SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावल्याम् [प्रथमा नाममात्रेणोपक्रमरूपत्वान्नामोपक्रम उच्यते, एवमेव नामावश्यकमपि भाव्यम् । तत्र लोके यथा जीवस्य वपुत्रादेदेवदत्तयज्ञदत्तादि नाम करोति तथा कश्चिदावश्यकमित्यपि नाम करोति स्वाभिप्रायवशात् । जीवस्यावासभूताचित्तबहुकोटराकीर्णवृक्षादिस्सोदेरावासभूतत्वेन व्यपदेशादजीवस्यावश्यकनाम भवति, आवासकावश्यकशब्दयोरेकार्थत्वात् , इष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, अग्नौ मूषकाणां संमूर्च्छ5 नादतोऽसंख्येयानामग्निजीवानामावासकनाम भवति, पक्ष्यावासभूतनीडस्य बहुभिस्तृणैर्निष्पन्नत्वादहूनामजीवानामावासकनाम भवति, गृहदीर्घिकाऽशोकवनिकायुपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते तत्र जलवृक्षादयस्सचेतनाः इष्टकाकाष्ठादयश्चाजीवास्तन्निष्पन्नमुभयमिति तस्यावासकनाम भवति, सम्पूर्णनगरादिकं राजादीनामावास इति कृत्वा तत्र बहूनां जीवाजीवोभयेषामावासकनाम भवतीति । क्रियाक्रियावतोरभेदोपचारादुपक्रमतत्कर्तृलौकिकसाध्वादेरभेदेन काष्ठकर्मचित्रकर्माक्षवराटकादावेको 10 वाऽनेके वोपक्रमक्रिया वा लौकिकसाध्वादयः सद्भावस्थापनयाऽसद्धावस्थापनया वा स्थाप्यन्ते स स्थाप नोपक्रमः, एवं स्थापनावश्यकमपि भाव्यम् । सम्प्रत्युपक्रमोपयोगशून्याः साध्वादिदेहादयो द्रव्योपक्रमः, द्विविधस्सः, आगममाश्रित्य नोआगममाश्रित्य च । यस्य कस्यचिदुपक्रमस्वरूपं शिक्षितं गुरुभिः, अविस्मरणेन चेतसि स्थितं परावर्त्तनया शीघ्रोपस्थितिकत्वाजितं अहीनाक्षरानत्यक्षरादिरूपतया स्थितं स जीवस्तदुपयोगे यदा न वर्त्तते तदा आगममाश्रित्य द्रव्योपक्रम उच्यते, नन्वागमतोऽस्य कथं द्रव्योप15 क्रमत्वम् , आगमस्य ज्ञानरूपत्वेन भावत्वादिति चेन्न, आगमकारणभूतस्यात्मनस्तदधिष्ठितस्य देहस्योपयोगशून्यतदुच्चारणरूपशब्दस्यैव चात्र सत्त्वेनागमस्य साक्षादसत्त्वात् , कारणे कार्योपचाराद्धि तेषामागमरूपत्वम् , द्रव्यश्च विवक्षितभावस्य कारणं भवतीत्यागममाश्रित्य द्रव्योपक्रम उक्त इति । नोआगमतो द्रव्योपक्रमस्त्रिविधः ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदात् , ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदास्सर्वथाऽऽगमाभावमाश्रित्य द्रव्योपक्रमः, तत्रोपक्रमपदाभिधेयं जानानस्य यच्छरीरं जीवेन 20 परित्यक्तं तदतीतोपक्रमभावस्य कारणत्वात्तदानीं सर्वथाऽऽगमरहितत्वान्नोआगमतो ज्ञशरीरद्रव्योपक्रमः। यद्यपि व्यपगतचेतनस्य शरीरस्य न द्रव्योपक्रमत्वम् , उपक्रमकारणस्यैव द्रव्योपक्रमत्वात् कारणञ्च चेतनाधिष्ठितमेव भवति, अन्यथाऽतिप्रसङ्गात्तथापि प्रक्षिप्तापसारितघृतस्य घटस्य घृतघट इति व्यपदेश इवातीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतोपक्रमकारणत्वपर्यायमपेक्ष्य द्रव्योपक्रमत्वमस्योच्यत इत्यदोषः। विवक्षितपर्याययोग्यो भव्यः, आगामिकाले हि जिनोपदिष्टेन भावेनोपक्रम इत्येतत्पदमसौ 25 शिक्षिष्यते तज्जीवाधिष्ठितं शरीरं तदानीं तत्र वपुष्यागमाभावेन नोआगमतो भव्यशरीरद्रव्योपक्रमः । यद्यप्यत्र शरीरे आगमाभावेन तत्कारणत्वमपि नास्ति, अतिप्रसङ्गेन कार्याभावे वस्तुनः कारणत्यासम्भवस्तथापि भविष्यत्यपि घृताधारत्वपर्याये घटे घृतघटोऽयमिति व्यपदेशवदिदानीमपि भविष्यपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्या तथोच्यत इति, एवं द्रव्यावश्यकमपि भाव्यम् । ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकन्तु लौकिककुप्रावचनिकलोकोत्तरिकरूपभेदत्रयवत्, अनुयोगद्वारादिभ्यस्त स्वरूपमवसेयम् । तदुभयव्यतिरिक्तद्रव्योपक्रमः सचित्ताचित्तमिश्रद्रव्यविषयभेदात् त्रिविधः, द्विपद30 चतुष्पदापदभेदत आद्योऽपि भेदस्त्रिविधः, नटनर्तकादीनां द्विपदानां भृताधुपयोगेन यदलवर्णादिकरणं सोऽवस्थितस्यैव वस्तुनो गुणविशेषाधानरूपत्वात् परिकर्मविषयस्सचित्तद्रव्योपक्रमः । यस्त्वेषां खगा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy