________________
मुक्ता ]
अनुयोगलक्षणा ।
स्कन्धपरमाणुद्व्यणुकानि नियमेन सन्ति, न तु पदान्येतानि शशशृङ्गादिपदवदसदर्थविषयाणीति पर्यालोचना सत्पदप्ररूपणा । एकस्मिन्नव्याकाशप्रदेशे आनुपूर्व्यादिद्रव्याणि प्रत्येकमनन्तानि प्राप्यन्ते किं पुनस्सर्वलोके, तस्मात् संख्येयासंख्येययोर्निषेधात्रिष्वपि स्थानेष्वनन्तत्वमेवेति विचारो द्रव्यप्रमाणम् । पुद्गलपरिणामस्याचिन्त्यत्वादसंख्येयप्रदेशात्मके लोकेऽनन्तद्रव्यस्थितिर्न विरुद्धा प्रदीपप्रभावत् । आनुपूर्वी - द्रव्यमेकमाश्रित्य किचिल्लोकस्य संख्याततमं भागं किञ्चित्तदसंख्येयभागं किश्चिद्वहून् तत्संख्येयभागान् अन्यश्च बहून् तदसंख्येयभागानवगाह्य तिष्ठति, अनन्तानन्तपरमाणुप्रचयनिष्पन्नमचित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यन्तु समुद्धातवर्त्तिकेवलिवत्सकललोकावगाहि । आनुपूर्वीद्रव्याणि नानाद्रव्यापेक्षया नियमेन सर्वलोक एव भवन्ति न संख्येयादिभागेषु, सूक्ष्मपरिणामपरिणतानन्तानुपूर्वीद्रव्यरहितस्यैकस्यापि लोकाकाशप्रदेशस्याभावात् । अनानुपूर्वीद्रव्यं एकद्रव्यापेक्षया लोकस्यासंख्येयभाग एव वर्त्तते, तस्य परमाणुरूपत्वेनैका काशप्रदेशावगाढत्वात् एवमेकद्रव्यापेक्षयाऽवक्तव्यकद्रव्यमपि, द्व्यणु- 10 कस्कन्धात्मकत्वेन तस्यैकप्रदेशावगाढत्वाद्विप्रदेशावगाढत्वाद्वा । नानाद्रव्याणि प्रतीत्य त्वेते नियमेन सर्वलोक एवेति विचिन्तनं क्षेत्रद्वारम् । एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं संख्येयभागमसंख्येयभागं संख्येयान् भागानसंख्येयान् भागान् सर्वलोकं वा स्पृशति, अनेकद्रव्यापेक्षया तु नियमेन सर्वलोकं स्पृशति, एकद्रव्यापेक्षयाऽनानुपूर्वीद्रव्यं न संख्येयादिभागं स्पृशति किन्त्वसंख्येयभागमेव, नानाद्रव्यापेक्षया तु नियमेन सर्वलोकम्, एवमवक्तव्यकद्रव्यमपि । परन्तु स्पर्शना षड् दिकैः प्रदेशैस्तद्बहिरपि भवति तथा 15 च परमाणु द्रव्यमाश्रित्य परमाणुद्रव्यमेकस्मिन्नेवाकाशप्रदेशेऽवगाढं स्पर्शना तु तस्य सप्तप्रादेशिकी, एवमन्यत्रापि भाव्यमिति स्पर्शनाद्वारम् । एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यस्य जघन्यत एकस्समयोऽवस्थितिकालः, तदूर्द्धमेकस्य परमाण्वादेस्संयोगे वियोगे वा परिणामान्तरप्राप्तेः, यदा च तदेवानुपूर्वीद्रव्यं तद्भावेऽसंख्यातं कालं स्थित्वा ततः परमाण्वादिभिर्वियुज्यते तदोत्कृष्टतोऽसंख्येयोऽवस्थितिकालः, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेर संख्येय कालमानत्वेन नानन्तं कालं तस्यावस्थितिः । अनेकद्रव्यापेक्षया 20 च सर्वाद्धा स्थितिरानुपूर्वीद्रव्यरहितकालस्याभावात् । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्येवमेव कालो विज्ञेय इति कालद्वारम् । आनुपूर्वीद्रव्यस्यैकद्रव्यापेक्षया समयोऽन्तरं जघन्येन, उत्कर्षेण त्वनन्तः कालः प्रायते आनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे । यदानुपूर्वीद्रव्यं भिन्नं भित्वा च तदीयाः परमाणवोऽन्येषु परमाणुद्व्यणुक त्र्यणुकादिस्कन्धेषु अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वात् विस्रसादिपरिणामतो 25 यदा तैरेव परमाणुभिस्तदेवानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकालः प्राप्यते कालस्यानन्तत्वादिति, नानाद्रव्यापेक्षया नास्त्यन्तरम्, अनन्तानन्तानुपूर्वीद्रव्यैर्लोकस्य सर्वदाऽशून्यत्वात् । अनानुपूर्वीद्रव्यस्यैकद्रव्यापेक्षया जघन्येनैकस्समयोऽन्तरम्, उत्कर्षेणासंख्येयः कालः, तदेवानानुपूर्वीद्रव्यमन्येन परमाणुद्व्यणुकादिना केनचिद्रव्येण संयुज्यासंख्येयं कालं स्थित्वा यदा पुनस्तदेव स्वरूपं भजति तदाऽसंख्यात उत्कृष्टान्तरकालो लभ्यत इति, नानाद्रव्यापेक्षया नास्त्यन्तरम् । अवक्तव्यकद्रव्यस्यैकद्र- 30 व्यापेक्षया जघन्येनैकस्समयः उत्कर्षेणानन्तः कालोऽन्तरं भवति, नानाद्रव्यापेक्षया तु नास्त्यन्तरं, लोके सर्वदैव तद्भावादित्यन्तरद्वारम् । आनुपूर्वीद्रव्याणि सर्वाणि शेषद्रव्येभ्यो नियमेनासंख्येयैर्गुणैरधिकानि,
सू० मु० ४
"