________________
मुका]
अनुयोगलक्षणा। प्रकृत्या मुग्धा यथा भण्यते तथा करोति, यथा वा रत्नमसंस्कृतं यादृशोऽभिप्रायस्तादृशं घटित्वा क्रियते, एवमेषापि यथा रोचते तथा क्रियत इति सापि योग्येति भावः। उपलक्षणतया तु अनुयोगकर्ता मूलोत्तरगुणशतकलितः, यो हि मूलगुणादिषु सुस्थितस्तस्य वचनं घृतपरिषिक्तपावक इव दीप्यते, गुणहीनस्य तु स्नेहेन विहीनः प्रदीप इव न शोभते वचनम् । आनुपूर्वीनामप्रमाणादिको भेदोऽग्रे वक्ष्यते । नामस्थापनाद्रव्यक्षेत्रकालवचनभावभेदेन सप्तविधोऽनुयोगस्य निक्षेपः, इंद्रादिनाम्नों व्याख्यानं 5 नामानुयोगः यस्य वा वस्तुनोऽनुयोग इति नाम क्रियते तन्नाममात्रेणानुयोगो नामानुयोगः, स्थापनाया व्याख्यानं यत्रैवानुयोगं कुर्वन्नाचार्यादिः काष्ठादौ स्थाप्यते तत्स्थापनानुयोगः । द्रव्यस्य व्याख्यानं द्रव्ये वा निषद्यादौ स्थितस्यानुयोगो द्रव्यानुयोगः, द्रव्यक्षेत्रकालभावैर्जीवद्रव्यस्याजीवद्रव्यस्य वाऽनुयोगः द्रव्यानुयोगः । जम्बूद्विपादिलक्षणक्षेत्रव्याख्यानं क्षेत्रानुयोगः । उत्पलपत्रशतभेदादिदृष्टान्तैः समयादेर्व्याख्यानं कालानुयोगः । कदा कश्चिदाचार्यादिस्साध्वादिना सकृद्वचनेन बहुभिर्वा वचनैरभ्य- 10 र्थितोऽनुयोगं करोति तदा स वचनानुयोगः । कथं नामैते शिष्याः सूत्रार्थसंग्राहकाः सम्पत्स्यन्ते, तथा कथं नु नाम गीतार्थीभूत्वाऽमी वस्त्राद्युत्पादनेन गच्छस्योपग्रहकारका भविष्यन्ति ममाप्येतान् वाचयतः कर्मनिर्जरा भविष्यति, तथा श्रुतपर्यवजातं ममापि वृद्धिं यास्यति, श्रुतस्य वा अव्यवच्छित्तिभविष्यतीत्येवं सङ्ग्रहादिभिः पञ्चभिरभिप्रायैर्द्विन्यादिभिर्वा श्रुतं सूत्रार्थतो वाचयतो भावानुयोग इत्येवं भाव्यम् ॥ ६॥
15 तदेवं सपरिकरमनुयोगं निरूप्यारोऽर्थाधिकारभेदस्यावश्यकमधिकृत्य प्रदर्शितत्वेनावश्यकस्यानुयोगं कर्तुकामस्तस्य तावदन्तरेणोपक्रममसम्भवादुपक्रमस्वरूपमेवादावाह--
व्याकरिष्यमाणपदार्थनामनिर्देश उपक्रमः ॥७॥ व्याकरिष्यमाणेति, उपक्रम्यतेऽस्माद्विनीतविनयविनयादित्युपक्रमः, विनेयेनाराधितो हि... गुरुरले यदा कदाचिद्व्याकरिष्यमाणं शास्त्रादिपदार्थमत एव दूरस्थं इदानीमिदं शास्त्रादि व्याकरोमीति 20 समीपमुपनीय निक्षेपयोग्यं करोति स उपक्रम इति भावः । यथा सम्प्रति आवश्यकस्यानुयोगः क्रियत इति निर्देशः, निर्देशे कृते च सति तन्निक्षेपयोग्यं भवति नेतरथेति ॥ ७ ॥ तस्य प्रकारमाह
शास्त्रीयेतरभेदाभ्यां द्विविधस्सः ॥ ८॥ शास्त्रीयेति, शास्त्रीयः शास्त्रानुगतः, इतरो लोकप्रसिद्धः, स उपक्रमः ॥ ८॥ इतरोपक्रमस्य भेदानाह---
इतरो नामस्थापनाद्रव्यक्षेत्रकालभावैष्षोढा ॥९॥ इतर इति, लोकप्रसिद्धोपक्रम इत्यर्थः, नामरूप उपक्रमो नामोपक्रमः यस्य कस्यचिज्जीवस्याजीवस्य वा तदुभयस्य वा जीवानां वाऽजीवानां वोभयेषां वा उपक्रम इति यन्नाम क्रियते स नामोप-, क्रमः, नाना य उपक्रमः सोऽपि नामोपक्रमः, यस्य जीवादिवस्तुन उपक्रम इति नाम क्रियते तद्वस्तु 30