________________
सूत्रार्थमुक्तावल्याम्
[ प्रथमा
विषाणस्योपमानं चतुर्थमिति । कालिकश्रुतपरिमाण संख्यादृष्टिवादश्रुतपरिमाणसंख्यारूपेण द्विविधा परिमाणसंख्या प्रत्येकं पर्यवाक्षरादिसंख्याभेदेनानेकविधाऽनुयोगद्वारादितो विज्ञेया । ज्ञानरूपा संख्या ज्ञानसंख्या, यो देवदत्तादियावच्छब्दादिकं जानाति स तावज्जानाति तज्जानन्नसा व भेदोपचाराज्ज्ञानसंख्या । एतावन्त एते इति संख्यानं गणनसंख्या ट्र्यादिसंख्या, एकस्तु न गणनसंख्यामवत रवि, B एकस्मिन् घटादौ दृष्टे घटादिवस्त्विदं तिष्ठतीति प्रायः प्रतीतेः, न तु एकसंख्याविषयत्वेन, अल्पत्वाद्वा, आदानसमर्पणादिव्यवहारकाले हि एकं वस्तु प्रायो न कश्चिद्गणयतीति । सा च संख्येयकासंख्येयकानन्तकभेदवती, संख्येयकं जघन्यादिभेदात् त्रिविधम् । असंख्येयकं परीतासंख्येयकं युक्तासंख्येयकं असंख्येयासंख्येयकमिति त्रिविधमपि प्रत्येकं जघन्यादिभेदान्नवविधम्, अनन्तकं तु परीतानन्तकं युक्तानन्तकमनन्तानन्तकचेति त्रिविधमपि प्रथमयोर्द्वयोर्जघन्यादित्रिभेदतोऽन्त्यस्य जघन्यानुत्कृष्टभेद10 द्वयतश्चाष्टविधम् । विस्तरत एषां स्वरूपमनुयोगद्वारादितोऽवसेयम् । भावशंखाश्च शंखप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रकर्म च ये विपाकतो जीवा वेदयन्ति ते भावशंखाः, संख्याशब्देन शंखस्यापि ग्रहणाद्गुणप्रमाणादस्य भेदेन कथनमिति दिक् ॥ १९॥
अथ क्रमायातं वक्तव्यताद्वारमाचष्टे
२०
स्वपरोभयसमयभेदतस्त्रिविधा वक्तव्यता ॥ २०
खेति, अध्ययनादिषु प्रतिनियतार्थकथनं वक्तव्यता, स्वसमयः स्वसिद्धान्तः, तस्याऽऽख्यानं यथा पञ्चास्तिकायाः धर्मादिरूपा इति, तथा प्रज्ञापनं यथा गत्यपेक्षाकारणं धर्मास्तिकाय इत्यादि, तत्प्ररूपणं यथा सोऽसंख्यातप्रदेशात्मकादिखरूप इत्यादि, तथा दृष्टान्तद्वारेण दर्शनं यथा गतिमतां मत्स्यादीनां गत्युपष्टम्भकं जलमित्यादि, एवमुपनयद्वारेण निदर्शनम् - यथा तथैवैषोऽपि गतिमतां जीवपुद्गलानां गत्युपष्टम्भ इत्यादि, इत्येवंरूपतो यथासम्भवमर्थकथनं स्वसमयवक्तव्यता, परसमयव20 क्तव्यता तु यस्यां परसमय आख्यायते प्रज्ञाप्यते प्ररूप्यते दर्श्यते निदश्यते सा । यथा नास्तिकानामातेन पृथिव्यादिपञ्चमहाभूता लोके विद्यन्ते नान्ये, त एव कायाकारपरिणताश्चिद्रूपजीवव्यपदेशम
ते नातिरिक्तः कश्चित्परलोकगामी जीवः भूतानामेषां विनाश एव जीवस्य बिनाश इत्यादिरूपेण कथनं परसमयवक्तव्यता । स्वसमयः परसमयश्च यत्राख्यायते यथा गृहमावसन्तो गृहस्थाः, वनमावसन्तस्तापसा आरण्याः प्रव्रजिताश्च शाक्यादयः, मतमिदमस्मदीयमाश्रितास्सर्वदुःखेभ्यो विमु25 च्यन्त इति सांख्यादयो यदा प्रतिपादयन्ति तदेयं परसमयवक्तव्यता भवति, यदा तु जैनस्तदा स्वसमयवक्तव्यता, ततश्वासौ स्वसमयपरसमयवक्तव्यतोच्यत इति भावः ॥ २० ॥
अथ नयैर्वक्तव्यतां विचारयति
15
नैगमसङ्ग्रह व्यवहाराणां त्रिविधा वक्तव्यता ॥ २१ ॥
नैगमेति, नैगमस्यानेकगमत्वाद् व्यवहारस्य लोकव्यवहारपरत्वात् सङ्ग्रहस्य सामान्यवादि30 नैगमान्तर्गतत्वाच वक्तव्यतायासैविध्यमप्येते स्वीकुर्वन्तीति भावः ॥ २१ ॥