SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ मुक्ता] अनुयोगलक्षणा। कुक्षिद्वयनिष्पन्नं धनुरिति, षट् प्रमाणविशेषाः दण्डधनुर्युगनालिकाऽक्षमुशलाः, द्वे धनुःसहस्र गव्यूतं चत्वारि गव्यूतानि योजनं, वक्ष्यमाणप्रमाणाङ्गुलेन यद्योजनं तेनासंख्येया योजनकोटीकोट्यः संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति, इयमेव श्रेणिस्तयैव गुणिता प्रतरः सोऽपि श्रेण्या गुणितो लोकः, अयमपि संख्येयेन राशिना गुणितस्संख्येया लोकाः, अनन्तैश्च लोकैरलोक इति, संवर्त्यलोकस्य घनीकरणमनुयोगद्वारादिभ्योऽवसेयम् । नारकादिशरीराणामुञ्चैस्त्वनिर्णयार्थमङ्गुलमुत्सेधाङ्गुलम् , तच्चानेकविधं । तत्कारणस्य उत्तरोत्तरमष्टभिर्गुणितस्य परमाणुनसरेणुरथरेणुवालापलिक्षायूकायवानामनेकविधत्वात्। परमाणुर्हि द्विविधः, सूक्ष्मो व्यावहारिकश्च । सूक्ष्मश्च 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्चेति लक्षितः परमाणुनिश्चयनयाभिमतो निर्विभागः परमाणुः, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेवायं नयो व्यपदिशति, नैश्वयिकोऽत्र परमाणुन विवक्षितः किन्तु व्यावहारिक एव । व्यवहारनयो हि तादृशानेकपरमाणुनिष्पन्नोऽपि यश्शनच्छेदाग्निदाहादिविषयो 10 न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, एभिरष्टभिः श्लक्ष्णश्लक्ष्णिका, आभिरष्टाभिरुर्ध्वरेणुः, अष्टभिरेभित्रसरेणुः, अष्टाभिश्चैभिः रथरेणुरित्येवं द्रष्टव्यम् । प्रमाणाङ्गुलन्तु सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं, परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं वा प्रमाणाकुलं नातःपरं बृहत्तरमङ्गुलमस्तीति, यद्वा समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावागादिदेवो भरतो वा तस्याङ्गुलं प्रमाणाङ्गुलम् , विशेषोऽत्रानुयोगद्वारादितो विज्ञेयः ॥ १७ ॥ 18 अथ कालस्य परिच्छेदकं दर्शयतिनिर्विभाज्यकालभागः प्रदेशः समयावलिकोच्छासनिःश्वासप्राणस्तोकलवमुहूर्ताहोरात्रपक्षमासर्वयनसंवत्सरयुगपूर्वाङ्गादयो विभागःकालस्य ॥१८॥ निर्विभाज्येति, कालस्य निर्विभागा ये भागास्तैरेकादिक्रमेण निष्पन्नः परमाणुः स्कन्धो वा, एकसमयस्थितिकमारभ्य यावदसंख्येयसमयस्थितिकः प्रदेशनिष्पन्नो भाव्यः, समयेति, समयः परम- 20 सूक्ष्मः कालः, समयानां समुदायादावलिकैका, संख्येयावलिकाभिरुच्छ्वासः, संख्येयावलिकाभिश्च निःश्वासः तुष्टस्य जराऽपीडितस्य व्याध्यनभिभूतस्य च जन्तोरेक उच्छासयुक्तो निःश्वास एकः प्राणः, सप्त प्राणा एकस्स्तोकः सप्त स्तोका एको लवः, सप्तसप्ततिलवा मुहूर्त्तः, त्रिंशता मुहूर्तेरहोरात्रं, पञ्चदशभिस्तैः पक्षः ताभ्यां द्वाभ्यां मासः, मासद्वयेन ऋतुः, ऋतुत्रयमानमयनं, अयनद्वयेन संवत्सरः पञ्चभिस्तैर्युगं, चतुरशीत्या लक्षैः पूर्वाङ्गं तदपि चतुरशीत्या लक्षैर्गुणितं पूर्व, एवं पूर्वपूर्वराशिः चतुरशीति-25 लक्षैर्गुणितं उत्तरोत्तरं त्रुटिताङ्गत्रुदिताटटाङ्गाटटाववागाववहुहुकाङ्गहुहुकोत्पलाङ्गोत्पलपद्माङ्गपद्मनलिनाङ्गनलिनार्थनिपूराङ्गार्थनिपूरायुताङ्गायुतनयुतागनयुतप्रयुताङ्गप्रयुतचूलिकाङ्गचूलिकाशीर्षप्रहेलिकाङ्गशीर्षप्रहेलिकारूपो भवति, एतावत्पर्यन्तं गणितस्य विषयः, अतः परं सर्वमौपमिकम् , उपमानमन्तरेण यत्कालप्रमाणमनतिशायिना गृहीतुं न शक्यते तदौपमिकम् । तच द्विधा पल्योपमं सागरोपमञ्च, तत्र पल्यो धान्यपल्य इव स्यात्, तञ्च वृत्तत्वादैर्घ्य विस्ताराभ्यां प्रत्येकमुत्सेधालक्रमनिष्पन्नं योजनं, उच्चत्वेनापि 30 तद्योजनं किशिम्यूनयोजनषड्भागाधिकयोजनत्रयं परिधिः स पल्यः, तेनोपमा यस्मिन् तत्सल्योपमं,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy