SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। २६३ नलक्षणो विस्मृतप्रमेयवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः । परिहरणमासेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य, तदेव दोषः परिहरणदोषः, अथवा सभारूढ्या सेव्यस्य वस्तुनोऽनासेवनं परिहरणं तदेव तस्माद्वा दोषः, यद्वा वादिनोपन्यस्तस्य दूषणस्य सम्यक्परिहारो जात्युत्तरं परिहरणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद्भटवदिति, अत्र मीमांसकः परिहारमाह-ननु घटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा, आद्येऽसिद्धता, 5 हेतोः शब्देऽभावात्, द्वितीये चानित्यत्वेन न तद्व्याप्तमुपलब्धमित्यसाधारणानैकान्तिको हेतुरिति, अयं न सम्यक् परिहारः, सर्वानुमानोच्छेदप्रसङ्गात् , अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मकम् , अन्यथा धूमादनलानुमानमपि न सिद्धयेत् , तथाहि अग्निरत्र धूमात्, यथा महानसे इति, अत्रापि विकल्प्यते किं पर्वतगतो धूमो हेतुरुत महानसगतः, आये नाग्निना धूमस्य व्याप्तिः सिद्धेत्यसाधारणानैकान्तिको हेतुः, द्वितीयेऽसिद्धः पर्वते तस्यावृत्तेरिति, अयं परिहरणदोषः । लक्ष्यते 10 तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणश्च स्खलक्षणं यथा जीवस्योपयोगः, यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वम् । करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धो अनाबाधज्ञानप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता। दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात् , हिनोति गमयतीति हेतुः साध्यसद्भावभावतदभावतदभावाभावलक्षणः, अथवा स्खलक्षणकारणहेतुदोषाणामन्यथा व्याख्यानं 15 कार्य-यथा लक्षणदोषोऽसंभवोऽव्याप्तिरतिव्याप्तिर्वा, तत्र यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत्स्वलक्षणमिति स्खलक्षणस्य लक्षणं तदिन्द्रियप्रत्यक्षमेवाश्रित्य स्यान्न योगिज्ञानं तत्र हि न सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चित्स्वलक्षणं स्यादिति अव्याप्तेरुदाहरणम् , अतिव्याप्तिर्यथा-अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्येन प्रमाणेयत्ता न स्यात्, यद्वा लक्ष्यतेऽनेनेति व्युत्पत्त्या दृष्टान्तो 20 लक्षणं तदोषः साध्यविकलत्वादिः, नित्यः शब्दो मूर्त्तत्वात् , घटवदिति साध्यविकलत्वम् । कारणदोषः साध्यं प्रति तद्व्यभिचारः, यथाऽपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति । हेतुदोषोऽसिद्धविरुद्धानकान्तिकत्वलक्षणः, तत्रासिद्धः, अनित्यः शब्दश्चाक्षुषत्वाद्धटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्धम् , विरुद्धो यथा नित्यश्शब्दः कृतकत्वाटवदित्यत्र घटे कृतकत्वं नित्यत्वविरुद्धमनित्यत्वमेव साधयति, अनैकान्तिको यथा नित्यः शब्दः 25 प्रमेयत्वादाकाशवदित्यत्र प्रमेयत्वमनित्येष्वपि वर्तते, ततः संशय एवेति । संक्रामणं प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः, अथवा प्रतिवादिमते आत्मनः संक्रामणं परमताभ्यनुज्ञानमित्यर्थः, तदेव दोष इति । निग्रहः छलादिना पराजयस्थानं स एव दोष इति । वसतः साध्यधमसाधनधर्मावत्रेति वस्तुप्रकरणात् पक्षः, तस्य दोषः-प्रत्यक्षनिराकृतत्वादिः, यथाऽश्रावणः शब्दः, अत्र शब्देऽश्रावणत्वं प्रत्यक्षनिराकृतमिति ॥ २२९ ॥ एते दोषा अनुयोगगम्याः, अनुयोगश्च वचनतोऽर्थतश्च भवति, तत्र दानलक्षणार्थस्य भेदानामनुयोगमाह 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy