________________
मुक्ता ]
समवायमुक्तासरिका ।
चतुर्विंशतितीर्थकराः द्वादशचक्रवर्त्तिनो नव वासुदेवा नव बलदेवाश्चेति मिलित्वा चतुःपञ्चाशद्भवन्ति, एवमवसर्पिण्यामपि । उमा भोगा राजन्याश्च मध्यमपुरुषाः, दासा भृतका भागवन्तश्चेति जघन्य - पुरुषाः इति ॥ ४६ ॥
२९५
उत्तमेष्वपि वासुदेवा नरकमेव यान्तीति तदावासानाह
प्रथम द्वितीय पृथिव्योः ः पञ्चपञ्चाशन्नरकावासशतसहस्राणि ॥ ४७ ॥
5
प्रथमेति, प्रथमायां पृथिव्यां त्रिंशन्नरकलक्षाणि पूर्वं व्यावर्णितान्येव, शर्कराप्रभायां द्वितीय पृथिव्यामेकादश प्रस्तटाः, नरकपटलानि अधोऽधो द्वन्द्वहीनानीति वचनात्, तत्र प्रथमे प्रस्तरे चतसृषु दिक्षु षट्त्रिंशदावलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशत्, मध्ये चैको नरकेन्द्रकः, सर्वसंख्यया द्वे शते पञ्चाशीत्यधिके, शेषेषु दशसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानिः प्रतिदिक् एकैकनरकावासहानेः, ततस्तत्र सर्वसंख्ययाऽऽवलिकाप्रविष्टा नरकावासाः षड्विंश तानि पञ्चनवत्यधिकानि, 10 शेषाश्चतुर्विंशतिलक्षाः सप्तनवतिसहस्राणि त्रीणि शतानि पश्चोत्तराणि पुष्पावकीर्णकाः । उभयमीलने पञ्चविंशतिलक्षाणि नरकावासानामिति पृथिवीद्वय संख्या योजनेन पञ्चपञ्चाशन्नरकावासशतसहस्राणि भवन्तीति ॥ ४७ ॥
नारकिणोऽपि बहिरागत्य कृतधर्माणो यान्ति चंद्रादिष्विति तद्वक्तव्यतामाह -
जम्बूद्वीपे षट्पञ्चाशन्नक्षत्राणि चन्द्रयुक्तानि ॥ ४८ ॥
"
जम्बूद्वीप इति, समयक्षेत्रबहिर्वर्त्य संख्येयजम्बूद्वीपव्यावृते धातकीखण्डादिसर्वद्वीपानां लवणोदादिसर्वसमुद्राणां सर्वात्मनाऽभ्यन्तरे सकलतिर्यग्लोकमध्यवर्त्तिनि सर्वद्वीपेभ्यः क्षुल्लके योजनलक्षप्रमाणे पुष्करकर्णिकासंस्थानसंस्थितेऽस्मिन् जम्बूद्वीपे द्वौ चन्द्रौ प्रभासेते, सूर्याक्रान्ताभ्यामन्यत्र शेष यो दिशश्चन्द्राभ्यां प्रकाश्यमानत्वात् एकैकस्य च चन्द्रस्याष्टाविंशतिनक्षत्र परिवारभावात्, तानि नक्षत्राणि स्वयं नियतमण्डलचा रित्वेऽनियतानेकमण्डलचारिणा निजमण्डल क्षेत्रमागतेन चन्द्रेण सह 20 प्राप्तवन्ति प्राप्नुवन्ति प्राप्स्यन्ति च ततश्च चन्द्रद्वयापेक्षया षट्पञ्चाशन्नक्षत्राणि योगकर्तृणीति ॥ ४८ ॥ चन्द्रादीनां वक्तव्यतागणिपिट्टकेस्तीति तद्विशेषमाह - गणिपिटकानामाचारचूलिकावर्जानि सप्तपञ्चाशदध्ययनानि आचारसूत्रकृतस्थानाङ्गानाम् ॥ ४९ ॥
गणीति, गणः गच्छ गुणगणो वाऽस्यास्तीति गणी आचार्य:, तस्य पिटकमिव पिटकानि 25 सर्वस्वभाजनानि, अथवा गणिनामर्थपरिच्छेदानां पिटकमेव पिटकानि स्थानानि तेषामाचारसूत्रकृतस्थानाङ्गानामध्ययनानि, आचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि द्वितीये षोडश, निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात् । सूत्रकृते द्वितीयाङ्गे प्रथमश्रुतस्कन्धे षोडश द्वितीये सप्त स्थानाङ्गे दश, परन्तु आचारस्य प्रथमाङ्गस्य चूलिका सर्वान्तिममध्ययनं विमुक्त्यभिधानं तद्वर्जनात् सप्तपञ्चाशदध्ययमामि भवन्ति ॥ ४९ ॥
15
30