकानां स्कन्धानां प्रदेशेषु विवक्षितेषु महाराशित्वेनानन्तगुणत्वात् । उभयार्थतामाश्रित्यावक्तव्यकद्रव्याणि सर्वस्तोकानि, द्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याणि तेभ्यो विशेषाधिकानि, आनुपूर्वीद्रव्याणि द्रव्यार्थतयाऽसंख्येयगुणानि प्रदेशार्थतयाऽनन्तगुणानीति 15 अल्पबहुत्वद्वारम् । तदेवमनुयोगद्वारैरानुपूर्व्यादिद्रव्याणां विचारोऽनुगम इति भावः। इत्येवमुक्ता नैगमव्यवहारसम्मताऽनौपनिधिकी द्रव्यानुपूर्वी ॥ ३२॥ अथ सङ्ग्रहसम्मतां तामाह
एवमेव सनहसम्मतापि ॥ ३३ ॥ एवमेवेति, पञ्चभिरर्थपदप्ररूपणतादिभिरियं द्रव्यानुपूर्यपि विचार्यत इति पूर्वसदृशत्वं भाव्यम्। 20 परन्तु सङ्ग्रहस्य सामान्यवादित्वेन सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकास्तावद्वाच्यम् , इदश्चाविशुद्धसङ्ग्रहमतेन । विशुद्धसङ्ग्रहमतेन तु सर्वेषां त्रिप्रदेशिकानामनन्ताणुकपर्यन्तानां स्कन्धानामानुपूर्वीत्वसामान्याव्यतिरेकादखिलाऽप्येकैवानुपूर्वीति, एवमेवानानुपूर्व्यवक्तव्यकयोर्भाव्यम्, एवञ्चैतन्मते सर्वत्र बहुवचनाभाव एव । भङ्गाश्च प्रत्येकमेकवचनान्तात्रय एव, द्विकसंयोगात्रयः, त्रिकसंयोग एक इति सप्तैवानुपूर्व्यादिपदानां भङ्गा बोध्याः । 25 एत एवार्थकथनपुरस्सरास्सप्त भङ्गोपदर्शनताः । समवतारश्च स्वस्वजातावेवैते वर्तन्ते न स्वजाति व्यभि
चरन्तीति । आनुपूर्व्यादिद्रव्याणि नियमेन सन्ति, तेषामेकैको राशिः न संख्येयादिप्रमाणानि, सर्वलोकव्यापीनि, न तु संख्येयभागादिवर्तीनि । सर्वलोकमेव स्पृशन्ति, न संख्येयादिभागम्, सर्वाद्धाऽवस्थितिकालः, नास्ति चान्तरम् , त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्त्तते । सादिपारिणामिकभाव एव
वर्तन्ते त्रीण्यपि द्रव्याणि । अल्पबहुत्वन्तु न सङ्ग्रहमते सम्भवति, सामान्यस्य सर्वत्रैकत्वादित्येवमनु30 गमो भाव्यः ॥ ३३ ॥
कस्य नयस्य कियन्तो भङ्गारसमता इत्यत्राहषड्विंशतिभङ्गा नैगमव्यवहारयोस्सप्त भङ्गास्सङ्ग्रहस्य ॥ ३४॥