SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] स्थानमुक्तासरिका । १९१ ष्टाच परिहारविशुद्धिका उच्यन्ते । गच्छनिर्गतसाधुविशेषा जिनास्तेषां कल्पस्थितिर्जिन कल्पस्थितिः, जघन्यतोSपि नवमपूर्वस्य तृतीयवस्तुनि सत्युत्कृष्टतस्तु दशसु भिन्नेषु प्रथमे संहनने जिनकल्पं प्रतिपद्यते, दिव्याद्युपसर्गं रोगवेदनाश्वासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, अस्य वसतिः सर्वोपाधिविशुद्धा, तृतीयपौरुष्यां भिक्षाचर्या पिण्डैषणा चोत्तरासां पञ्चानामेकतरैव, मासकल्पेन विहारः, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति । गच्छप्रतिबद्धा आचा- 5 र्यादयः स्थविरास्तेषां कल्पस्थिति: स्थविरकल्पस्थितिः, सा च प्रव्रज्या शिक्षा व्रतान्यर्थग्रहणमनियतवासः शिष्याणां निष्पत्तिर्विहारस्सामाचारीस्थितिश्च । एवञ्च सामायिके सति च्छेदोपस्थापनीयं तस्मिन् निर्विशमानकं ततो निर्विष्टकायिकं ततश्च जिनकल्पः स्थविरकल्पो वा भवतीति क्रमः ॥ ७६ ॥ कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीत्याह आचार्योपाध्याय स्थविराणामिहपरोभयलोकानां कुलगणसङ्घानां तप- 10 स्विग्ल।नशैक्षकाणां ज्ञानदर्शनचारित्राणां सूत्रार्थतदुभयानां गुरुगतिसमूहानुकम्पाभावश्रुतान्याश्रित्य प्रत्यनीका अपि केचित् ॥ ७७ ॥ आचार्येति, आचार्यादीनां प्रत्यनीकता - प्रतिकूलताऽवर्णवादादिभिः, झ्यश्च तत्त्वाभिधायकं गुरुमाश्रित्य । मानुषत्व लक्षणपर्यायस्येहलोकस्य प्रत्यक्षस्य प्रत्यनीकः, इन्द्रियार्थप्रतिकूलकारित्वात्, पचाग्नितपस्विवत् । भोगसाधनादीनामिह लोकोपकारिणां वोपद्रवकारीहलोकप्रत्यनीकः । जन्मान्तरं 15 प्रति प्रत्यनीक इन्द्रियार्थतत्परः, ज्ञानादीनामुपद्रवकारी वा परलोकप्रत्यनीकः । उभयलोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरो भोगसाधनज्ञानादीनामुपद्रवकारी वा । तत्तल्लोकवितथप्ररूपणा वा तत्तल्लोकप्रत्यनीकता । इयञ्च मानुषत्वादित्याश्रयेण । कुलं चान्द्रादिकं कोटिकादिर्गणः कुलसमूहः, गणसमूहः, सङ्घः, एषां प्रत्यनीकताऽवर्णवादादिभिः, समूहमाश्रित्य चेयम् । अनुकम्पामाश्रित्य तपस्वी क्षपकः, ग्लानो रोगादिभिरसमर्थः, अभिनवप्रव्रजितः शैक्षः, एतेऽनुकम्पनीया भवन्ति, तदकरणा - 20 कारणाभ्याश्च प्रत्यनीकता । भावः पर्यायो जीवाजीवगतः, तत्र जीवगतः प्रशस्तः क्षायिकादिरप्रसस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततश्च भावं ज्ञानादि प्रतीत्य प्रत्यनीको वितथप्ररूपणतो दूषणतो वा । सूत्रं व्याख्येयम्, अर्थस्तद्व्याख्यानं निर्युक्तत्यादिस्तदुभयं द्वितयमिति श्रुतमाश्रित्य तत्प्रत्यनीकता तत्र दोषोद्भावनमिति ॥ ७७ ॥ स्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्ट निर्जराकारणान्याह - मनोवाक्कायैर्निग्रन्थस्य श्रुताध्ययनैकाकिविहारप्रतिमोपसम्पदपश्चिममारणान्तिकसंलेखनाऽऽकांक्षणं महानिर्जरायै ॥ ७८ ॥ 25 मन इति, कथमहमल्पं बहु वा श्रुतमध्येष्यामि, कथमेका किविहारप्रतिमामुपसंपद्य विहरिष्यामि कथं वाऽपश्चिममारणान्तिकसंलेखनावान् कृतभक्तपानप्रत्याख्यानः पादपोपगतः कालमनवकांक्षमाणो विहरिष्यामीति मनसा वचसा कायेन पर्यालोचयति यस्तस्य महती कर्मक्षपणा भवति ॥ ७८ ॥ १०
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy