SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९६ सूत्रार्थमुक्तावल्याम् [पञ्चमी आचाराङ्गादीनां निवादिकर्तुर्नरकगतिप्रायोग्यकर्मबन्धानरकावासतबंधकर्माण्याह प्रथमद्वितीयपञ्चमपृथिवीषु निरयावासा अष्टपञ्चाशत् शतसहस्राणि ज्ञानावरणवेदनीयायुर्नामान्तरायाणाश्चाष्टपञ्चाशदुत्तरप्रकृतिकत्वम् ॥ ५० ॥ प्रथमेति, प्रथमायां त्रिंशल्लक्षाणि द्वितीयायां पञ्चविंशतिः पञ्चम्यास्त्रीणीति सर्वाण्यष्टपञ्चाश5 लक्षाणि । ज्ञानावरणस्य पश्च वेदनीयस्य द्वे आयुषश्चतस्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः ॥ ५० ॥ कर्मणां स्थितिनियतत्वेन स्थितेश्च कालनियंत्रिततया तद्विशेषमाह चन्द्रवर्षस्य प्रत्येकमृतव एकोनषष्टिरात्रिंदिवमानाः ॥ ५१॥ चन्द्रवर्षस्येति, नक्षत्रचन्द्रादित्याभिवर्द्धितसंवत्सरेषु यश्चन्द्रसंवत्सरः चन्द्रगतिमङ्गीकृत्य 10 भवति तत्र द्वादशमासाः षड् ऋतवो भवन्ति, तत्र कृष्णप्रतिपदमारभ्य पौर्णमासीपरिसमाप्तिं यावत्ता वकालप्रमाणश्चान्द्रो मासः, स च मास एकोनत्रिंशद्रात्रिंदिवानि द्वात्रिंशच्च षष्टिभागा, अहोरात्रस्येत्येवं प्रमाणः, द्वाभ्यां ताभ्याञ्च मासाभ्यामृतुर्भवति तत एकोनषष्टिरहोरात्राण्यसौ भवति, यच्चेह द्विषष्टिभागद्वयमधिकं तन्न विवक्षितम् ॥ ५१॥ सूर्यगतिपरिमाणविशेषादपि ऋतूनां भावात्सूर्याश्रयेण गतिविशेषमाह15 उदिते स्थाने षष्टिमुहर्तेरुदेति सविता पुनः ॥ ५२॥ उदित इति, स्थानं चारभूमिर्मण्डलम् , तानि मण्डलानि सर्वसंख्यया चतुरशीत्यधिकमण्डलशतम् , जम्बूद्वीपे पञ्चषष्टिः लवणे समुद्रे एकोनविंशत्यधिकं शतम् , एकैकस्य मण्डलस्य विष्कम्भोऽष्टचत्वारिंशदेकषष्टिभागा योजनस्य, मण्डलत्वञ्चैषां मण्डलसदृशत्वात् , न तु तात्त्विकम् , मण्डलप्रथमक्षणे यद्याप्तं क्षेत्रं तत्समश्रेण्येव यदि पुरः क्षेत्रं व्याप्नुयात् तदा तात्त्विकी मण्डलता स्यात् , तथा च सति 20 पूर्वमण्डलादुत्तरमण्डलस्य योजनद्वयमन्तरं न स्यात् , सूर्यमण्डलक्षेत्रश्च चक्रवालविष्कम्भतोऽवसेयम् , तत्र सूर्यः सर्वाभ्यन्तरं सर्वबाह्यश्च सकृदेव संक्रामति शेषाणि तु द्वौ वारान्, सूर्यः पञ्चपञ्चयोजनसहस्राणि द्वे चैकपश्चाशे योजनशते एकोनविंशतञ्च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, सर्वमपि हि मण्डलमेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते, प्रतिसूर्यश्चाहोरात्रगणने परमार्थतो द्वावहो रात्रौ भवतः, द्वयोश्चाहोरात्रयोः षष्टि मुहूर्ताः, ततो मण्डलपरिरयस्य षष्ट्या भागे हृते यल्लभ्यते तन्मुहूर्त25 गतिप्रमाणम् , सर्वाभ्यन्तरमण्डलपरिरयः त्रीणि लक्षाणि पञ्चदशसहस्राणि एकोननवत्यधिकानि योजना नामिति । अस्मिन् सर्वाभ्यन्तरे मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणः, भरतक्षेत्रगतानाश्च मनुष्याणां सप्तचत्वारिंशता योजनसहरैवीभ्यां त्रिषष्ट्यधिकाभ्यां योजनशताभ्यां एकविंशत्या च षष्टिभागैर्योजनस्य सर्वाभ्यन्तरमण्डलचारचरणकाले सूर्य उदयमानः चक्षुर्गोचरमायाति ॥ ५२ ॥ ___ कालविशेषमाश्रित्यैवाह80 ऋतुमासेन युगस्यैकषष्टिः ऋतुमासाः ॥ ५३॥ - ऋतुमासेनेति, ऋतुर्हि लोकलच्या षष्ट्यहोरात्रप्रमाणो द्विमासात्मकस्तस्यार्द्ध मासोऽपि ऋतुर
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy