________________
मुक्ता]
अनुयोगलक्षणा। . षड्विंशतीति, एकवचनान्तेनानुपूर्व्यादिपदत्रयेण त्रयो भङ्गाः, बहुवचनान्तेनापि तेन पदत्रयेण त्रयो भङ्गा इति षनङ्गा असंयोगजाः, संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विकसंयोगाः, एकैकस्मिम् द्विकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावेन त्रिष्वपि द्विकयोगेषु द्वादशभङ्गाः सम्पद्यन्ते, त्रिकयोगस्त्वत्रैक एव, तत्र चैकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षडिशतिः नैगमव्यवहारयोरिष्टाः, संग्रहेण बहुवचनानङ्गीकारेण तद्धटितभङ्गपरिहारेण सप्तैव भङ्गा इष्यन्त इति भावः ॥ ३४ ॥
अथोपनिधिकी द्रव्यानुपूर्वीमाहपूर्वानुपूर्वीपश्चानुपूय॑नानुपूर्वीरूपतस्त्रिधौषनिधिकी द्रव्यानुपूर्वी ॥ ३५॥
पूर्वानुपूर्वीति, विवक्षितधर्मास्तिकायादिद्रव्यसमुदाये पूर्वस्मात्प्रथमादारभ्यानुक्रमेण विरचनं यस्यां सा पूर्वानुपूर्वी, यथा धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायो जीवास्तिकायः पुद्गलास्तिकायोऽद्धासमय इति, आगमे इत्थमेव पठितत्वात्, माङ्गलिकत्वाद्धर्मस्यादौ तत्प्रतिपक्षत्वात्ततोऽधर्मस्य 10 ततस्तदाधारत्वादाकाशस्यामूर्त्तत्वसामान्यात्ततो जीवस्य ततस्तदुपयोगित्वात्पुद्गलस्य जीवाजीवपर्यायाच ततोऽद्धासमयस्येति वाऽयमेव क्रमः पूर्वानुपूर्वी नान्यथा। पाश्चात्यादारभ्य व्युत्क्रमेणानुक्रमविरचना यस्यां सा पश्चानुपूर्वी यथा प्रोक्तसमुदायस्याद्धाकालः पुद्गलास्तिकायो जीवास्तिकाय आकाशास्तिकायोऽधर्मास्तिकायो धर्मास्तिकाय इति व्युत्क्रमः । विवक्षितपदानां प्रोक्तक्रमद्वयोल्लंघनेन परस्परासदृशैः सम्भवद्भिर्भङ्गकैर्विरचनं यस्यां साऽनानुपूर्वी, सा च विवक्षितसमुदायघटकक्रमन्यस्तपदार्थसंख्यानामन्योऽन्यं 15 गुणनेन लब्धसंख्यासदृशभङ्गेष्वाद्यन्तभङ्गपरित्यागेनावशिष्टैर्भङ्गैर्भवति यथा विवक्षितसमुदायो धर्माधर्माकाशजीवपुद्गलाद्धासमयरूपः तद्धटकक्रमविन्यस्तपदार्थसंख्या एकद्वित्रिचतुःपञ्चषड्पाः, तासां परस्परं गुणनं एकेन द्विके गुणिते द्वौ, ताभ्यां त्रिके गुणिते षट् तैश्चतुष्कके गुणिते चतुर्विशतिः तया पञ्चके गुणिते विंशोत्तरं शतं तेन षटूस्य गुणने विंशत्यधिकसप्तशतानि भवन्ति, इयन्तो भङ्गास्तत्र प्रथमभङ्गस्य पूर्वानुपूर्वीत्वेन चरमभङ्गस्य पश्चानुपूर्वीत्वेन तयोस्त्यागेनावशिष्टैरष्टादशोत्तरसप्तशतरूपैर्भङ्गैरनानुपूर्वी 20 भवति, एवमेवान्यसमुदायेष्वपि भाव्यम् । भङ्गकस्वरूपानयनं यथा-पूर्वानुपूर्व्या अधः प्रस्तुतभङ्गकरचनव्यवस्थानतिक्रमेणैकादीनि पदानि यथाज्येष्ठं न्यसेत् यो हि यस्यादौ भवति स तस्य ज्येष्ठः यथा द्विकस्याव्यवहितपूर्ववत्यैकको ज्येष्ठो द्विकस्य, यो यदीयज्येष्ठाव्यवहितपूर्ववर्ती स तस्यानुज्येष्ठः, यथा त्रिकस्यैकः, यश्च यदीयानुज्येष्ठाव्यवहितपूर्ववर्ती स तस्य ज्येष्ठानुज्येष्ठ इत्येवमन्यत्रापि भाव्यम् । व्यवस्थाभेदश्च न कार्यः, व्यवस्थाभेदो हि तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽक 25 आपतेत् निक्षिप्ताङ्कस्य पुरतो यथासम्भवमुपरितनाङ्कसदृशानेवाङ्कान पूर्वक्रमेण स्थापयेत् पूर्वक्रमश्च पूर्वानुपूर्त्यां यथा दृष्टस्तथा यस्संख्यया लघुः स प्रथम स्थाप्यते वस्तुतया महांश्च पश्चादिति । अत्र त्रीणि पदान्याश्रित्य भङ्गका दर्श्यन्ते, तेषां हि परस्पराभ्यासे षड्नङ्गका भवन्ति, तत्र पूर्वानुपूर्वी प्रथमो भङ्गो यथा १२३ इति, अस्याधस्तात् भङ्गकरचने क्रियमाणे एककस्य ज्येभावात् द्विकस्यैककरूपज्येष्ठस्य सत्त्वात्स एव तस्याऽधो निक्षिप्यते, तस्य पुरत उपरितनाङ्कतुल्यत्वात्रिको दीयते तस्य पृष्ठतस्तु 30 स्थापितशेषो द्विको दीयत इति २१३ भङ्गोऽयं निष्पन्नः, अत्राद्यस्य द्विकस्यैको ज्येष्ठो वर्त्तते परन्तु स न निक्षिप्यते तस्याप्रत उपरितनाङ्कतुल्याङ्कस्य विन्यसनापत्त्या तत्र च सदृशाङ्कपातेन व्यवस्थाभेदप्रस