________________
मुक्ता]
अनुयोगलक्षणा। योगस्यैवोपक्रान्तत्वादुद्देशादिकं किमर्थमुपात्तमिति चेदुच्यते, यत्रैवोद्देशादयः क्रियन्ते तत्रैवानुयोगस्तद्वाराण्युपक्रमादीनि च प्रवर्तन्ते नान्यत्र, क्रियन्ते चोदेशादयः श्रुतज्ञाने न तु ज्ञानचतुष्टये, तस्य गुर्वनधीनत्वेनोद्देशाद्यविषयत्वात् । नानार्थत्वाहुरूहत्वाद्विविधमंत्राद्यतिशयसम्पन्नत्वाद्धि प्रायः श्रुतज्ञानं गुरूपदेशमपेक्षते, ज्ञानचतुष्टयन्तु तत्तदावरणक्षयक्षयोपशमाभ्यां विना गुरूपदेशापेक्षं जायमानत्वेन नोद्देशादिक्रममपेक्षत इति ॥ २॥
ननु श्रुतज्ञानं द्विविधमङ्गान्तर्गतमङ्गबहिर्भूतश्चेति, अङ्गान्तर्गतमाचारादि, अङ्गबहिर्भूतञ्चोत्तराध्ययनादि, तदत्र कस्योद्देशादयः प्रवर्त्तन्त इत्यत्राह
ते सकलस्यापि श्रुतस्य ॥ ३॥ त इति, उद्देशसमुद्देशानुज्ञानुयोगा इत्यर्थः प्रवर्त्तन्त इति शेषः । तथा च न केवलमङ्गान्तर्गतस्य न वाऽङ्गबहिर्भूतस्योद्देशादयः प्रवर्त्तन्ते, अपि तु सकलस्यापि श्रुतस्येति भावः। सकल-10 स्यापीत्यनेन प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशकं प्रतिपदश्च ते प्रवर्त्तन्ते न पुनः समुदायरूपश्रुतस्यैवेति सूच्यते ॥ ३ ॥
ननूपक्रान्तोऽनुयोगो हि द्वादशद्वारसंमिश्रः, द्वाराणि च निक्षेपैकार्थनिरुक्तिविधिप्रवृत्तिकर्तृविषयद्वारभेदलक्षणपरिषत्सूत्रार्थरूपाणि, तत्र प्रथमं द्वारप्रदर्शनमुखेनानुयोगस्वरूपं वर्णयन्नर्थतोऽपि कतिचन द्वाराणि सङ्ग्रहाति
15 उपक्रमनिक्षेपानुगमनयैरनुयोगः ॥ ४ ॥ उपक्रमेति, उपक्रमादयो वक्ष्यमाणस्वरूपाः द्वादशविधद्वारान्तर्गतद्वाररूपास्तैरनुयोगः, सूत्रस्य स्वकीयेनाभिधेयेनानुयोजनं सूत्रस्य निजार्थविषये संयोज्य प्रतिपादनलक्षणव्यापारो वा। अर्थापेक्षया सूत्रमणु लघु सूत्रस्य बह्वर्थत्वात् । अणुना सूत्रेण सहार्थस्य योगोऽनुयोगोऽथवा प्रथममर्थं चेतसि व्यवस्थाप्य पश्चात्सूत्रस्य भावादनु पश्चाद्भाविना सूत्रेणार्थस्य योगोऽनुयोग इति निरुक्तिरनुयोगस्य । 20 ननु सूत्रस्य कथमणुत्वं पश्चाद्भावित्वश्च तथार्थस्य महत्त्वम् , न हि बहुवत्राद्याधारभूता पेटिका तदपेक्षयाऽणुभूता भवितुमर्हति, न वा सूत्राभावेऽर्थस्य प्रकाशः, लोकेऽपि प्रथमं सूत्रं ततो वृत्तिस्ततो वार्तिकं वा भाष्यं वेति क्रमो दृश्यते, न चार्थो महान् एकस्यैवाऽर्थस्य कचिद्बहुभिस्सूत्रैवर्णनादिति चेन्न, पेटिकान्तर्गतैकवस्त्रादेवानेकासां पेटिकानां बन्धदर्शनेन पेटिकास्थानीयस्य सूत्रस्य वस्त्रस्थानीयादादणुत्वात् , अर्हद्भाषितस्यैवार्थस्य गणधरैस्सूत्रणात्सूत्रस्य पश्चाद्भावित्वम् , लौकिका अपि हि शास्तारः 25 प्रथमतोऽर्थं दृष्ट्वा सूत्रं कुर्वन्ति, अर्थ विना सूत्रस्यानिष्पत्तेः । सकलस्यापि श्रुतस्येत्यनेन विषयद्वारोऽप्युक्त एब । व्याख्यानार्थकेनानुयोगशब्देनार्थभाषणरूपस्य पर्यायशब्दस्य लाभोऽवसेयः । व्याख्यायामत्यन्तोपयोगित्वेन च द्वारस्य तद्धटितमेव सूत्रमादृतम् । तत्रापि यथा यकृतद्वारं कृतैकादिद्वारं वा नगरमनधिगमनीयं दुरधिगमञ्च भवति निर्गमप्रवेशादावसुकरत्वात् , चतुरं तु सुखाधिगम कार्याविनाशकश्च सम्पद्यते तथैवार्थाधिगमोपायद्वारशून्यमशक्याधिगम प्रकृतविषयं स्यात्, एकादिद्वारानुगतमपि दुरधि- 30 गमं भवेत् सपरिकरचतुर्दारानुगतन्तु सुखाधिगम भवतीति द्वारचतुष्टयघटितमेव लक्षणं स्वीकृतम् ।