SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] स्थानमुक्तासरिका । ૨૦૧ 1 नाच रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थं दुःखकारणम् ॥ धनदो धनार्थिनां धर्मः कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य पारम्पर्येण साधकः । शल्यं कामा विषं कामाः कामा आशीविषोपमाः । कामानभिलषन्तोऽपि निष्कामा यान्ति दुर्गतिमि त्यादयः ॥ ७१ ॥ अर्थादिविनिश्चयकारणपरम्परफलमाह श्रवणज्ञानविज्ञानादि फलं श्रमणपर्युपासनस्य ॥ ७२ ॥ श्रवणेति, श्रमणस्य सेवायाः फलं श्रवणं, साधूनां धर्मकथास्वाध्यायादिकारित्वेन तत्सेवायां तच्छ्रवणलाभात्, श्रवणस्य च ज्ञानं श्रुतज्ञानं फलम्, ज्ञानस्य विज्ञानं - अर्थादीनां हेयोपादेयतानिर्णयः फलम्, एवं विज्ञानस्य प्रत्याख्यानं - निवृत्तिद्वारेण प्रतिज्ञाकरणं तस्य प्राणातिपाताद्यकरणलक्षणः संयमस्तस्य नूतनकर्मानुपादानरूपानाश्रवस्तस्य च लघुकर्मत्वेनानशनादिभेदं तपः, तस्यापि पूर्वकृतकर्मविनाशः तस्य योगनिरोधलक्षणाऽक्रिया तस्याश्च कर्मकृतविकाररहितत्वलक्षणं निर्वाणं तस्य 10 तु सिद्धिगतिः प्रयोजनमिति ॥ ७२ ॥ अथ जीव पर्यायान्तराण्याह प्रज्ञापनासम्यक्त्वाराधनादयो ज्ञानदर्शनचारित्राणाम् ॥ ७३ ॥ प्रज्ञापनेति, भेदाद्यभिधानं प्रज्ञापना, सा च पञ्चधा ज्ञानं दर्शनं क्षायिकादि त्रिधा, चारित्रं सामायिकादि पञ्चधेति । सम्यक्त्वमविपरीतता - मोक्षसिद्धिं प्रत्यानुकूल्यम्, तदपि ज्ञानसम्यक्त्वं दर्शन - 15 सम्यक्त्वं चारित्रसम्यक्त्वं चेति त्रिधा । आराधना - ज्ञानादेः, श्रुतस्य कालाध्ययनादिष्वष्टस्खाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना । निःशङ्कितत्वाद्याचारेषु प्रवृत्त्या दर्शनस्य निरतिचारपरिपालना दर्शनाराधना, चारित्रस्य समितिगुप्तिषु प्रवृत्त्या निरतिचारपरिपालना चारित्राराधना । सा चाराधना भावभेदात्कालभेदाद्वोत्कृष्टादिभेदा भवति । आदिपदेनैते ग्राह्याः तथाहि, ज्ञानादेः संक्लेश:संक्लिश्यमान परिणामाज्ज्ञानादिप्रतिपतनलक्षणो ज्ञानादिसंक्लेशः, विशुद्धयमानपरिणामहेतुकज्ञानादिवि - 20 शुद्धिर्ज्ञानाद्यसंक्लेशः, एवमेव ज्ञानादिविषया अतिक्रमव्युत्क्रमातिचारानाचारा विज्ञेयाः, ज्ञानाद्यति - क्रमादीनालोचयेत् प्रतिक्रमेन्निन्देद्गर्हेत् परिवर्जयेश्व ॥ ७३ ॥ प्रव्राजनायोग्यानाह— पण्डकवातिकक्लीबाः प्रव्रज्याद्ययोग्याः ॥ ७४ ॥ पण्डकेति, पण्डको नपुंसकः, स च महिला स्वभावस्वरवर्णभेदादिलक्षणादिना परिज्ञाय 25 परिहर्त्तव्यः, स्वनिमित्ततोऽन्यथा वा कषायिते मेहने प्रतिसेवनमन्तरेण वेदधारणासमर्थो वातिकः, सच त्याज्यो निरुद्धवेदस्य नपुंसकतया परिणामसम्भवात् दृष्टिशब्दाऽऽदिग्धनिमंत्रणलीबभेदात् चतुर्विधः, तत्र यस्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः, यस्य तु सुरतादिशब्दं शृण्वतस्तथा स शब्दक्कीबः, यस्तु विपक्षेणावगूढो निमंत्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धीबो निमंत्रितकीबध, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमति, एते च सर्वे उत्कट- 30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy