________________
२२२
सूत्रार्थमुक्तावल्याम्
[चतुर्थी शरीरिविशेषगतान् धर्मविशेषानाह
आख्यानविभजनदर्शनतितिक्षणानुचरणेषु प्रथमपश्चिमजिनानां कृ. च्छ्रवृत्तिः ॥ १४५॥
आख्यानेति, भरतैरवतेषु चतुर्विंशतेय आदिमाः पश्चिमाश्च जिनास्तेषामाख्यानादिक्रियावि5 शेषेषु विनेयानामृजुजडत्वेन वक्रजडत्वेन च कृच्छ्रवृत्तिर्भवति, तत्र विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेराख्याने कृच्छ्रवृत्तिः। व्याख्यातेऽपि वस्तुतत्त्वस्य विभागेनावस्थापन दुःशकं भवति, शिष्याणामुपपत्तिभिः प्रतीतावारोपयितुमुत्पन्नं परीषहादिकं तितिक्षयितुमनुष्ठापयितुश्च दुःशकम् , तेषामृजुवक्रजडमतित्वात् । मध्यमजिनानान्तु सुगमं भवति, तद्विनेयानामृजुप्रज्ञत्वेनाल्प
प्रयत्नेनैव बोधनीयत्वात् , विहितानुष्ठाने सुखप्रवर्तनीयत्वाच ॥ १४५ ॥ 10 तथा
क्षान्तिमुक्तिमार्दवार्जवलाघवानि सत्यतपस्संयमत्यागब्रह्मचर्यवासा उत्क्षिप्तनिक्षिप्तान्तप्रान्तरूक्षचरकत्वानि अज्ञातान्नग्लानकमौनचरकत्वसंमृ. ष्टकल्पिकत्वतज्जातसंसृष्टकल्पिकत्वानि औपनिधिकशुद्धैषणिकसंख्यादत्तिकदृष्टलाभिकपृष्टलाभिकत्वानि आचाम्लिकनिर्विकृतिकपुरिमर्द्धिकपरिमितपिण्डपातिकभिन्नपिण्डपातिकत्वानि अरसविरसान्तप्रान्तरूक्षाहाराणि च श्रमणानां नित्यं कीर्त्तितानि ॥ १४६ ॥
क्षान्तीति, क्षान्त्यादयः क्रोधलोभमानमायानिग्रहाः, लाघवमुपकरणतो गौरवत्रयत्यागो वा। सत्यं चतुर्विधमनलीकम् , तदुक्तम् 'अविसंवादनयोगः कायमनोवागजिह्मता चैव।सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्रे'ति । तपो द्वादशविधम् , संयमो हिंसादिनिवृत्तिः, त्यागः संविनैकसाम्भोगि20 कानां भत्तादिदानम् , ब्रह्मचर्ये मैथुनविरमणे वास इत्येष पूर्वोक्तैः सह दशविधः श्रमणधर्मः । अथ वृत्तिसंक्षेपाभिधानस्य बाह्यतपोविशेषस्य भेदा उच्यन्ते, उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनादुद्धृतं तद्र्थमभिग्रहविशेषाञ्चरति तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकस्तस्य भाव उरिक्षप्तचरकत्वमेवमप्रेऽपि, निक्षिप्तमनुवृत्तं चरतीति तथा, अन्ते भवमान्तं भुक्तावशेषं वल्लादि, प्रकृष्टमान्तं प्रान्तं तदेव पर्युषितम् , रूक्षं निलहमिति, तत्राद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः । अज्ञातः-अनुपदर्शितखाजन्यर्द्धिमत्प्रवाजिता25 दिभावः सन् भिक्षार्थमटतीत्यज्ञातचरकः, अन्नग्लानकचरकः, अन्नग्लानको दोषानभुक्, एवंविधः
सन् चरति, अन्नग्लायकचरकः, अन्यग्लायकचरको वेति कचिद् दृश्यते, अन्नं विना ग्लायक: समुसमवेदनादिकारण एवेत्यर्थः, अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति तथा । मौनेन व्रतेन चरतीति मौनचरकः, संसृष्टेन खरण्टितेन हस्तभाजनादिना दीयमानं कल्पिकं कल्पवत् कल्पनीयमुचितमभिप्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिका, तज्जातेन-देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं 30 कल्पिकं यस्य सः । उपनिधीयत इत्युपनिधिः प्रत्यासन्नं यद्यथा कथञ्चिदानीतं तेन चरति तद्हणाये.