________________
मुक्ता] स्थानमुक्तासरिका।
२२७ संयताधिकारादाह
उद्गमोत्पादनैषणापरिकर्मपरिहरणभेद उपघातः, तथा विशुद्धिः, अर्हतां तद्धर्मस्याचार्योपाध्याययोः संघस्य विपक्कतपोब्रह्मचर्याणामवर्णवादिनः कर्मणो बन्धका वर्णवादिनश्च शुभस्य ॥ १५६ ॥
उद्गमेति, उपघातोऽशुद्धता, तत्रोद्गमोपघात उद्गमदोषैराधाकर्मादिभिः षोडशप्रकारैर्भक्तपानो- 8 पकरणालयानामशुद्धता, उत्पादनया-उत्पादनादोषैः षोडशभिर्धाच्यादिभिरशुद्धता, एषणया-तदोषैः शङ्कितादिभिरशुद्धता परिकर्म-वस्त्रपात्रादेः छेदनसीवनादि तेनाशुद्धता, तद्यथा 'तिसृणामुपरि थिग्गलिकानां वस्त्रे यः थिग्गलिकां तु संसीव्येत् । पञ्चविधानामेकतरस्मिन् स प्राप्नोत्याज्ञादीनि ॥' इत्यादि, परिहरणा-आसेवा उपध्यादेस्तयाऽशुद्धता, यथा-एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयप्रसिद्धिरेव वसत्यादेरपि चिन्त्यम् । एवं विशुद्धयोऽप्युद्गमादिभिर्भक्तादीनां कल्प्य- 10 तारूपा विज्ञेयाः । उपघातविशुद्धिवृत्तयश्च जीवा निर्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्तन्त इति कर्मबन्धनस्थानान्याह अर्हतामिति, अर्हतामवर्णमश्लाघां वदन्तीति अवर्णवादिनः । यथा 'नास्त्यर्हन् जानानो या कथं भोगान् भुनक्ति । प्राभृतिकां वोपजीवतीत्यादि तु जिनानामवर्णः' इत्यादि । उत्तरमत्र न च ते नाभूवन , तत्प्रणीतवचनोपलब्धेः, नापि भोगानुभवनादिर्दोषः, अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात्तस्य । तथा वीतरागत्वेन समवसरणादिषु 15 प्रतिबन्धाभावादिति । तत्प्रज्ञप्तस्य धर्मस्य श्रुतचारित्ररूपस्यावर्णवादी यथा प्राकृतभाषानिबद्धमेतत्तथा किं चारित्रेण दानमेव श्रेय इत्यादि, उत्तरश्चात्र प्राकृतभाषात्वं श्रुतस्य न दोषो बालादीनां सुखाध्येयत्वेनोपकारित्वात् , तथा चारित्रमेव श्रेयः निर्वाणस्यानन्तरहेतुत्वादिति । आचार्योपाध्यायानामवर्ण वदन् , यथा बालोऽयमित्यादि, उत्तरश्च न च बालत्वादिर्दोषः, बुद्ध्यादिभिर्वृद्धत्वादिति । तथा संघस्य श्रमणादिचतुर्वर्णस्यावण वदन्, यथा-कोऽयं संघो यः समवायबलेन पशुसंघ इवामार्गमपि 20 मार्गीकरोतीति प्रतिविधानश्च न चैतत्साधु, तस्य ज्ञानादिगुणसमुदायात्मकत्वात्तेन च मार्गस्यैव मार्गीकरणादिति । तथा विपक्कं सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः, तपश्च ब्रह्मचर्यश्च भवान्तरे येषाम् , विपकं वोदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादिकर्म येषां ते तथा, तेषामवर्ण वदन् यथा-न सन्येव देवाः, कदाचनाप्यनुलभ्यमानत्वात् , किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैर्निनिमेषैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिरित्यादि, इहोत्तरन्तु सन्ति देवास्तत्कृतानुग्रहोपघाता- 25 दिदर्शनात्, कामासक्तता च मोहसातकर्मोदयादित्यादि । तद्विपर्ययेणाह-वर्णवादिनश्चेति, तत्रार्हता वर्णवादो यथा-'जितरागद्वेषमोहाः सर्वज्ञास्त्रिदशनाथकृतपूजाः । अत्यन्तसत्यवचनाः शिवगतिगामिनो जयन्ति जिनाः ॥ इति तत्प्रणीतधर्मवर्णवादो यथा 'वस्तुप्रकाशनसूर्योऽतिशयरत्नानां सागरो जयति । सर्वजगज्जीवबन्धुरबन्धुर्द्विविधोऽपि जिनधर्मः ॥' इति, आचार्यादेर्वर्णवादो यथा 'तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्य एव नमः। अनुपकृतपरहितरता ये ज्ञानं ददति भव्येभ्यः ॥' 30 इति, संघवर्णवादो यथा-'एतस्मिन् पूजिते नास्ति तधन्न पूजितं भवति । भुवनेऽपि पूजनीयो न