________________
२२१
मुला]
स्थानमुक्तासरिका। अलीकं वदनं वादो मृषावादस्तस्माद्विरमणं सर्वतः कृतादिभेदात् , यद्वा द्रव्यतः सचेतमाचेतनद्रव्यविषयात् क्षेत्रतो प्रामनगरारण्यादिसंभवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थात् , अदत्तं स्वामिनाऽवितीणं तस्यादानं तस्माद्विरमणं । सर्वस्मात् कृतकारितानुमतिभेदादथवा द्रव्यतो दिव्यमानुषतैरश्वभेदात् रूपरूपसहगतभेदाद्वा, तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति, क्षेत्रतत्रिलोकसंभवात् कालतो: भावतश्च पूर्ववत् मैथुनाद्विरमणं । सर्वस्मात् पूर्ववत् परिग्रहाद्विरमणमिति । अणूनि च तानि व्रतान्यणुव्रतानि, अणुत्वश्च महाव्रतापेक्षयाऽल्पविषयत्वादिति प्रतीतमेव, अथवा अनु महाव्रतकथनस्य पश्चात्तदप्रतिपत्तौ यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि, यद्वा सर्वविरतापेक्षया अणोर्लघोर्गुणिनो व्रतान्यणुव्रतानि, स्थूला द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वञ्चैषां सकललौकिकानां जीवत्वप्रसिद्धः स्थूलविषयत्वात् , तस्मात् प्राणातिपाताद्विरमणम् । स्थूलः परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवस्तस्मा- 10 न्मृषावादात् । परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् । स्वदारसन्तोषात्मीयकलनादन्यत्रेच्छानिवृत्तिः । धनादिविषयाभिलाषनियमनं देशतः परिग्रहविरतिरिति ॥ १४२॥
दुर्गतिसुगतिसाधनान्याह
शब्दरूपगन्धरसस्पर्शेरपरिज्ञातैर्जीवाः सज्यन्ते रज्यन्ते मूर्च्छन्ति ।। गृध्यन्ति अध्युपपद्यन्ते विनिघातमापद्यन्ते परिज्ञाताश्च कल्याणाय ॥ १४३॥
शब्देति, शब्दादयो हि कामगुणा अभिलाषसम्पादकाः, स्वरूपतोऽनवगता अप्रत्याख्याता नरकादिभवप्राप्तये भवन्ति, एभिर्जीवा रागाद्याश्रयैः सह सम्बन्धं कुर्वति, रागं यान्ति तदोषानवलोकनेन मोहं यान्ति प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकांक्षां कुर्वति तदर्जनायातिशयेन यतन्ते ततश्च संसारमापद्यन्ते, त एव यदा झपरिझया परिज्ञाताः प्रत्याख्यानपरिज्ञया च परिहृतास्तदा ते प्राणिनां हिताय 20 शुभाय कल्याणाय च भवन्ति ॥ १४३ ॥
शरीरं निरूपयति
नारकादिवैमानिकान्तानां शरीराणि पञ्चवर्णरसान्यौदारिकादीनि च ॥ १४४॥
नारकादीति, चतुर्विशतिदण्डके नारकादिवैमानिकान्तानां वैक्रियशरीराणां पञ्चवर्णत्वं तब 25 निश्चयनयात् , व्यवहारतस्त्वेकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैव । कृष्णनीललोहितहारिद्रशुकाः पत्रैव वर्णा अपरेषां सायोगिकत्वात् , एवं रसा अपि तिक्तकटुकषायाम्लमधुराः पश्च । एवमौदारिकाहारकतैजसकार्मणशारीराण्यपि । कार्मणातिरिक्तानि सर्वाण्यपि पर्याप्तकत्वेन स्थूलाकारधारीणि यदा भवन्ति तदा तान्यवयवभेदेन पञ्चवर्णरसवन्ति सुरभ्यसुरभिगन्धवन्त्यष्टस्पर्शाणि च, अन्यथा तु न नियतवर्णादिव्यपदेश्यामि, अपर्याप्तत्वेनावयवविभागाभावादिति ॥ १४४ ॥
.30