________________
सूत्रार्थमुक्तावल्याम्
[प्रथमा तथाऽनु पश्चात् संहितापदपदार्थपदविग्रहपूर्वकं प्रश्नानां योगः समाधानमनुयोग इति व्युत्पत्त्याश्रयेण लक्षणमपि प्रकटीकृतं तथा च पूर्वसूत्रे विषयोऽत्र चैकार्थनिरुक्तिद्वारलक्षणानि प्रदर्शितानि ॥ ४ ॥ अथ विधिद्वारमादर्शयति
सूत्रार्थनियुक्तिमिश्रनिरवशेषकथनं तद्विधिः ॥ ५॥ । सूत्रार्थेति, प्रथमं सूत्रार्थस्य ततो नियुक्तिमिश्रस्य ततो निरवशेषस्य कथनमनुयोगस्य विधिरित्यर्थः । तत्र ग्रहणधारणसमर्थान् शिष्यान् प्रति प्रथमं सूत्रस्य सामान्येनार्थः यावदध्ययनपरिसमाप्ति कथनीयः, ततो द्वितीयस्यां परिपाट्यां नियुक्तिमिश्रितः पीठिकया सूत्रस्पर्शिकनियुक्त्या च समन्वितो यावदध्ययनपरिसमाप्ति कथनीयः । तृतीयस्यां च पदपदार्थचालनाप्रत्यवस्थानादिभिर्निरवशेषोऽनुयोगो
वक्तव्य इति भावः । मन्दमतीन प्रति तु यथाप्रतिपत्ति सप्तवाराननुयोगः कर्त्तव्यः, न चैतावता 10 तिसृभिः परिपाटीभिरेकान ग्राहयतो रागरसप्तभिरपरान् ग्राहयतो द्वेषश्च प्रसज्यते, एकविधपरिपाट्या
सर्वेभ्यः सूत्रार्थस्य निरवयवेन सम्प्रदर्शयितुमशक्यत्वात् , न वाऽतिपरिणामकानपरिणामकांश्च परिहरतो द्वेषः, परोक्षज्ञानी ह्याचार्यस्सूत्रार्थों वदन् विनेयानां विनयाविनयकरणादिनाऽभिप्रायमुपलभ्यापात्रभूतेभ्यः शिष्येभ्यः श्रुताशातनादिना मा विनश्येयुरित्यनुकम्पया न सूत्रार्थो कथयति न तु द्वेषेणेति, एवमन्येऽपि विधयोऽनुयोगद्वारादितोऽवसेयाः। एतेनानुयोगे प्रवृत्तिरपि सूचिता, आचार्यस्य शिष्यस्य चोद्यमित्वभावे 15 ईदृशविधेरप्रवृत्तेः, अत्र चत्वारो भङ्गाः, उद्यमी आचार्य उद्यमिनः शिष्याः, आचार्योऽनुद्यमी
उद्यमिनशिशष्याः, उद्यमी आचार्यः अनुद्यमिनश्शिष्याः, आचार्योऽनुद्यमी अनुद्यमिनश्च शिष्या इति, तत्र प्रथमे भङ्गेऽनुयोगस्य प्रवृत्तिः, चरमे तु नैव भवति, मध्यमयोस्तु कस्यचित्कथञ्चिद्भवत्यपीति ॥५॥ . सम्प्रति परिषवारमाचष्टे
ज्ञायकाज्ञायकपरिषदौ तद्योगे ॥६॥ 20 ज्ञायकेति, संक्षेपेण त्रिप्रकारा हि परिषत्. ज्ञायकाज्ञायकदुर्विदग्धभेदात् । या परिषत्
कुपथप्रवृत्तपाखण्डमतेन न दग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलं गुणग्रहणपरायणा सा ज्ञायकपरिषत् । या ताम्रचूडकंठीरवकुरङ्गपोतवत् प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवान्तर्विशिष्टगुणसमृद्धा सुखप्रज्ञापनीया च साऽज्ञायकपरिषत् । या तु तत्तद्गुणज्ञपार्थोपगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किश्चिन्मात्रमर्थपदं सारपल्लवमात्रं वा श्रुत्वा 25 तत ऊर्ध्वं निजपाण्डित्यख्यापनायाभिमानतोऽवगणयति पाठकम् , अर्थ कथ्यमानश्चात्मनो बहुज्ञता
सूचनायाने त्वरितं पठति सा दुर्विदग्धपरिषत् । तिसृणाममूषां परिषदां मध्ये ज्ञायकाज्ञायकपरिषदावनुयोगयोग्ये, तृतीया त्वयोग्या तत्राचार्यपरिश्रमस्य निष्फलीभवनात् , दुरन्तसंसारोपनिपातसम्भवाच्च, सा हि पदमर्थ वाऽवज्ञया शृणोति पाण्डित्याभिमानेन च महीयसोऽवमन्यते, अवज्ञया च संसारेऽभिध्वक्ता जायत इति । या तु प्रथमा सा अवितथादिगुणसमृद्धा राजहंसः क्षीरमिव गुणानास्वादॐ यति, कचिदनुपयोगप्रभवान् दोषान् परित्यजति तस्मात्तस्या योग्यत्वम् । द्वितीया तु प्रकृत्या मुग्धा यथाऽरण्यादानीय मृगादिशावा यथारुचि भद्रकाः क्रूरा वा क्रियन्ते तथा या परतीर्थिकैरभाविता