________________
मुक्ता]
अनुयोगलक्षणां । दिभिर्नाश एव सम्पाद्यते तदा वस्तुनाशविषयस्सचित्तद्रव्योपक्रमः । अश्वादिचतुष्पदानां शिक्षागुणविशेषकरणं परिकर्मविषयः, खड्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशविषयः सचित्तद्रव्योपक्रमः । वृक्षादीनामपदानां वृक्षायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनं तत्फलानाञ्च गर्त्तप्रक्षेपकोद्रवपलालस्थगनादिनाऽऽश्वेव पाकादिकरणं परिकर्मविषयः शस्त्रादिभिश्च मूलत एव विनाशनं वस्तुनाशविषयस्सचित्तद्रव्योपक्रमः। खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं सर्वथा विनाशकरणञ्चा- 5 चित्तद्रव्योपक्रमः । अश्वादीनां कुङ्कुमादिभिर्मण्डितानां स्थासकादिभिर्विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्गादिभिर्विनाशकरणं वा स मिश्रद्रव्योपक्रमः, अश्वादीनां सचेतनत्वात्स्थासकादीनाम- . चेतनत्वाच्च । हलकुलिशादिभिः क्षेत्राणि यद्वीजवपनादियोग्यतामानीयन्ते स परिकर्मविषयः क्षेत्रोपक्रमः तान्येव यदा विनाश्यन्ते स वस्तुनाशविषयः क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु हि क्षेत्रेषु बीजानामप्ररोहणाद्विनष्टानि क्षेत्राणीति व्यपदिश्यन्ते, न चायं द्रव्योपक्रम एव क्षेत्रादिगतपृथिव्यादिद्रव्याणामेव 10 परिकर्मविनाशकरणादिति वाच्यम् , क्षेत्रस्याकाशरूपत्वेनामूर्त्तत्वात्तस्य मुख्यतयोपक्रमासम्भवेन तदाधेयद्रव्योपक्रमस्यैव तत्रोपचारात्, मश्चाः क्रोशन्तीत्यादावाधेयधर्मोपचारस्य मञ्चाद्याधारे दर्शनात् । ताम्रादिमयघटिकया शङ्कुच्छायादिना नक्षत्रचारादिना वा एतावत्पौरुष्यादिकालोऽतिक्रान्त इति यत्परिज्ञानं स परिकर्मविषयः कालोपक्रमः, यथावत्तत्परिज्ञानस्यैवात्र परिकर्मरूपत्वात् । यच्च नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशविषयः कालोपक्रमः, अनेन ग्रहनक्षत्रादिचारेण कालो विनाशितो 15 न भविष्यन्यधुना धान्यादिसम्पत्तय इति व्यवहारात् । आगमतो नोआगमतश्च भावोपक्रमो द्विविधः, उपक्रमशब्दार्थज्ञस्तत्रोपयुक्तश्चागमतो भावोपक्रमः । प्रशस्ताप्रशस्तभेदेन नोआगमतो भावोपक्रमः, अत्र परकीयाभिप्रायस्य यथावत् परिज्ञानं भावोपक्रमः । ब्राह्मण्या वेश्ययाऽमात्येन च यत्परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तभावोपक्रमस्संसारफलत्वात् । श्रुतादिनिमित्तं गुर्वादीनां यद्भावोपक्रमणं स प्रशस्तभावोपक्रमः, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात् , तेन व्याख्याने यदेवो-20 पकारि तदेव वक्तव्यम्, गुरुभावोपक्रमस्त्वप्रस्तुतो व्याख्यानानुपकारित्वादिति शङ्का व्युदस्ता ॥ ९॥
अथ शास्त्रीयोपक्रमभेदानाह
आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदतष्षड्विधः शास्त्रीयः॥ १०॥
आनुपूर्वीति, पूर्वस्यानु पश्चादनुपूर्व तस्य भावेऽर्थे ष्यन्तेनानुपूर्व्यशब्देन षित्वात्स्त्रीत्वे डीषि 25 कृते आनुपूर्वीति निष्पत्तिः ज्यादिवस्तुसमूहः, आनुपूर्वी अनुक्रमः अनुपरिपाटीति पर्यायाः । जीवगतनामादिपर्यायाजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तु भेदेन नमति तदभिधायकतया प्रवर्तत इति नाम वस्त्वभिधानमित्यर्थः । धान्यद्रव्यादि प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणं, अमृतिप्रसृत्यादि, अथवा इदश्चेदश्च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत्प्रमाणं अध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, यो यस्य सामायिकाद्यध्ययनस्या-30 त्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारः । वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनं समवतार इत्येवं शास्त्रीयोपक्रमः षट्प्रकार इत्यर्थः ॥ १०॥ "पक्षकार त्वया ॥ १० ॥ ..................... .. ............
सू.मु.२