SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६२ सूत्रार्थमुक्तावल्याम् [चतुर्थी न दृष्टमित्यादि, भयाश्रया यथा तस्करादिगृहीतानां तथा तथाऽसमञ्जसाभिधानम्, आख्यायिकाश्रिता-यथा तत्प्रतिबद्धोऽसत्प्रलापः, उपघातः प्राणिवधस्तदाश्रयेण यथा अचौरे चौरोऽयमित्यभ्याख्यानमिति । सत्यासत्ययोगाद्यद्वचनं तदाह-उत्पन्नेति, उत्पन्नविषया मिश्रा यथैकं नगरमधिकृत्य अस्मिन्नद्य दशदारका उत्पन्ना इत्यभिदधतः, तन्यूनाधिकभावे व्यवहारतोऽस्य सत्यमृषात्वात् , श्वस्ते 5 शतं दास्यामीत्यभिधाय पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाभावेन सर्वथा व्यत्ययात् , एवमग्रेऽपि भावनीयम्, विगतविषया यथा एकं ग्राममधिकृत्यास्मिन्नद्य दशवृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रम् । उत्पन्नविगतलक्षणं मिश्रश्च यथैकं पत्तनमधिकृत्यास्मिन्नद्य दशदारका जाताः दश च वृद्धा विगता इत्यभिधतस्तन्न्यूनाधिकभावे । जीवविषयं मित्रं यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवानाश्रित्यमिश्रं यथा तस्मिन्नेव प्रभूतमृत10 कृमिराशावजीवराशिरिति, जीवाजीवविषयं मिश्रं यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैता वन्तो जीवन्त्येतावन्तश्च मृता इत्यभिधतस्तन्यूनाधिकत्वे । अनन्तविषयं मिनं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिधतः । परीतविषयं यथाऽनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिधतः । कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वा वासरे एव रजनी वर्तत इति ब्रवीति । अद्धा दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धाद्धा 15 तद्विषयं मिश्रं यथा कश्चित् कस्मिंश्चित् प्रयोजने प्रहरमात्र एव मध्याह्न इत्याहेति ॥ २२७ ॥ ___ सत्यभाषणं हि सकलप्राणिनां सुखावहमशस्त्ररूपत्वात् शस्त्रमेव हि दुःखावहमिति तन्निरूपयतिअग्निविषलवणस्नेहक्षाराम्लदुष्प्रयुक्तमनोवाक्कायाविरतयःशस्त्राणि॥२२८॥ अग्नीति, शस्यते हिंस्यतेऽनेनेति शस्त्रं हिंसकं वस्तु तच्च द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतो 20 यथा अग्निः-अनलः, स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति पृथिव्याद्यपेक्षया परकायशस्त्रम्। विषं स्थावरजङ्गमभेदं लवणं प्रसिद्धम् , स्नेहस्तैलघृतादिः, क्षारो भस्मादि, अम्लं-काञ्जिकम् , भावस्वरूपन्तु शस्त्रं यथा दुष्प्रयुक्तमकुशलं मनस्तथाविधा वाक् तथाविधं शरीरं, कायस्य हि हिंसाप्रवृत्तौ खड्गादेरुपकरणत्वात्तग्रहणं विज्ञेयम् । अविरतिरप्रत्याख्यानमिति ॥ २२८ ॥ ___ अविरत्यादेर्दोषत्वात्तत्प्रस्तावाहोषविशेषानाह तजातमतिभङ्गप्रशास्तृपरिहरणखलक्षणकारणहेतुसंक्रमणनिग्रहवस्तुदोषा दोषाः ॥ २२९ ॥ तजातेति, एते हि दोषा गुरुशिष्ययोर्वादिप्रतिवादिनोळ वादाश्रया इव लक्ष्यन्ते,तत्र तस्य गुर्वादेर्जातं-जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणं तज्जातं तदेव दूषणमिति कृत्वा दोषस्तज्जातदोषः तथाविधकुलादिना दूषणमित्यर्थः, अथवा प्रतिवाद्यादेः सकाशाजातः क्षोभान्मुखस्तम्भा30 दिलक्षणो दोषस्तज्जातदोषः। निजमतेविनाशः विस्मृत्यादिलक्षणो वा दोषो मतिभङ्गदोषः । प्रशास्ता अनुशासकः मर्यादाकारी सभानायकः सभ्यो वा, तस्माद्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदा
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy