SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सूत्राथमुक्तावल्याम् [पञ्चमी अष्टेति, अष्टावष्टमानि दिनानि यस्यां साऽष्टाष्टमिका, यस्यां ह्यष्टौ दिनाष्टकानि भवन्ति, प्रतिमा-भिक्षुणामभिग्रहविशेषः, अष्टौ अष्टकानि यतोऽसौ भवति अतश्चतुष्षष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽष्टके प्रति दिनमेकैका भिक्षा द्वितीये द्वे द्वे यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणामष्टाशीत्यधिके भवतः ॥५६॥ 6 प्रतिमावाहका अवश्यं वैमानिका भवन्तीति तद्वक्तव्यतामाह सौधर्मावतंसकस्य प्रतिदिशं पञ्चषष्टिभौमानि ॥ ५७ ॥ सौधर्मेति, सौधर्मः शक्रेन्द्रपालितः प्रथमदेवलोकः, तस्य मध्यभागवर्ति शक्रनिवासभूतं विमानं सौधर्मावतंसकम् , अत्र हि कल्पे चतुर्दिक्षु चत्वारि विमानानि मध्ये च पञ्चमं सौधर्मावतंसकम् तस्मादेकैकस्यां दिशि प्रकराभ्यर्णवर्तीनि नगराकाराणि भौमानि पञ्चषष्टिर्भवन्ति ॥ ५७ ॥ 10 वैमानिकेषु सूर्यचंद्रप्रकाशाभावात्प्रकाश्यक्षेत्रं तत्संख्याश्चाह षट्षष्टिश्चन्द्राः सूर्याश्च मानुषक्षेत्रस्य दक्षिणार्धमुत्तरार्धश्च प्रभासयन्ति ॥ ५८॥ षट्षष्टिरिति, जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्धरूपा द्वीपा द्वौ च लवणोदधिकालोदधिरूपौ समुद्रौ मानुषं क्षेत्रं तत्रैव मनुष्याणामुत्पत्तेर्मरणाच्च, अत्रैव सुषमसुषमादयः कालविभागाः, 15 मानुषक्षेत्रात् परतस्तु सर्वमपि देवारण्यं देवानां क्रीडास्थानम् , न तत्र जन्मतो मनुष्या नापि कोऽपि तत्र कालविभागः, मानुषक्षेत्रे चन्द्रसूर्यग्रहनक्षत्रतारागणा विचरणशीलाः शेषेषु द्वीपसमुद्रेषु ज्योतिश्चक्रं सदाऽवस्थानशीलम् । तथा च द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदधिसमुद्रे द्विसप्ततिश्च पुष्कराधे, सर्वे चैते द्वात्रिंशदधिकं शतम् , एतदर्धश्च षट् षष्टिदक्षिणपंक्तौ षट्षष्टिश्चोत्तरपंक्तौ स्थिताः, एवं सूर्या अपि, एवश्वेहलोके मानुषे चन्द्रसूर्याणां चतस्रः 20 पंक्तयः, द्वे पंक्ती चन्द्राणां द्वे च सूर्याणाम् , एकैका च पंक्तिः षट्षष्टिः, एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्तते एक उत्तरभागे, एकश्चन्द्रमा मेरोरुत्तरभागे, एकोऽपरभागे, तत्र यो मेरोदक्षिणभागे सूर्यश्चारं चरन् वर्त्तते तदा तत्समश्रेणिव्यवस्थितौ द्वौ दक्षिणभागे सूर्यों लवण. समुद्रे षड् धातकीखण्डे एकविंशतिः कालोदे षट्त्रिंशदभ्यन्तरपुष्कराधे, अस्यां सूर्यपंक्तौ षट्षष्टिः सूर्या जाताः, उत्तरभागेऽपि तथा, चन्द्रा अपि पूर्वभागेऽपरभागे च तथा । एते सूर्याश्चन्द्राश्चानवस्थि25 तमण्डला यथायोगमन्यस्मिन्नन्यस्मिन् मण्डले सञ्चरन्तः प्रदक्षिणावर्त्तमण्डला मेरुं लक्षीकृत्य परिभ्रमन्ति, तेषां प्रदक्षिणावर्तगतेः प्रत्यक्षत एवोपलभ्यमानत्वात् ॥ ५८॥ नक्षत्राणां चन्द्रस्वामित्वात्तदाश्रयेण मासभेदमाह नक्षत्रमासेन मीयमानस्य युगस्य सप्तषष्टिनक्षत्रमासाः ॥ ५९॥ नक्षत्रमासेनेति, येन कालेन चन्द्रो नक्षत्रमण्डलं भुक्ते स नक्षत्रमासः, स च सप्तविंशति30 रहोरात्राणि एकविंशतिश्चाहोरात्रस्य सप्तषष्टिभागाः । सप्तषष्टिभागकरणार्थ ते सप्तषठ्या गुण्यन्ते, जाताम्यष्टादशशतानि नबोत्तराणि, तत उपरितना एकविंशतिः सप्तषष्टिभागास्तत्र प्रक्षिप्यन्ते, जाताम्यष्टादश
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy