SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावत्याम् [चतुर्थी वैदनया प्रतपालनासहिष्णव इति न प्रवाजयितुं कल्पन्ते प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गश्च । बालवृद्धजडादीनामन्येषामप्ययोग्यानां सत्त्वेऽपि त्रिस्थानकानुरोधात्ते नाभिहिताः। एवं कथश्चिच्छलितेन प्रवाजिता अप्येते शिरोलोचनेन मुण्डयितुं प्रत्युपेक्षणादिसमाचारी ग्राहयितुं महाप्रतेषु व्यवस्थापयितुमुपध्यादिना संभोक्तुमात्मसमीपे संवासयितुञ्च न कल्पन्ते ॥ ७४ ॥ अवाचनीयानाह- . . . .. अविनीतविकृतिप्रतिबद्धाव्यवसितप्राभृता अवाचनीयाः, दुष्टमूढव्युद्धाहिताश्च दुस्संज्ञाप्याः॥७५॥ अविनीतेति, सूत्रार्थदातुर्वन्दनादिविनयरहितोऽविनीतः, तद्वाचने हि बहवो दोषा भवेयुः । घृताविरसविशेषगृद्धो विकृतिप्रतिबद्धः, अस्यापि वाचने तपोयोगेच्छितफलादीनामभावो दोषः । अनु10 पशान्तपरमक्रोधोऽव्यवसितप्राभृतः, एतस्य वाचन इह लोकतस्त्यागोऽस्य प्रेरणायां कलहनात्, प्रान्त देवता छलनाच, परलोकतोऽपि त्यागः, तत्र दत्तस्य श्रुतस्य निष्फलत्वात् , ऊषरक्षिप्तबीजवत् । अतो विनीतः, अविकृतप्रतिबद्धः, व्यवसितप्राभृतश्च सूत्रार्थवाचनयोग्यः। सम्यक्त्वस्यायोग्यानाह-दुष्टेति, तत्त्वं प्रज्ञापकं वा प्रति द्विष्टो दुष्टः स चाप्रज्ञापनीयः, द्वेषेणोपदेशाप्रतिपत्तेः । गुणदोषानभिज्ञो मूढः, कुप्रज्ञापकदृढीकृतविपर्यासो व्युद्ाहितः, सोऽप्युपदेशं न प्रतिपद्यते, किन्त्वेतद्विपरीताः सुसंज्ञाप्याः 16 प्रज्ञापितानामर्थानामनायासतो विज्ञानादिति ॥ ७५ ॥ अथ कल्पस्थितिमाह सामायिकच्छेदोपस्थापनीयनिर्विशमानकल्पस्थितिभेदान्निविष्टजिनस्थविरकल्पस्थितिभेदाद्वा त्रिधा कल्पस्थितिः॥ ७६ ॥ सामायिकेति, संयमविशेषः सामायिकं तस्य तदेव वा कल्प:-करणमाचारः, तदुक्तं 20 'सामर्थे वर्णनायाश्च करणे छेदने तथा । औपम्ये चाधिवासे च कल्पशब्द विदुर्बुधा' इति । सामायि ककल्पः, स च प्रथमचरमतीर्थयोः साधूनामरूपकाला, छेदोपस्थापनीयस्य सद्भावात् , मध्यमतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात् , तदेवं तस्य तत्र वा स्थिति:-मर्यादा सामायिककल्पस्थितिः । सा च नियमरूपाऽनियमरूपा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण वन्दनकदाने च नियमरूपा, अचेलतायामाधाकर्मिकभक्ताद्यग्रहणे राजपिण्डा25 ग्रहणे प्रतिक्रमणकरणे मासकल्पकरणे पर्युषणकल्पकरणे चानियमरूपा । पूर्वपर्यायछेदेनारोपणीयं छेदोपस्थापनीयम् , व्यक्तितो महावतारोपणमित्यर्थः, तच्च प्रथमचरमतीर्थयोरेव, तत्कल्पस्थितिश्च पूर्वोक्तेषु दशसु स्थानकेष्ववश्यपालनरूपा । ये परिहारविशुद्धितपोऽनुचरन्ति ते निर्विशमानास्तेषां कल्पे स्थिति निर्विशमानकल्पस्थितिः, तद्यथा ग्रीष्मशीतवर्षाकालेषु क्रमेण जघन्यं चतुर्थषष्ठाष्टमानि मध्यम षष्ठादीनि, उत्कृष्टमष्टमादीनि तपः, पारणञ्चायाममेव, पिण्डैषणासप्तके वाद्ययोरभिग्रह एष, पञ्चसु. 30 पुनरेकया भक्तमेकया, च पानकमित्येकं द्वयोरभिग्रह इति । आसेवित विवक्षितचारित्रा निर्विष्टार, अनुपहारिका इत्यर्थः, तत्कल्पस्थितिः, प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति । निर्विशमानका निर्वि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy