________________
मुक्का स्थानमुक्तासरिका।
१९३ दुरभिगन्धेति, कृष्णनीलकापोतलेश्यानां पुद्गलात्मकतया गन्धवत्त्वाहुरमिगन्धता तेज:पद्मशुक्लानाश्च सुरभिगन्धता विज्ञेया । एतासां वर्णानामानुरूपाः, तेजोलेश्या लोहितवर्णा पद्मलेश्या पीतवर्णेति, आद्या नरकतिर्यग्गतिप्रदाः संक्लेशहेतवोऽमनोहरा वर्णतोऽविशुद्धाः स्पर्शतः शीतरूक्षाः, अन्त्यास्तिस्रो मनुष्यदेवगतिपदा असंक्लिष्टा मनोहरा विशुद्धाः स्निग्धोष्णाश्च । मरणश्च बालपण्डितमिश्रभेदम् , विरतिसाधकविवेकरहितत्वादसंयतो बालस्तस्य मरणं बालमरणं फलवद्विज्ञानसंयुतत्वा- 5 त्पण्डितः संयतस्तस्य मरणं पण्डितमरणम् , अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वात्संयतासंयतो बालपण्डितस्तस्य मरणमिति, तत्र वालमरणस्य त्रिभेदमाह-स्थितेति, अविशुद्धासंक्लिश्यमानकृष्णादिलेश्यावस्थितः स्थितलेश्यः, संक्लिश्यमानलेश्यावस्थितः संक्लिष्टलेश्यः, विशुद्ध्या वर्धमानलेश्यावस्थितः पर्यवजातलेश्यः, प्रथमं कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नरकादिषूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येषूत्पद्यते तदा द्वितीयम् । यदा च कृष्णादि-10 लेश्यः सन् नीलकापोतलेश्येषूत्पद्यते तदा तृतीयम् , पण्डितमरणे संयतत्वादेव लेश्यायाः संक्लिश्यमानता नास्तीति बालमरणाद्विशेषो बालपण्डितमरणे तु लेश्यायाः संक्लिश्यमानता विशुद्ध्यमानता च नास्ति मिश्रत्वादिति विशेषः । वस्तुतः पण्डितमरणं द्विविधमेव, संक्लिश्यमानलेश्यानिषेधेनावस्थितवर्धमानलेश्यत्वात् , व्यपदेशमात्रादेव च त्रिविधत्वमुक्तम् , बालपण्डितमरणन्त्वेकविधमेव संक्लिश्यमानपर्यवजातलेश्यानिषेधेऽवस्थितलेश्यत्वात् त्रैविध्यन्त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तरिति ॥८१॥ 15
जन्मान्तरेऽधिकारभेदात्प्राप्यमाह
प्रवचनमहाव्रतजीवनिकायेषु शङ्काकांक्षाविचिकित्सादिमान्निग्रन्थः परीषहाभिभूतः, विपरीतश्च परीषहानभिभवति ॥ ८२ ॥
प्रवचनेति, प्रशस्तं प्रगतं प्रथमं वा वचनं प्रवचन-आगमः, महाव्रतानि प्रसिद्धानि, जीवनिकायो जीवसमूहः, यो ह्यनगारितां प्रपद्य प्रवचनादौ देशतः सर्वतः संशयवान् मतान्तरस्यापि साधु- 29. तया मन्ता फलं प्रति शङ्कोपेतस्तत एव द्वैधीभावमापन्नो नैतदेवमिति प्रतिपत्तिको वा प्रवचनाविक न सामान्यतः प्रत्येति न वा प्रीतिविषयं करोति नापि तदुक्तं चिकीर्षति तं प्रव्रजिताभासं क्षुधादयः परीषहा एत्य पुनः पुनरभिभवन्ति, तदेवमनिश्चयवतोऽपराक्रमवतः प्रवचनादीनि त्रीणि स्थानानि न हिताय न सुखाय न निःश्रेयसाय न शुभानुबन्धाय भवन्ति । यश्च निर्ग्रन्थः प्रक्चनादौ निश्शङ्कितः निष्काक्षितो निर्विचिकित्सितो न वा कलुषितः स परीषहानभिभवति न तु तैरभिभूयते तस्य च प्रवचनादीनि 25 हिताय सुखाय निःश्रेयसाय शुभानुबन्धाय च भवन्ति ॥ ८२ ॥
अयश्चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह
घनोदधिधनवाततनुवातवलयिता पृथिवी, तत्रेकेन्द्रियवर्जानां त्रिसामयिकविग्रहेणोत्पादः ॥ ८३ ॥
घनोदधीति, रत्नप्रभादिका पृथिवी दिक्षु विदिक्षु च घनोदध्यादिभिः क्रमेणाऽऽवेष्टिता, तत्रा- 30 भ्यन्तरं पनोदधिवलयं ततो धनवातवलयं ततश्च ननुवातबलायमिति, पतासु पृथिवीपूत्कर्षेण समय
सू. मु.१५