SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] समवायमुक्तासरिका । २७९ र्थज्ञापकत्वाद् ज्ञातम्, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथायथञ्च ज्ञातत्वं प्रत्यध्ययनं तदर्थावगमादवसेयम् । अण्डकं - मयूराण्डम्, कूर्मः कच्छपः, शैलको राजर्षिः, तुम्बालाबु, रोहिणी श्रेष्ठिवधूः, मल्ली एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी, माकन्दीनाम वणिक्, तत्पुत्रौ माकन्दीशब्देनेह गृहीतौ चन्द्रमा इति च, दावद्रवः समुद्रतटे वृक्षविशेषः, उदकं नगरपरिखाजलं, तदेव ज्ञातमुदाहरणमुदकज्ञातम्, मण्डूकः - नन्दनमणिहारिश्रेष्ठिजीवः, तैतलीसुताभिधानोऽमात्य इति, नन्दि - 5 फलं - नन्दिवृक्षाभिधानतरुफलानि, अपरकंका - धातकीखण्डभरतक्षेत्र राजधानी, आकीर्णा जात्याः समुद्रमध्यवर्त्तिनोऽश्वाः, सुंसमा - सुंसमाऽभिधाना श्रेष्ठिदुहिता, अपर पुण्डरीकज्ञातमेकोनविंशतितममिति ॥ १६ ॥ पूर्वोक्ताध्ययनावासितान्त: करणानां न समाधिपरिपाक इति असमाधिस्थानान्याह - द्रुताप्रमार्जितदुष्प्रमार्जितचार्यतिरिक्तशय्यासनिकरात्रिकपरीभाषि - 10 स्थविरभूतोपघातिकसंज्वलनक्रोधनपृष्ठिमांसाशिकावधारयितृनवोत्पादयितृ पुरातनोदीरयित्रकालखाध्यायिसरजस्कपाणिपाद कल हशब्द भेदकरसूरप्रमाभोज्येषणाऽसमिता असमाधिस्थानानि ॥ १७ ॥ द्रुतेति, समाधिश्चेतसः स्वास्थ्यं तदभावोऽसमाधिर्ज्ञानादिभावप्रतिषेधः, अप्रशस्तो भाव इत्यर्थः, तस्याः स्थानानि पदानि, यैर्हि आसेवितैरात्मपरोभयानामिह परत्रोभयत्र वाऽसमाधिरुत्पद्यते 15 तान्यसमाधिस्थानानि, तत्र दुर्गतौ यो हि द्रुतं द्रुतं संयमात्मविराधनानिरपेक्षो व्रजति आत्मानं प्रपतनादिभिरसमाधौ योजयति, अन्यांश्च सत्त्वान् नन्नसमाधौ योजयति सववधजनितेन च कर्मणा परलोकेऽप्यात्मानमसमाधौ योजयति, अतो द्रुतगन्तृत्वसमाकुलतया चलाधिकरणत्वादसमाधिस्थानम्, एवं भुञ्जानो भाषमाणः प्रतिलेखनाञ्च कुर्वन्नात्मविराधनां संयमविराधनाश्च प्राप्नोति, तिष्ठन्, आकुश्चनप्रसारणादिकं वा द्रुतं द्रुतं कुर्वन् पुनः पुनरनवलोकयन्नप्रमार्जयन आत्मविराधना प्राप्नोति, इति द्रुत - 20 चारित्वं प्रथमं स्थानम् । अप्रमार्जितेऽवस्थाननिषीदनत्वग्वर्तनशयनोपकरणनिक्षेपोच्चारादिप्रतिष्ठापनं कुर्वन्नात्मादिविराधनां लभते इत्यप्रमार्जितचारी, एवं दुष्प्रमार्जितचार्यपि । अतिरिक्ता - अतिप्रमाणा शय्या वसतिरासनानि च पीठकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, स चातिरिक्तायां शय्यायां सङ्घशालादिरूपायामन्येऽपि कार्पटिकादय आवसन्तीति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येऽपि वाच्यम् । रात्निकपरीभाषी - आचार्यादिपूज्यगुरुपरिभवकारी, अन्यो 25 वा महान् कश्विज्जातिश्रुतपर्यायाद्वा शिक्षयति तं परिभवत्यवमन्यते जात्यादिभेदस्थानैः एवञ्च गुरुं परिभवन् आज्ञोपतापं वा कुर्वन् आत्मानमन्यांश्चासमाधौ योजयत्येव । स्थविरोपघातिकः - स्थविरा आचार्यादिगुरवः ताना चारदोषेण शीलदोषेणावज्ञादिभिर्वा उपहन्तीत्येवं शीलः । भूतोपघातिकः भूतान्येकेन्द्रियादीन्युपहन्तीत्येवंशीलः, प्रयोजनमन्तरेण ऋद्धिरससातगौरवैर्वा विभूषानिमित्तं वा आधाकर्मादिकं वाऽपुष्टालम्बनेऽपि समाददानः, अन्यद्वा तादृशं किञ्चिद्भाषते वा करोति येन भूतोपघातो 30 भवति । संज्वलनः प्रतिक्षणं रोषणः, स च तेन क्रोधेनात्मीयं चारित्रं सम्यक्त्वं वा हन्ति ज्वलति
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy