SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [ प्रथमा करोमीत्युत्तरेषु प्रस्थकपदस्य तक्षणादिक्रियायोग्यकाष्ठेषूपचारा भवन्ति, तथा च नैगमव्यवहारावतिशुद्ध उत्कीर्णनामानं प्रस्थकपर्यायवन्तं प्रस्थकमाहतुः । सङ्ग्रहनयस्तु आसादितप्रस्थकपर्यायं धान्येन पूरितं प्रस्थकमाह, धान्यापूर्णमितरद्रव्याविशिष्टं विहाय नैगमोपदर्शितार्थसंकोचकत्वेन स्वनाम्नोऽन्वर्थत्वसिद्धेः । अयं हि विशुद्धत्वात्कारणे कार्योपचारं कार्याकरणकाले च प्रस्थकन नाङ्गीकुरुते, न चार्थ5 क्रियाभावाभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति वाच्यम्, नैगममतार्थसंकोचनाय क्वचित्तथोपगमेऽपि सर्वत्र तथाभ्युपगमाभावेन तदनुप्रवेशाभावात् । इत्थञ्चार्थक्रियाकारितदकारि troयक्तिभेदार्थं क्रियाऽजनकप्रस्थकव्यक्तौ प्रस्थकत्वसामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिदोषः । ऋजुसूत्रस्य मानं मेयच द्वयमेव प्रस्थकस्वरूपम्, तन्मेयधान्ये च समवहिते एव प्रस्थकव्यवहारादेकतरविनाभावे तत्परिच्छेदासम्भवात् । किञ्च मेयारूढः प्रस्थकत्वेन व्यपदेश्य इति 10 संग्रहनयमते मेयारूढः प्रस्थकारूढं मेयं वा तथेत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकपदशक्ते सज्यवृत्तित्वं युक्तं कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोगः, एकत्रो भयवाचकपदेनैकस्यानुपस्थापनादिति चेन्न, एतन्नयेन कथञ्चित् प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात्करणरूपानुप्रवेशस्यापि सम्भवात् । शब्दसमभिरूढैवम्भूतानां नयानां मते प्रस्थकस्वरूपपरिज्ञातृगतात्प्रस्थककर्तृगताद्वा प्रस्थकोपयोगाद्भिन्नं प्रस्थकं नास्ति, निश्चयमानात्मकप्रस्थकस्य जड15 वृत्तित्वायोगात्, बाह्यप्रस्थकस्याप्यनुपलम्भकालेऽसत्त्वेन उपयोगानतिरेकाश्रयणादिति । वसतिदृष्टान्तश्च-कुत्र भवान् वसतीति पृष्टेऽशुद्धनैगमव्यवहारवादी लोके वसामीति ब्रूते स्थितिपर्यायात्मकवसतेरधर्मास्तिकायव्याप्ताकाशत्वरूप लोकत्वस्यैव निरूपकतावच्छेदकत्वात् । ततः शुद्धशुद्धतरशुद्धतमरूपा नैगमव्यवहारवादिनस्तु क्रमेण ऊर्ध्वाधस्तिर्यग्लोकभेदभिन्ने सर्वत्रापि किं भवान् वसतीत्यादिप्रश्ने तिर्यग्लोके जम्बूद्वीपे भारतक्षेत्रे तद्दक्षिणार्धे पाटलिपुरपत्तने गृहे वा वसामीति क्रमेणो20 त्तरयन्ति तथा गर्भगृहपर्यन्तवसतिविषया नैगमव्यवहारभेदाः, विशुद्धतरनैगमव्यवहारयोस्तु वसन्नेव वसति नान्यथा, यत्र हि गृहादौ सर्वदा निवासित्वेनाऽसौ विवक्षितस्तत्र तिष्ठन्नेवैषस्तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्त्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यतेऽतिप्रसङ्गादिति । तथा प्रयोगे केत्याद्याकाङ्क्षा बाहुल्या बाहुल्यकृतमत्र विशुद्ध्य विशुद्धिवैचित्र्यम् विशुद्धतरत्वञ्च व्युपरताकांक्षाप्रयोगकर्तृत्वात् । सङ्ग्रहस्तु संस्तारकारूढ एव वसतीत्यभ्युपैति, अन्यत्र 25 वासार्थस्यैवाघटमानत्वात्, चलनादिक्रियावत्त्वात् मार्गादिप्रवृत्तवत्, ऋजुसूत्रनयश्च येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेवायं तद्वान् समभ्युपैति, संस्तार के तद्वसत्यभ्युपगमे तु गृहकोणादावपि तदुपगमप्रसङ्गः, संस्तारकावच्छिन्नव्योमप्रदेशेषु च संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तेष्वपि तद्वसतिभणनमुपपद्यते, संस्तारकगृहकोणादौ तद्वसतिव्यवहारस्तु प्रत्यासत्तिदोषाद् भ्रान्तिमूलक एवेति । तेष्वपि विवक्षितवर्त्तमानकाल एव वसतिः नातीतानागतयोः, विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्वात् । 30 शब्दनयास्त्रयः स्वस्मिन् वसतिं प्राहुः, मुख्याया वसतेः स्वप्रदेशेष्वेव सम्भवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनात् । प्रदेशदृष्टान्तश्च - तत्र नैगमो धर्माधर्माकाश'जीवस्कन्धतद्देशानां षण्णां प्रदेशमाह-संग्रहो धर्मादीनां पञ्चानां न तु तद्देशानां, स्वदेशे स्वाभेदात्, 1 24 ટ
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy