________________
२२० सूत्रार्थमुक्तावल्याम्
[चतुर्थी धर्मः स प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपि चानुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूताऽभ्युदयमोक्षफला च, अभयकुमारादीनामिव ॥ १४०॥ ___ नारकत्वादिसाधनकर्माण्याह
महारम्भमहापरिग्रहपञ्चेन्द्रियवधकुणिमाहारै रयिकं कर्म प्रकरोति, "मायित्वनिकृतिमत्वालीकवचनकूटतुलाकूटमानैस्तैर्यग्योनिकं प्रकृतिभद्रकताप्रकृतिविनीततासानुक्रोशताऽमत्सरिकताभिर्मानुषं सरागसंयमसंयमासंयमबालतपःकर्माकामनिर्जराभिर्दैविकम् ॥ १४१॥
महारम्भेति, नैरयिक कर्म नैरयिकत्वायायुष्कादि कर्म, महान्-इच्छापरिमाणेनाकृतमर्या___ दतया बृहन्नारम्भः पृथिव्याधुपमईलक्षणो यस्य स महारम्भः, चक्रवर्त्यादिस्तत्त्वमेकं कारणम् । 10 महान् परिग्रहो हिरण्यसुवर्णद्विपदचतुष्पदादिर्यस्य सः, तत्त्वमपरम् । पञ्चेन्द्रियाणां वधोऽपरो हेतुः । कुणिमं मांसं तदेवाहारः सोऽप्यन्यो मायित्वं मनःकुटिलता, निकृतिः कायचेष्टाद्यन्यथाकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्त्वम् , अलीकवचनमप्रियवचनमसत्यवचनं वा, कूटतुलाकूटमानेन यो व्यवहारः स कुटतुलाकूटमानः, एते तिर्यग्योनिकायुष्कादेः कारणम् । प्रकृत्या स्वभावेन भद्रकता-पंरानुपतापिता, प्रकृतिविनीतता,-अनुपदिष्टविनीतत्वम् सानुक्रोशता-सदयता, मत्सरिकता-परगुणासहि16 गुता तत्प्रतिषेधोऽमत्सरिकता, एते मनुष्योत्पत्तिकारणकर्महेतवः । सरागसंयमः-सकषायचारित्रं वीतरागसंयमिनामायुषो बन्धाभावात् । संयमासंयमो देशसंयमः, बाला मिथ्यादृष्टयस्तेषां तपःक्रिया, अकामेन-निर्जरां प्रत्यनभिलाषेण निर्जरा-कर्मनिर्जरणहेतुर्बुभुक्षादिसहनमित्येतानि देवोत्पत्तिकारणानि ॥ १४१॥
संयमसम्बन्धादाह90 सर्वतः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहविरमणानि पञ्चमहाव्रतानि स्थूलतस्तान्यणुव्रतानि ॥ १४२॥
सर्वत इति, पञ्चमहाव्रतानि, संख्यान्तरव्यवच्छेदाय पञ्चेति, प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावात् , ब्रतानि नियमाः, एषां महत्त्वञ्च सर्वजीवादिविषयत्वेन महाविषयत्वात् , यावज्जीवं त्रिविधं त्रिविधेनेति प्रत्याख्यानरूपत्वात् , देशविरतापेक्षया महतो गुणिनो व्रतरूपत्वाच, सर्वतः-निरवशेषा9 प्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाच, अथवा द्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतः त्रिलोकसम्भवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थाच, न तु परिस्थूलादेवेत्यर्थः । प्राणानामिन्द्रियोच्छासायुरादीनामतिपात:-प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनं सर्वतः सद्भावप्रतिषेधासदा
बोद्भावनार्थान्तरोक्तिगर्दाभेदात् कृतादिभेदाच, यद्वा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः 50 सर्वलोकालोकगोचरात् कालतोऽतीतादे राज्यादिवर्तिनो वा भावतः कषायनोकषायादिप्रभवान्मृपा