________________
२९४ सूत्रार्थमुक्तावल्याम्
[पञ्चमी सथा
ज्ञानावरणनामान्तरायाणाञ्च द्विपञ्चाशत्प्रकृतिकत्वम् ॥४४॥
ज्ञानेति, विशेषार्थविषयं ज्ञानमावृणोतीति ज्ञानावरणं देशसर्वज्ञानावरणरूपं मतिज्ञानावरणादिपञ्चविधम् , नाम द्विचत्वारिंशद्विधम् , अन्तरा-दातृप्रतिग्राहकयोरन्तर्भाण्डागारिकवद्विघ्नहेतुतया अयते 5 गच्छतीत्यन्तरायम् प्रत्युत्पन्नविनाशि आगामिलब्धव्यपथप्रतिरोधकञ्च दानान्तरायादि पञ्चविधमिति सर्वमेलने द्विपञ्चाशद्भवन्तीति ॥ ४४ ॥
क्लिष्टकर्मणामुदयात्सम्मूछिमा भवन्तीति तद्विशेषमाह
सम्मूछिमोरःपरिसर्पाणां त्रिपश्चाशद्वर्षसहस्राणि स्थितिः॥४५॥
सम्मूछिमेति, संमूर्छनं संमूर्छा तया निर्वृत्ताः सम्मूछिमाः, तथाविधकर्मोदयात् गर्भ10 मन्तरेणैव ये उत्पद्यन्ते ते संमूछिमाः, प्रसिद्धबीजाभावेन पृथिव्यां वर्षोद्भवास्तथाविधतृणादयः, न
चैते न सम्भवंति, दग्धभूमौ बीजासत्त्वेऽपि तेषां सम्भवात् , तथा पद्मिनीशृङ्गाटकपाढाशैवलादिवनस्पतयः, शलभपिपीलिकामक्षिकाऽऽशालिकादयश्च, उरसा-वक्षसा ये परिसर्पन्ति सञ्चरन्ति ते उरःपरिसर्पा उरगादयः, सम्मूछिमाश्च ते उरःपरिसाश्च तेषां त्रिपश्चाशद्वर्षसहस्राणि स्थितिरुत्कर्षतः,
जघन्येन त्वन्तर्मुहूर्त्तम् , इयञ्च स्थितिः तादृशां पर्याप्तकानाम् , अपर्याप्तकानान्तु तेषां जघन्येनोत्कर्षण 15 चान्तर्मुहूर्तम् , एवं सम्मूछिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकानामपि तावत्येव स्थितिः ॥ ४५ ॥
सम्मूछिमा अधमास्तद्विपर्ययेणोत्तमानाह
भरतैरवतयोः प्रत्येकमुत्सर्पिण्यां चतुःपञ्चाशदुत्तमपुरुषा एवमवसपिण्यामपि ॥ ४६॥
भरतेति । जम्बूद्वीपगतभरतैरवतहैमवतहैरण्यवतहरिरम्यकमहाविदेहलक्षणसप्तवर्षघटके भर20 तवर्षे ऐरवतवर्षे चेत्यर्थः, उत्सर्पन्ति वर्धयन्त्यरकापेक्षया भावानित्युत्सर्पिणी शुभभाववर्धकोऽशुभ
भावहानिकारको दशसागरोपमकोटीकोटिपरिमाणः कालविशेषः, एवमवसर्पयति भावानित्यवसर्पिणी तावन्मानैव, अत्रापि समस्ताः शुभा भावाः क्रमेणानन्तगुणतया हीयन्ते, अशुभा भावाश्च क्रमेणानन्तगुणतया परिवर्द्धन्ते, उत्तमाश्च ते पुरुषाश्चोत्तमपुरुषाः, पूः शरीरं तत्र शयनान्निवसनात् पुरुषः, तत्र
नामपुरुषः, पुरुष इति नामैव, स्थापनापुरुषः प्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो 25 वा, उभयव्यतिरिक्तश्च मूलगुणनिर्मितः-पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितः तदाकारवन्ति तान्येव । एवममिलापपुरुषः-यथा पुरुष इति, पुल्लिंगवृत्त्यभिधामात्रं वा, यथा घटः पट इत्यादि । चिह्नपुरुषः-पुरुषाकृतिर्नपुंसकात्माश्मश्रुप्रभृतिपुरुषचिह्नयुक्तः । वेदपुरुषः-पुरुषवेदानुभवनप्रधानः स च स्त्रीपुंनपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति । एवमुत्तमपुरुषो मध्यमपुरुषो जघन्यपुरुषश्च, तत्रोत्तमपुरुषो धर्मपुरुषो भोगपुरुषः कर्मपुरुषश्चेति त्रिविधः, धर्मः क्षायिकचारित्रादिस्तदर्जनपरः 30 पुरुषो धर्मपुरुषः अर्हदादिः, भोगा मनोज्ञशब्दादयस्तत्परो भोगपुरुषः चक्रवर्त्यादिः, कर्माणि महार
म्भादिसम्पाद्यानि नरकायुष्कादीनि तत्परः कर्मपुरुषो वासुदेवादिः, एते उत्तमपुरुषाः प्रत्येकमुत्सर्पिण्यां