SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [प्रथमा त्रिविधः। अयं भावः, निखिलानि द्रव्याण्यात्मसमवतारेण निश्चयतश्चिन्त्यमानानि आत्मभावे स्वकीयवरूप एव वर्त्तन्ते, तेषां ततोऽव्यतिरेकात्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति यथा कुण्डे बदराणि, तदुभयसमवतारेण च स्वात्मभावे परस्मिंश्च वर्तते, यथा कटकुड्यदेहलीपट्टादिसमुदायात्मके गृहे स्तम्भो वर्त्तते, आत्मभावे च तथैव दर्शनात् । कुण्डे बदराणीत्यत्र परभावे समवतार5 वर्णनं स्वात्मभावे वर्तमानताया विवक्षामकृत्वैव, कुण्डादौ वर्तमानानां बदरादीनां स्वात्मन्यपि वृत्तेः। शुद्धस्तु परसमवतारो नात्येव तस्माद्वस्तुतस्तदुभयव्यतिरिक्तद्रव्यसमवतारो द्विविध एव । क्षेत्रसमवतारोऽपि आत्मतदुभयभेदेन द्विविधः, भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरो बृहत्क्षेत्रे समवतारो भाव्यः, अत्रापि सर्वेषां क्षेत्रविभागानां स्वस्वरूपेऽव स्थानमात्मसमवतारः, एवं कालसमवतारोऽपि द्विविधो लघुभूतसमयादिकालविभागस्य बृहति काल10 विभागे आवलिकादौ समवतारः स्वपरसमवतारः स्वस्मिन्नेव समवतारस्तु आत्मसमवतारः। भाव'समवतारोऽपि द्विविधः, क्रोधस्य माने समवतारो विनाऽहंकारं क्रोधासंभवात् , मानवानेव किल कुप्यति, मानस्य मायायां, क्षपणकाले मानदलिकस्य मायायां प्रक्षिप्य क्षपणात्, मायाया लोभे, अस्या अपि तथात्वात् , लोभस्य रागे, लोभात्मकत्वाद्रागस्य, रागस्य मोहे, तस्य मोहविशेषत्वात् , मोहस्याष्टसु कर्मप्रकृतिषु, मोहस्य कर्मप्रकारत्वात् , तासामपि औदयिकादिषड्भावेषु, तासां तद्भाववृत्ति15 त्वात् , भावाश्च जीवे, तदाश्रितत्वात् , जीवोऽपि जीवास्तिकाये, तद्भेदत्वात् , सोऽपि समस्तद्रव्यसमुदाये समवतरति द्रव्यभेदत्वात् । एते सर्वेऽप्यात्मसमवतारेणात्मभावेषु समवतरन्तीति ॥२४॥ इत्थं शास्त्रीयं षड्विधं निरूप्यानुपूर्वीभेदान्तर्गतां द्रव्यानुपूर्वी निरूपयितुमुपक्रमते__ औपनिधिक्यनौपनिधिकीभेदा व्यतिरिक्तद्रव्यानुपूर्वी ॥ २५ ॥ . औपनिधिकीति, प्रसिद्ध नामस्थापनानुपूव्यौं, द्रव्यानुपूर्व्यपि आगमतो नोआगमतश्च, यस्य 20 कस्यचिदानुपूर्वीतिपदं शिक्षितं स्थितं जितादि च स च जीवोऽनुपयुक्तस्तदा स द्रव्यानुपूर्वी आगमतः, नो आगमतो द्रव्यानुपूर्वी च ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदतस्त्रिविधा, आनुपूर्वीपदाभिज्ञस्य जीवविमुक्तं शरीरमतीतानुपूर्वीभावस्य कारणत्वात्सम्प्रति सर्वथाऽऽगमरहितत्वाच्च नोआगमतो ज्ञशरीरद्रव्यानुपूर्वी, आगमिनि काले जिनोपदिष्टेन भावेनानुपूर्वीतिपदं शिक्षिष्यते, इदानीन्तु तत्र वपुषि आगमाभावेन नोआगमतो भव्यशरीरद्रव्याऽऽनुपूर्वी । एतदुभयव्यतिरिक्ता च द्रव्यानुपूर्वी औपनि25 धिक्यनौपधिकी चेति द्विधा, निधानं निधिनिक्षेपो न्यासो विरचना प्रस्तारः स्थापनेति पर्यायाः, उप सामीप्येन निधिरुपनिधिः विवक्षित एकस्मिन्नर्थे पूर्व व्यवस्थापिते तत्समीप एवापरापरस्य पूर्वानुपूर्व्यादिक्रमेण यन्निक्षेपणं स उपनिधिः, सः प्रयोजनं यस्या आनुपूर्व्याः सौपनिधिकी, सामायिकाध्ययनादिवस्तूनां पूर्वानुपूर्व्यादिप्रस्तारप्रयोजनाऽऽनुपूर्वी अनौपनिधिकीत्युच्यते । पूर्वानुपूर्व्यादिक्रमे णाविरचनं प्रयोजनं यस्या इत्यनौपनिधिकी, यस्यां पूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा व्यादि30 परमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी अनौपनिधिकीत्युच्यते । ननु परिपाटिरानुपूर्वी, अनौपनिधिकी चानुपूर्वी ज्यणुकादिकोऽनन्ताणुकावसान एकैकः स्कन्धोऽभिप्रेतः, मच स्कन्धगतच्यादिपरमाणूनां नियता काचित् परिपाटिरस्ति, तेषां विशिष्टैकपरिणामपरिणतत्वात् , तथाच कथमत्रानुपूर्वीत्वमिति
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy