SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [प्रथमा कथं द्रव्यादीनां ताभ्यां परिच्छेद इत्यत्राह एकद्विव्याद्यणवः प्रदेशा मानोन्मानावमानगणिमप्रतिमानानि च विभागा द्रव्यस्य ॥ १६ ॥ एकेति, एकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिकः प्रदेशत्रयघटितः त्रिप्रदेशिक 5 इत्येवं यावदनन्तैः प्रदेशैस्सम्बद्धोऽनन्तप्रदेशिकः, ननु सर्वेषामेषां द्रव्यत्वेन प्रमेयत्वात्कथं प्रमाणत्वमिति चेन्मैवम् , प्रस्थकादिप्रमाणेन मितस्य पुञ्जीकृतस्य द्रव्यादेर्लोके प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीत्यादिव्यवहारेण द्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यत्वात् , तत्तत्प्रदेशनिष्पन्नत्वलक्षणं स्वरूपं करणव्युत्पत्त्या मुख्यं प्रमाणं द्रव्यन्तु तत्स्वरूपयोगादुपचारेण, भावव्युत्पत्तौ तु प्रमितिर्मुख्यं प्रमाणं, प्रमाण प्रमेये चोपचारत इति । धान्यमानादेस्स्वरूपन्तु न स्वगतप्रदेशाश्रयेण, किन्तु मानोन्मानादिपञ्चविध10 विभागेन, तत्र मानं धान्यविषयं रसविषयश्च, धान्ये असृतिप्रसृत्यादिः, अवाङ्मुखहस्ततलरूपाऽमृतिः, तत्परिच्छिन्नं धान्यमपि तथा, अमृतिद्वयनिष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसूतिः, एवं सेतिकाकुडवप्रस्थकादयो विज्ञेयाः। रसो मद्यादिस्तद्विषयं मानं रसमानप्रमाणं, धान्यस्याद्रवत्वाच्छिखा भवति, रसस्य द्रवरूपत्वान्न शिखासम्भवः, अतो बहिःशिखाभावाद्धान्यमानाच्चतुर्भागवृद्धियुक्तं सेतिकादेर्यक्रियते तद्रसमानप्रमाणमुच्यते, षट्पश्चाशदधिकशतद्वयपलमाना मणिकानाम रसमानं तस्या 15 एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, मणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका इत्यादिमानमनुयोगद्वारेण भाव्यम् । यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम् , यथा पलस्याष्टमांशोऽर्धकर्षः, पलस्य चतुर्भागः कर्षः पलस्यार्धमर्धपलमित्यादि । अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादिः, चतुर्विंशत्यङ्गुलमानो हस्तस्तच्चतुर्भिर्दण्डधनुयुगनालिकाक्षमुशलरूपाः षड् संज्ञा लभ्यन्ते, वास्तु हस्तेन मीयते कृषिकर्मादिविषयभूतं क्षेत्रं दण्डेन 20 मीयते, मार्गविषये धनुरेव मानं, कूपादि नालिकया मीयते, एवं युगादिरपि यस्य यत्र व्यापारो रूढ स्तस्य तत्र वाच्य इति नैकेन चरितार्थत्वादन्यतरोपादानं व्यर्थमिति भाव्यम् । गण्यते तद्गणिमं यथा एक दश शतं सहस्रं दशसहस्रं शतसहस्रं दशशतसहस्रं कोट्यादि । मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं यथा गुञ्जा, सपादा गुञ्जा काकिणी, त्रिभागोनगुञ्जाद्वयेन निष्पाव इत्यादि ॥ १६ ॥ अथ क्षेत्रस्य परिच्छेदकं दर्शयति25 क्षेत्रान्तिमभागः प्रदेशः, अङ्गुलवितस्तिरनिकुक्षिधनुर्गव्यूतयोजनश्रेणिप्रतरलोकालोका विभागाः क्षेत्रस्य ॥ १७ ॥ क्षेत्रेति, क्षेत्रस्य निर्विभागा ये भागास्तैरेकादिक्रमेण निष्पन्नं प्रदेशनिष्पन्नं, एकप्रदेशावगाढाद्यसंख्येयप्रदेशावगाढपर्यन्तं भावनीयम् , विभागे अङ्गुलं त्रिविधं, आत्माङ्गुलमुत्सेधाङ्गुलं प्रमाणाङ्गुल चेति, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्ध्यत्रात्मा गृह्यते, 30 आत्मनोऽङ्गुलमात्माङ्गुलं इदश्चानियतप्रमाणं, पुरुषाणां कालाविभेदेनानवस्थितमानत्वात्, एतदङ्गुलप्रमाणेन षडङ्गुलानि पादमध्यप्रदेशः इमौ युग्मीकृतौ वितस्तिः, द्वे वितस्ती रनिः रनिद्वयं कुक्षिा,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy