________________
मुक्ता ]
अनुयोगलक्षणा ।
१९
यथा दासक्रीतः खरो मदीय एव, दासस्य मदीयत्वादिति, व्यवहारश्च यथा पञ्चानां वित्ते स्वामित्वं साधारणं न तथा प्रदेशे पञ्चवृत्तित्वमिति पञ्चानां न प्रदेशः किन्तु पञ्चविधः प्रदेश इति वाच्यमिति मन्यते । ऋजुसूत्रो ब्रूते पञ्चविधः प्रदेश इति न सम्भवति, प्रत्येकं धर्मादिप्रदेशानां पञ्चविधत्व प्राप्तेः, शब्दाद्धि प्रकृते वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवञ्च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति तस्मात्प्रदेशो भजनीयः स्याद्धर्मास्तिकायस्य प्रदेशः स्यादधर्मास्तिकायस्येत्यादि । शब्दनयश्च प्राह 5 भजनाया विकल्परूपत्वेनैकतरमादाय विनिगन्तुमशक्यत्वाद्यो यदीयः प्रदेशः स तदीय एवेति व्यवस्थाया विलोपप्रसङ्गः, धर्मास्तिकायादिप्रदेशस्याधर्मास्तिकायादित्वेनापि भजनीयत्वप्रसङ्गात् किन्तु धर्मास्तिकाये यः प्रदेशः स धर्मास्तिकायात्मकः, धर्मास्तिकायात्मको यः प्रदेशस्स धर्मास्तिकाय इत्येवमधर्माकाशास्तिकाययोरपि, सोऽपि प्रदेशः सकलधर्मास्तिकायादव्यतिरिक्तो धर्मास्तिकायस्यैकद्रव्यत्वात् । जीवे यः प्रदेशो जीवात्मको वा यः प्रदेशस्स तु नोजीवः सकलजीवास्तिकायैकदेशवृत्तिः, 10 तथा स्कन्धे यः प्रदेशः स्कन्धात्मको वा यः प्रदेशस्स नोस्कन्धः, एकजीवाद्यात्मकस्य समस्तजीवाद्यस्तिकाये वृत्त्यसम्भवात्, जीवानां स्कन्धानाश्चानन्तत्वादिति । समभिरूढस्तु धर्मे प्रदेश इति कुण्डे .. बदरमित्यादेरिव भेदबुद्धिप्रसङ्गात् सप्तमीसमासाभिलापकं वचनं न ब्रूते । यद्यपि घटे रूपमित्यादावभेदेऽपि सप्तमी दृष्टा तथापि भेदेऽभेदे च सप्तमीदर्शनेनात्र संशयलक्षणो दोषो दुर्वार एव, एवञ्चाभेदप्रकारकबोधार्थं धर्मश्चासौ प्रदेशश्चेति समानाधिकरणः कर्मधारय एवावश्यमाश्रयणीयः । तत्पुरु- 15 भेदबोधाय पदलक्षणाया आवश्यकत्वात् कर्मधारये चाभेदस्य संसर्गविधयैव लाभाल्लक्षणाभावेन लाघवादिति । एवम्भूतनयस्य मते तु देशप्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देशप्रदेशकल्पना भ्रममात्रमिति । एते नयाः परस्परं निरपेक्षा दुर्नयाः, परस्परसापेक्षास्तु सुनया इति । संख्यानं संख्या सैव प्रमाणं संख्याप्रमाणम्, संख्याशब्देन संख्याशंखयोर्द्वयोरपि ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात् एवञ्च तन्नामस्थापनाद्रव्यौपम्यपरिमाणज्ञानगणनाभावसंख्याभेदादष्टविधम्, अत्र 20. संख्याश्शंखा वा यत्र घटन्ते ते तत्र योजनीयाः । ज्ञशरीर भव्यशरीरद्रव्यशंखपर्यन्तं पूर्ववत्, व्यतिरिक्तन्तु एकभविकबद्धायुष्काभिमुखनामगोत्रभेदतस्त्रिविधम्, इह यो जीवो मृत्वाऽनन्तरभवे शंखे उत्पत्स्यते स तत्राबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः स शंख उच्यते, यत्र भवे वर्त्तते स एवैको भवः शंखेषूत्पत्तेरन्तरेऽस्तीति कृत्वा । शंखप्रायोग्य बद्धायुर्बद्धायुष्कः, शंखभव प्राप्तस्य जन्तोः येऽवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखे जघन्यतस्समयेनोत्कृष्टतोऽन्तर्मुहू - 25 र्त्तमात्रेणैव व्यवधानादुदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः । उपमया वस्तुपरिच्छेद औपम्यसंख्या, इयमुपमानोपमेययोस्तत्त्वासत्त्वाभ्यां चतुर्धा, सत् सतोपमीयते, सदसतोपमीयते, असत्सतोपमीयते, असदसतोपमीयत इति, तीर्थकरवक्षआदेरुपमेयस्य कपाटादिनोपमानेन संख्यानमाद्यं, नैरयिकतिर्यग्योनिजमनुष्यदेवानामायूंषि पल्योपमसागरोपमै रुममीयन्ते, पल्योपमादीनां कल्पनामात्रेण प्ररूपिततयाऽसत्त्वादिति द्वितीयम्, किसलयपत्रावस्थया वसन्तसमये पाण्डुपत्रावस्था 30 उपमीयते तत्रोपमानं तत्कालभावित्वात्सत्, उपमेयश्च भूतपूर्वत्वादसत्, सत्या पाण्डुपत्रावस्थया भविष्यत्वादसती किसलयपत्रावस्था यदोपमीयते तदा तृतीयो भेदः । असता खरविषाणेनासतश्शश
"