________________
२२६
चितुर्थी
सूत्राथमुक्तावल्याम् वस्तुमारब्धानां ग्रामान्तरविहरणं न कल्पते, पर्युषणाकल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षोपग्रहकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो
गमनवर्जनमित्यादिकः। कल्पते चेति, ज्ञानार्थतया अामान्तरविहरणं कल्पते, तत्रापूर्वः श्रुतस्क5 न्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामः, ततो यद्यसौ तत्सकाशान गृह्यते ततोऽसौ व्यवछिद्यते, अतस्तद्रहणार्थ प्रामान्तरगमनं कल्पत इत्यर्थः । तथा दर्शनार्थतया-दर्शनप्रभावकशास्त्रार्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणाख्यादिदोषदुष्टतया तद्रक्षणार्थम् , आचार्यस्योपाध्यायस्य वा विष्वग्भावो मरणं तेन कारणेन, तत्र गच्छेऽन्यस्याचार्यादेरभावाद्गणान्तराश्रयणार्थम् । प्रेषणेन-आचार्योपाध्यायानां वर्षाक्षेत्रस्य बहिस्ताद्वर्त्तमानानां वैयावृत्त्यकरणायाचार्यादिना प्रेषितस्य गमनं 10 कल्पत इत्यर्थः ॥ १५३ ॥
अकल्प्यानामाचरणे कर्मबन्धसम्भवात्कर्मद्वारतन्निरोधद्वाराण्याचष्टे
मिथ्यात्वाविरतिप्रमादकषाययोगा आश्रवद्वाराणि, सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वानि संवरद्वाराणि, उपध्युपाश्रयकषाययोगभक्त
पानभेदा परिज्ञा ॥ १५४॥ 15 मिथ्यात्वेति, स्पष्टम् , आश्रवणमाश्रवः, जीवतडागे कर्मजलस्य सङ्गलनम् , कर्मनिबन्धन
मित्यर्थः, तस्य द्वाराणीव द्वाराणि-उपाया आश्रवद्वाराणि । संवरणं संवरः, जीवतडागे कर्मजलस्य निरोधनं तस्य द्वाराणि । कर्मणो निर्जरोपायभूतां परिज्ञामाह-उपधीति, परिज्ञा वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानश्च, एषा द्रव्यतो भावतश्च द्विधा, द्रव्यतोऽनुपयुक्तस्य, भावतस्तूपयुक्तस्य । तत्रोपधिः रजोहरणादिः, तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवमग्रेऽपि ॥१५४॥ 20 परिज्ञा च व्यवहारवतां भवतीति तन्निरूपयति
आगमश्रुताज्ञाधारणाजितानि व्यवहाराः ॥१५५ ॥ आगमेति, व्यवहारो मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, तन्निबन्धनत्वाज्ज्ञानविशेषोऽपि, आगमो येन पदार्थानां परिच्छेदः, स च केवलमनःपर्यवावधिपूर्वचतुर्दशकदशकनवकरूपः । श्रुतं-आचारप्रकल्पादिश्रुतम् , नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवल25 वत् । यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा । गीतार्थसंविनेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुक्ते सा धारणा, वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणा । द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरि
हाणिमपेक्ष्य यत्प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो 80 बहुमिरन्यैश्वानुवर्तितस्तज्जितमिति ॥ १५५ ॥