SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ मुक्ता] स्थानमुक्तासरिका । २२३ यौपनिधिकः । शुद्धा अनतिचारा एषणा शङ्कितादिदोषवर्जनरूपा तया चरतीति शुद्धैषणिकः । संख्याप्रधानाः परिमिता एव दत्तयः सकृद्भक्तादिक्षेपलक्षणा ग्राह्याः यस्य सः संख्यादत्तिकः । दृष्टस्यैव भक्तादेर्लाभस्तेन चरतीति तथा । पृष्टस्यैव साधो दीयते त इत्येवंविधेन लाभेन यश्चरति स पृष्टलाभिकः। आचाम्लेन समयप्रसिद्धेन यश्चरति स तथा। घृतादिविकृतिभ्यो यो निर्गतः स निर्विकृतिकः। पुरिमाई पूर्वाह्वलक्षणं प्रत्याख्यानविशेषो यस्य स तथा । परिमितो द्रव्यादिपरिमाणतः पिण्डपातो भक्तादिलाभो । यस्यास्ति सः। भिन्नस्यैव स्फोटितस्यैव पिण्डस्य सक्तुकादिसम्बन्धिनः पातो लाभो यस्यास्ति सः। अरसं हिंग्वादिभिरसंस्कृतमाहारयतीत्यरसो विगतरसं विरसं पुराणधान्यौदनादि रूक्षं तैलादिवर्जितम् एवम्भूतानि वस्तूनि भगवता सदा वर्णितानि श्लाषितानि कर्त्तव्यतयाऽनुमतानि च ॥ १४६ ॥ तथा क्रियास्थानप्रतिसेवनां प्रतिसेव्याप्यनालोचनं लब्धप्रायश्चित्तानार- 10 म्भणं प्रस्थाप्याप्यनिर्वेष्टारं स्थितिप्रकल्प्यान्यप्रतिसेवनञ्च कुर्वाणं साम्भोगिकं विसाम्भोगिकं कुर्वन् निर्ग्रन्थोनाज्ञाबाह्यः, कुलभेदिनं गणभेदिनं हिंसाप्रेक्षिणं छिद्रप्रेक्षिणं पुनः पुनः प्रश्नप्रयोक्तारञ्च पाराश्चिकं कुर्वन्नपि ॥१४७॥ क्रियास्थानेति, अशुभकर्मबन्धकमकृत्यविशेषलक्षणं स्थानं प्रतिसेवितारं प्रतिसेव्य तद्गुरवेsनिवेदयितारं आलोच्य गुरूपदिष्टप्रायश्चित्तस्यानारम्भकं आरभ्यापि न निष्ठाप्रापकं स्थविरकल्पिकानां 15 समाचारे योग्यानि विशुद्धपिण्डशय्यादीन्यतिक्रम्यान्यानि प्रतिसेवितारश्च साम्भोगिक-एकभोजनमण्डलिकादिकं साधर्मिकं विसाम्भोगिकं-मण्डलीबाह्यं विदधन्निर्ग्रन्थो न भगवदाज्ञामतिक्रामति, उचितत्वात् , तथा यो गच्छवासी सन् तस्यैव कुलस्य भेदायान्योऽन्यमधिकरणोत्पादनेनाभ्युत्थाता भवति, तथा गणे वसन् तस्यैव भेदाय भवति, एवं हिंसां-वधं साध्वादेर्गवेषयति, हिंसार्थमेवापभ्राजनाथ वा प्रमत्ततादीनि छिद्राणि प्रेक्षते तथा मुहुर्मुहुरसंयमस्यायतनभूतानि सावद्यानुष्ठानप्रश्नानि प्रयुंक्ते तं 20 साधर्मिकं पाराश्चिक-दशमप्रायश्चित्तविशेषवन्तमपहृतलिङ्गादिकं कुर्वन् निर्मथो भगवदाज्ञां नातिकामतीत्यर्थः ॥ १४७॥ तथा गणे आज्ञाधारणयोः सम्यगप्रयोक्त्रोः यथारानिकतया विनयस्य सम्यगप्रयोक्रोः श्रुतपर्यवजातानां यथावसरं सम्यगपाठयित्रोः ग्लानशैक्ष-25 वैयावृत्त्यानभ्युपगंत्रोः अनापृछ्यचारिणोराचार्योपाध्याययोः पञ्च विग्रहस्थानानि ॥ १४८॥ गण इति, गणविषये हे साधो भवता विधेयमिदमित्येवंरूपाया आज्ञाया न विधेयमिदमिदमित्येवंरूपाया धारणाया यो न सम्यगौचित्येन प्रयोक्ता भवति येन परस्परं साधवः कलहायन्ते
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy