SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका। २२५ नैष मामाक्रोशति, तथा करोतु नामैष बालिशत्वात्, तथा मम पुनरसहमानस्य सर्वथा पापं कर्म असातादि सम्पद्यते, मम चेदं सहतो निर्जरा क्रियत इति विचिन्त्याधिसहेत, इह प्राय आक्रोशवधाभिधानपरीषहद्वयमुपसर्गविवक्षायां मानुष्यकपाद्वेषिकादिरूपं मन्तव्यम् ॥ १५० ॥ अथ छद्मस्थप्रसङ्गात् केवलिनं निरूपयति ज्ञानदर्शनचारित्रतपोवीर्याण्यनुत्तराणि केवलिनः ॥ १५१ ॥ ज्ञानेति, सुगम अनुत्तरत्वञ्च यथास्वं सर्वथाऽऽवरणक्षयात् , तत्र ज्ञानदर्शने, तदावरणक्षयात् , चारित्रतपसी मोहक्षयात्, तपसश्चारित्रभेदत्वात् , तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायां शुक्ल. ध्यानभेदस्वरूपम् , ध्यानस्याभ्यन्तरतपोभेदत्वात् , वीर्यन्तु वीर्यान्तरायक्षयादिति ॥ १५१ ॥ निम्रन्थानां निर्ग्रन्थीनाश्चाकल्प्यानाह भयदुर्भिक्षप्रवाहणप्लावनानार्याभिभवव्यतिरेकेण गङ्गायमुनासरय्वै-10 रावतीमहीमहानदीर्मासान्तर्द्वित्रिवारानुत्तरीतुं निर्ग्रन्थानां न कल्पते ॥१५२॥ भयेति, गङ्गादिपञ्चमहानदीगुरुनिम्नगा मासस्य मध्ये द्वौ वारौ त्रिवारान् वा साधूनामुपलक्षणात्साध्वीनाञ्चोत्तरीतुं बाहुजङ्घानावादिना लवयितुं न कल्पते, आत्मसंयमोपघातसम्भवात् , शबलचारित्रभावात् । परन्तु राजप्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये भये सति दुर्भिक्षे-भिक्षाभावे सति गङ्गादौ केनचित् प्रत्यनीकेन प्रक्षिप्ते सति तेन प्लाव्यमाने सत्यनार्यैर्लेच्छादिभिर्जीवितचारित्रा-15 पहारिरी 'च तत्तरणेऽपि न दोषः॥१५२ ॥ तथा भयदुर्भिक्षनिष्काशनप्रवाहागमनानार्यपरिभवव्यतिरेकेण ग्रामान्तरविहरणं प्रथमप्रावृषि न कल्पते, वर्षावासं पर्युषितानां ग्रामान्तरविहरणञ्च, कल्पते च ज्ञानादित्रयार्थं विष्वग्भवनेन प्रेषणेन च ॥ १५३ ॥ भयेति, आषाढश्रावणौ प्रावृट् आषाढस्तु प्रथमप्रावृट् , ऋतूनां वा प्रथमत्वात् प्रथमप्रावृट् अथवा चतुर्मासप्रमाणो वर्षाकालः प्रावृडिति विवक्षितः, अत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे गन्तुं तावन्न कल्पते एव, प्रथमभागेऽपि पञ्चाशदिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वात् , उक्तश्च ‘अत्र चानभिगृहीतं विंशतिरात्रिं सविंशतिं मासं । तेन परममिगृहीतं गृहिज्ञानं कार्तिकं यावत् ॥ इति, अत्रानभिगृहीतं-अनिश्चितमशिवादिभिर्निर्गमभावात् । यत्र संवत्सरेऽधिक- 25 मासो भवति तत्राषाढ्या विंशतिर्दिनानि यावदनभिग्रहिकः आवासोऽन्यत्र सविंशतिरात्रं मासं-पञ्चशतं दिनानीति । तत्र प्रावृष्येकस्माद्रामाद्रामान्तरं विहत्तुं न कल्पत इत्युत्सर्गः, भयादिकारणे त्वपवादः, उक्तञ्च 'आवाहे दुर्भिक्षे भये महति दकौधे । परिभवनं ताडनं वा यदा परः करिष्यति' इति । वर्षावासमिति, वर्षाखावासोऽवस्थानं स च जघन्यत आ कार्त्तिक्या दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासप्रमाण उत्कृष्टत षण्मासमानः, तत्र पर्युषिताना-सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवत् ३० सू.मु. २९ 20
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy