SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 19 सूत्रार्थमुक्तावल्याम् [प्रथमा एतच्च त्रिविधं उद्धारपल्योपममद्धापल्योपमं क्षेत्रपल्योपमञ्चेति, एतेषां स्वरूपाणि अनुयोगद्वारादवसेयानि । पल्योपमानां दशभिः कोटाकोटीभिरेकं सागरोपमं भवति । दशसागरोपमकोटाकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्यः पुद्गलपरावतः, अनन्तास्तेऽतीताद्धा, तावन्मानवानागताद्धा अतीतानागतवर्तमानकालस्वरूपा सर्वाद्धेति ॥ १८ ॥ अथ भावप्रमाणमाचष्टे गुणनयसंख्यारूपं भावप्रमाणम् ॥ १९ ॥ गुणेति, भावो वस्तुपरिणामः यथा ज्ञानादिवर्णादिश्च, प्रमीयते यत्तत्प्रमाणं भाव एव प्रमाणं भावप्रमाणम् । तच्च त्रिविधं गुणप्रमाणं नयप्रमाणं संख्याप्रमाणश्चेति, प्रमीयते हि गुणैर्द्रव्यं, गुणाश्च गुणरूपतया, अतः प्रमाणता गुणानाम , गुणप्रमाणञ्च जीवगुणप्रमाणमजीवगुणप्रमाणमिति द्विविधम् । 10 जीवस्य गुणा ज्ञानदर्शनचारित्राणि तद्रूपं प्रमाणमाद्यम् , तत्र ज्ञानरूपो गुणः प्रत्यक्षानुमानोपमानागम भेदतश्चतुर्विधः प्रत्यक्षमपि इन्द्रियनोइन्द्रियभेदेन द्विविधम् , ऐन्द्रियमपि पश्चेन्द्रियापेक्षया पञ्चविधम् । नोइन्द्रियजश्चावधिमनःपर्यवकेवलरूपम् , इन्द्रियजस्य प्रत्यक्षत्वं व्यवहारापेक्षया विज्ञेयम् । अनुमानश्च पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति त्रिविधम् । पूर्वदृष्टलिङ्गद्वारा गमकमनुमानं पूर्ववत्, यथा मत्पुत्रोऽ यमनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति, अत्र हि बाल्यावस्थायां कोऽपि स्वदेशात्कुत्रापि 15 पलायितः, पुनः कालान्तरे युवा सन् कथमपि प्रत्यागतः, तं तन्माता पूर्वदृष्टेन क्षतादिविशिष्टलिङ्गेनानुमिनोति पूर्ववदिदम् । न चायं हेतुस्साधर्म्यवैधर्म्यदृष्टान्ताभावादगमक इति वाच्यम् , अन्यथाऽनुपपत्तिमात्रस्यैव गमकत्वेन तस्या अत्र सत्त्वात् । जिज्ञासितार्थादन्योऽर्थश्शेषः, सो यस्य गमकस्तच्छेषवत्, तच्च पञ्चविधं, यथा हेषाशब्देन कार्येण तत्कारणमश्वमनुमिनुते, विशिष्टमेघोन्नत्या कारणेन तत्कार्यस्य वृष्टेरनुमानम् , गन्धादिना प्रतिनियतेन गुणेन तद्धेतुः पुष्पादेरनुमानम् , विशिष्टशृङ्गाद्यव20 यवोपलम्भेनावयविनो महिषादेरनुमानम् , धूमबलाकाद्याश्रयेणाश्रयिणो वह्निजलादेरनुमानमिति । पूर्वोप लब्धार्थेन सह साधर्म्य गमकतया यस्य तदनुमानं दृष्टसाधर्म्यवत्, पूर्वमर्थस्य सामान्यतो विशेषतो वा दृष्टत्वादिदं सामान्यदृष्टं विशेषदृष्टं चेति द्विविधम् , आद्यं यथा नालिकेरद्वीपादायातः कश्चित् कञ्चनैकं पुरुषं दृष्ट्वाऽनुमिनोति यथाऽयमेकः पुरुषः परिदृश्यमान एतदाकारविशिष्टस्तथाऽत्र बहवोऽ परिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, एतत्स्थानीयपुरुषत्वाविशेषात्, अन्याकारत्वे 25 तादृक् पुरुषत्वहानिप्रसङ्गात् , गवादिवत् , एवं यदि प्रथमं बहवः पुरुषा वीक्षितास्तदा यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः पुरुष एतदाकारवानेव, एतत्स्थानीयपुरुषत्वात् , अपराकारत्वे तद्धानिप्रसङ्गादश्वादिवदिति । द्वितीयं यथा कोऽपि कञ्चन पुरुषं कचिदृष्ट्वा तद्दर्शनाहितसंस्कारोऽसंजाततत्प्रमोषस्समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमुपलभ्य मानयति यः पूर्व मयोपलब्धस्स एवायं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात् , उभयाभिमतपुरुषवदिति । सदृशवस्तुप्राहक30 मुपमानं साधोपनीतवैधोपनीतभेदतो द्विविधम् , उभयमपि किश्चित्साधर्म्यण वैधhण वोपनीतं, प्रायः साधर्येण तद्वैधर्येण वोपनीतं, सर्वसाधर्म्यण तथाविधवैध\ण वोपनीतमिति त्रिविधम् , किञ्चित्साधर्म्यणोपमानोपमेयभावः मूर्तत्वेन मन्दरसर्षपयोः सोदकत्वमात्रेण समुद्रगोष्पदयोरित्यादि,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy