SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९२ सूत्रार्थमुक्तावल्याम् [चतुर्थी कर्मनिर्जरायाः पुद्गलपरिणामत्वात्तत्परिणामविशेषं तद्वत्तारं चाह पुद्गलः पुद्गलान्तरं प्राप्य रूक्षतया लोकान्ते वा प्रतिहन्येत, एकद्वित्रिभेदाच्चक्षुस्त्रिधा, ऊर्ध्वाधस्तिर्यग्भेदतो वस्तुपरिच्छेदः ॥ ७९ ॥ पुद्गल इति, परमाणुपुद्गलोऽन्यं परमाणुपुद्गलं प्राप्य गतेः प्रतिघातमापद्येत, रूक्षतया वा 5 तथाविधपरिणामान्तरात् प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावात् । सचक्षुषामेव तदवगमाञ्चक्षुर्निरूपयति-एकेति, चक्षुर्लोचनं तद्रव्यतोऽक्षि, भावतो ज्ञानं, तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मान् इत्यर्थः । स संख्याभेदात्रिधा, अतिशयवच्छ्रुतज्ञानादिवर्जितः छद्मस्थश्चक्षुरिन्द्रियापेक्षयैकचक्षुः, देवो द्विचक्षुः, चक्षुरिन्द्रियावधिभ्याम् , आवरणक्षयोपशमोत्पन्नश्रुतावधिज्ञानदर्शनवान् त्रिचक्षुश्चक्षुरिन्द्रियपरमश्रुतावधिभिः, स हि साक्षादिव समस्तवस्तूनि हेयोपादेयान्यवलोकयति । 10 केवलज्ञानी त्विह न व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षण चक्षुष उपयोगाभावेनासत्कल्पतया चक्षुस्त्रयाभावात्, द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यते । चक्षुष्मतोऽविपरीततया संशयराहित्येन वस्तुपरिच्छेदाज्ज्ञानविशेषापेक्षयाऽऽह-ऊद्देति, भेदत्रयेणायं वस्तुपरिच्छेदः परमावधिना न तु केवलेन, क्रमोपयोगाभावेनोर्खादिक्रमोत्पादासम्भवात् । ज्ञानोत्पादानन्तरं प्रथममूर्द्धलोकं जानाति ततस्तिर्यग्लोकं ततश्चाधोलोकमिति क्रमेण पर्यन्ताधिगम्यत्वादधोलोको 15 दुरभिगम इति सामर्थ्यात् प्राप्तम् ॥ ७९ ॥ ज्ञानलक्षणर्द्धिसाधादृद्धिभेदानाह विमानवैक्रियपरिचारणर्द्धयो देवर्द्धयोऽतियाननिर्यानबलायुद्धयो राजर्द्धयो ज्ञानदर्शनचारित्रर्द्धयो गण्यद्धयः ॥ ८॥ विमानेति, इन्द्रादेरैश्वयं देवर्द्धिः, तत्र विमानसमृद्धिात्रिंशल्लक्षादिकबाहुल्यं महत्त्वं रत्नादि20 रमणीयत्वञ्च, वैक्रियर्द्धिक्रियकरणं वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसंख्यातान् द्वीपसमुद्रान् वा पूरयन्ति, कामसेवाया ऋद्धिः परिचारणद्धिः, अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानश्च विकृत्य परिचारयतीत्येवंलक्षणा । नगरप्रवेशे तोरणहट्टशोभाजनसंमर्दादिलक्षणाऽतियानर्द्धिः, नगरादिनिर्गमे हस्तिकल्पनसामन्तपरिवारादिका निर्यानर्द्धिः, चतुरङ्गवाहनभाण्डागारादिर्बलार्द्धिः, एता राजसम्पदः । विशिष्टश्रुतसम्पत् ज्ञानर्द्धिः, प्रवचने निःशङ्कितत्वादिकं प्रवचनप्रभावकशास्त्रसम्पद्वा 25 दर्शनर्द्धिः निरतिचारिता चारित्रधिः एता गणिन आचार्यस्य सम्पदः॥ ८०॥ अथ लेश्याश्रयेणाह दुरभिगन्धलेश्याः कृष्णनीलकापोताः, सुरभिगन्धलेश्यास्तेजःपद्मशुक्लाः, स्थितसंक्लिष्टपर्यवजातलेश्यानां बालमरणं स्थितासंक्लिष्टपर्यवजातलेश्यानां पण्डितमरणं स्थितासंक्लिष्टापर्यवजातलेश्यानां बालपण्डितम50रणम् ॥ १॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy