SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मुक्ता] समवायमुक्तासरिका। २९३ यमेषु व्यवस्थितत्वं तत्प्रवृत्तिनिमित्तम् , तेन भिक्षमाणेऽभिक्षमाणे वा भिक्षौ भिक्षुशब्दः प्रवर्तते, उभय्यामप्यवस्थायां प्रवृत्तिनिमित्तसद्भावात् , अन्यत्र च गृहस्थादौ न प्रवर्त्तते, नवकोट्यपरिशुद्धाहारभोजितया तेषु यथोक्तस्य प्रवृत्तिनिमित्तस्याभावात्, नहि गमनक्रियामात्राद्गौः, किन्तु गमनेनैकार्थसमवायितया यदुपलक्षितं सानादिमत्त्वं तद्योगादेवेति । तेषां प्रतिमा-अभिग्रहविशेषः, सप्त सप्तकदिनानि यस्यां सा सप्तसप्तकिका, सप्तसु सप्तकेषु सप्त सप्त दिनानि भवन्तीति सा एकोनपश्चाशता दिनैर्भवति, 5 तत्र प्रथमे सप्तके प्रतिदिवसमेकैकां भिक्षां गृह्णाति, द्वितीये सप्तके प्रतिदिवसे द्वे द्वे भिक्षे, तृतीये सप्तके प्रतिदिवसं तिस्रस्तिस्रः, चतुर्थे चतस्रश्चतस्रः, पञ्चमे पञ्च पञ्च, षष्ठे षट् षट् , सप्तमे सप्त सप्तेति सप्तसप्तकिकायां भिक्षापरिमाणं षण्णवतं शतम् ॥४१॥ प्रतिमावहनेनोन्नताचारदेहवन्तो भवन्तीति तथाविधानाह मुनिसुव्रतस्य पञ्चाशदार्यिकासहस्राणि, अनन्तजिनः पुरुषोत्तमश्च 10 पञ्चाशद्धनुर्देहमानः॥४२॥ मुनिसुव्रतस्येति, मनुते जगतस्त्रिकालावस्थामिति मुनि जीवाजीवलक्षणं लोकं यथार्थोपयोगेन द्रव्यास्तिकपर्यायास्तिकस्वभावगुणपर्यायैर्निमित्तोपादानकारणकार्यभावोत्सर्गापवादपद्धत्या जानाति मुनिः, ( नाममुनिः स्थापनामुनिः सुगमः, द्रव्यमुनिः ज्ञशरीरभव्यशरीरतहयतिरिक्तभेदात्रिविधोऽनुपयुक्तः लिङ्गमात्रद्रव्यक्रियावृत्तिसाध्योपयोगशून्यस्य प्रवर्तनविकल्पादिषु कषायनिवृत्तस्य परि- 15 णतिचक्रेऽसंयमपरिणतस्य द्रव्यमुनित्वम् । भावमुनिः चारित्रमोहनीयक्षयोपशमक्षायिकोत्पन्नस्वरूपरमणपरभावनिवृत्तः परिणतिविकल्पप्रवृत्तिषु द्वादशकषायोद्रेकमुक्ता, नैगमसङ्ग्रहव्यवहारनयैः द्रव्यक्रियाप्रवृत्तद्रव्यास्रवविरक्तस्य मुनित्वम् , ऋजुसूत्रनयेन भावाभिलाषसंकल्पोपगतस्य, शब्दसमभिरूद्वैवम्भूतनयैः प्रमत्तात् क्षीणं मोहं यावत् परिणती सामान्यविशेषचक्रे स्वतत्त्वैकत्वपरमशमतामृतरतस्य मुनित्वम् ) शोभनानि ब्रतानि यस्य स सुव्रतः, मुनिश्वासौ सुव्रतश्चेति तथा, एवं गर्भस्थेऽस्य जननी 20 मुनिवत्सुव्रता जातेति मुनिसुव्रतः विंशतितमस्तीर्थकरः, अस्य पिता सुमित्रः, माता पद्मा, असौ नवमे भवे जिनो जातः, अस्य श्रमणाः त्रिंशत्सहस्राणि, आर्यिकाः पञ्चाशत्सहस्राणि, त्रिंशद्वर्षसहस्राणि सर्वायुः विंशतिधनुर्देहमानश्चेति । अनन्तकर्मांशजयात् अनन्तानि वा ज्ञानादीन्यस्येत्यनन्तः अस्य जनन्या रत्नविचित्रमतिप्रमाणं दामस्वप्ने दृष्टमतोऽनन्तः, चतुर्दशस्तीर्थकरः, अस्य पिताऽयोध्यालङ्कारः सिंहसेनः, माता सुयशाः, त्रिंशद्वर्षलक्षाणि सर्वायुः, षट्षष्टिसहस्राणि श्रमणाः, लक्षमेकमष्टौशतान्या- 25 र्यिकाः, पश्चाशद्धनुर्देहमानश्च । पुरुषोत्तमोऽयं चतुर्थों वासुदेवः, वासुदेवाश्चावसर्पिण्यां नव भवन्ति, अनन्तजिनकालभावी पुरुषोत्तमो वासुदेवः पश्चाशद्धनुर्देहमान इति ॥ ४२ ॥ एते कर्मणां क्षयं करिष्यन्तीति तान्याह दर्शनावरणनामकर्मणोरेकपञ्चाशत्प्रकृतिकत्वम् ॥ ४३ ॥ दर्शनेति, सामान्यार्थबोधो दर्शनं तदावृणोति यत्तद्दर्शनावरणीयम् , तञ्च चक्षुर्दर्शनावरणीयादिभेदेन 30 नवविधम् , नामकर्मापि द्विचत्वारिंशदिति मिलित्वोभयकर्मणी एकपश्चाशदुत्तरप्रकृतिके भावतः ॥४३॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy