SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ मुक्ता] - अनुयोगलक्षणा । चेत्सत्यम् , तेषामादिमध्यावसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यतासद्भावात् , तदाश्रयेणानुपूर्वीत्वाविरोधात् ॥ २५ ॥ अथ बहुतरवक्तव्यत्वादादावनौपनिधिकीमाह अनौपनिधिकी द्वेधा नैगमव्यवहारयोः सङ्घहस्य च ॥ २६ ॥ अनौपनिधिकीति, अस्या आनुपूर्व्या नयवक्तव्यताश्रयणाद्रव्यास्तिकनयमतेन नैगमव्यवहार- संमता सङ्ग्रहसंमता चेति द्वैविध्यं भवतीति भावः, पर्यायविचारस्याप्रक्रान्तत्वेन पर्यायास्तिकमतेन तस्या अनिरूपणादिति ॥ २६ ॥ तत्र नैगमव्यवहारसम्मतामायामाह प्रथमाऽर्थपदप्ररूपणताभङ्गसमुत्कीर्तनताभङ्गोपदर्शनतासमवतारानुगमभेदात् पञ्चधा ॥२७॥ प्रथमेति, नैगमव्यवहारसम्मताऽनौपनिधिकी द्रव्यानुपूर्वीत्यर्थः । पञ्चधेति, अर्थपदप्ररूपणता भङ्गसमुत्कीर्तनता भङ्गोपदर्शनता समवतारोऽनुगमश्चेति पञ्चविध इत्यर्थः, उक्तद्रव्यानुपूर्व्या उक्तनयद्वयमतेन स्वरूपस्य निरूपणादिति भावः ॥ २७ ॥ ___ अर्थपदप्ररूपणतामाह- .. . संज्ञासंज्ञिकथनमर्थपदप्ररूपणता ॥ २८॥ संज्ञेति, आनुपूर्व्यादिपदं संज्ञा संज्ञी व्यणुकस्कन्धादिः, तयोः कथनं यथा परमाणुत्रयघटितनिप्रदेशिकः स्कन्ध आनुपूर्वीत्युच्यते चतुःप्रदेशिकरस्कन्ध आनुपूर्वीत्युच्यते, एवमेव दशप्रदेशिकः स्कन्धः संख्येयप्रदेशिकोऽसंख्येयप्रदेशिकोऽनन्तप्रदेशिकश्च स्कन्ध आनुपूर्वीत्युच्यते, परमाण्वन्तरासक्तः परमाणुरेकोऽनानुपूर्वीत्युच्यते द्विप्रदेशिकश्चावक्तव्यकमित्युच्यते बहवस्त्रिप्रदेशिकादयः स्कन्धा आनुपूर्व्यः, बहवश्चैकाकिनः परमाणवोऽनानुपूर्व्यः, बहवो व्यणुकस्कन्धा अवक्तव्यकानीत्येवंरूप. 20 संज्ञासंज्ञिसम्बन्धकथनमर्थपदप्ररूपणतेति भावः । आदिमध्यान्तरूपानुक्रमस्य यत्र सम्भवस्स एवानुपूर्वीशब्दवाच्या, स च त्रिप्रदेशिकादिस्कन्धरूप एव, नैकः परमाणुस्तत्रादिमध्यान्तव्यवहाराभावात् , नापि व्यणुकस्कन्धः, तत्रापि मध्यव्यवहाराभावात्, आदित्वं हि यस्मात् परमस्ति न पूर्व तत्त्वम् । अन्तत्वं च यस्मात् पूर्वमस्ति न परं तत्त्वम् । मध्यत्वश्चाद्यन्तयोरन्तरत्वम् । यद्यपि व्यणुकस्कन्धे सम्पूर्णगणनानुक्रमाभावेऽपि परमाणुद्वयस्य परस्परं पूर्वपश्चाद्भावस्य सत्त्वेनानुपूर्वीत्व-25 प्रसङ्गशङ्का स्यात्तथापि मध्यस्य कस्यचिदभावेनासांकर्येणं पूर्वपश्चाद्भावोऽसिद्ध एव, परस्परापेक्षया पूर्वपश्चाद्भावस्य सत्त्वादेव न व्यणुकस्कन्धस्यानानुपूर्वीत्वमपि; तस्मादानुपूर्वीत्वेनानानुपूर्वीत्वेन वा वक्तुमशक्यत्वेनावक्तव्यक एव ब्यणुकस्कन्धः । यद्यपि च संज्ञासंशिसंबन्धकथनरूपाया एकवचनमा. श्रित्य त्रिप्रदेशिकादिस्कन्ध आनुपूर्वीत्येवमभिधानादेवार्थपदप्ररूपणाया निष्पन्नत्वात्रिप्रादेशिकाः स्कन्धा आनुपूर्य इत्यादिबहुवचननिर्देशो व्यर्थस्तथापि आनुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थ 30 नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च तनिर्देशः । अत्र व्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याण्य
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy