SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ मुक्ता] समवायाजमुक्तासरिका। शतानि त्रिंशदधिकानि, युगस्यापि सम्बन्धिनस्त्रिंशदधिकाष्टादशशतप्रमाणान्यहोरात्राणि सप्तषष्ट्या गुण्यन्ते, जात एको लक्षो विंशतिसहस्राणि षट् शतानि दशोत्तराणि, एतेषामष्टादशशतैस्त्रिंशदधिकश्चन्द्रमाससत्कषष्टिभागरूपैर्भागो ह्रियते, लब्धाः सप्तषष्टिमासाः ॥ ५९॥ नक्षत्रमासानां समयक्षेत्रभावित्वात्समयक्षेत्रविशेषस्य धातकीखण्डस्य वक्तव्यतामाह धातकीखण्डेऽष्टषष्टिश्चक्रवर्तिविजया राजधान्य उत्कर्षणार्हन्तश्चक्रवर्तिबलदेववासुदेवाश्च ॥ ६०॥ धातकीखण्ड इति, यद्यपि चक्रवर्तिनां वासुदेवानां नैकदाऽष्टषष्टिः सम्भवति, जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुण्णां चतुर्णा तीर्थकरादीनामवश्यम्भावस्य स्थानाङ्गादावभिहितत्वात्, न चैकक्षेत्रे चक्रवर्ती वासुदेवश्चैकदा भवतो यतः अष्टषष्टिरेवोत्कर्षतश्चक्रवर्त्तिनां वासुदेवानां चाष्टषष्ट्यां विजयेषु भवति तथापी हैकसमयाविवक्षणात् कालभेदभाविनां चक्रवर्त्यादीनां विजयभेदेनाष्टषष्टिर-10 विरुद्धेति ॥ ६०॥ समयक्षेत्रविशेषवक्तव्यतानन्तरं तत्सामान्याश्रयेण वर्षादीनाहवर्षाणि वर्षधराश्च मेरुवर्जा एकोनसप्ततिः समयक्षेत्रे ॥६१॥ वर्षाणीति, भरतहैमवतहरिवासमहाविदेहरम्यकहैरण्यवतैरवतानि क्षेत्राणि सप्त, तत्राद्यानि त्रीणि मेरोर्दक्षिणेन, अन्त्यानि त्रीणि तस्योत्तरेण महाविदेहश्च मेरोः पूर्वेण पश्चिमेन च, वर्ष क्षेत्रविशेषं 15 धारयंते-व्यवस्थाप्यंत इति वर्षधराः, ते च हिमवान् महाहिमवान् नीलवान् रुक्मी रूप्यः शिखरी मन्दरश्चेति सप्त, आद्यालयो मेरोदक्षिणेन ततस्त्रयः तस्योत्तरेण मेरुमध्ये, इत्येकमेपेक्षया वर्षाणि वर्षधरपर्वताश्च त्रयोदश, मेरुवर्जनात्, समयक्षेत्रे पञ्च मन्दरा इति तदपेक्षया पञ्चषष्टिर्वषोणि वर्षधराश्च, चत्वार एवेषुकाराः, सर्वसंख्यया चैकोनसप्ततिरिति ॥ ६१ ॥ समयक्षेत्र एव कर्मणामुत्कर्षस्थितिलाभात्सर्वकर्ममूलभूतमोहनीयस्थितिमाह मोहनीयकर्मणोऽबाधोनिकास्थितिः कर्मनिषेकः सप्ततिसागरोपमकोटीकोव्यः ॥ २॥ मोहनीयकर्मण इति, शुभाशुभान्यतराध्यवसायी जीवो हि पुण्यपापात्मकस्य कर्मणो योग्य नातिबादरं नातिसूक्ष्मं न वा स्वावगाढप्रदेशेभ्यो भिन्नप्रदेशावगाढं कर्मवर्गणागतं द्रव्यं तैलादिकृताभ्यङ्गः पुरुषो रेणुमिव रागद्वेषक्छिन्नस्वरूपो रुचकवर्जे सर्वात्मप्रदेशैर्गृह्णाति, शुभाशुभादिविशेषणाविशिष्ट-25 मेव तद्गृहन् तत्क्षणमेव शुभमशुभं वा कुरुते, परिणामाश्रयकर्मणां तथाविधस्वभावत्वात् , जीवस्य हि शुभोऽशुभो वा परिणामस्तथाविधोऽस्ति यद्वशात् ग्रहणसमय एव कर्मणां शुभत्वमशुभत्वं जनयति, जीवस्यापि कर्माश्रयभूतस्य स कोऽपि स्वभावोऽस्ति येन शुभाशुभत्वेन परिणमयन्नैव कर्म गृहाति, तथा कर्मणोऽपि स स्वभावः कश्चिद्वर्त्तते येन शुभाशुभपरिणामान्वितेन जीवेन गृह्यमाणमेवैतद्रूपेण परिणमति, तथा प्रकृतिस्थित्यनुभागवैचित्र्यं प्रदेशानामल्पबहुभागवैचित्र्यश्च कर्मणो ग्रहणसमय एव करोति 30 तत्राध्यवसायविशेषगृहीतस्य कर्मदलिकस्य यस्थितिकालनियमनं स स्थितिबन्धः, स्थितिश्च द्विविधा 20
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy